________________ 344 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलो [ 7 कारिकाव्याख्यायां प्रकाशः। संशयसत्वे व्याप्त्यग्रहात् / न च साध्याभावविषयकज्ञानस्य प्रतिबन्धकत्वात् तनिवर्तनमफलं, लाघबात्साध्याभावविषयत्वस्यैव प्रतिबन्धकतावच्छेदकत्वात् // प्रकाशिका। त्वमित्याहुः। तजनितेति। न चैवं मूलविरोधः, ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीत्यत्र मूले शङ्काया अनुमाननिवर्तनीयत्वाभिधानादिति वाच्यम् / तन्मूलस्य ततस्तदानुमानप्रवृत्तौ अनुमानेऽनुमानप्रवृत्यर्थ शङ्कास्वरूपमपीति निमित्तसप्तम्याश्रयणेनार्थोन्नयनात, मतान्तरेण तन्मूलमित्यन्ये / व्याप्तिप्राहकतर्करूपपरः प्रकाशः विषयपरिशोधकतर्कपरञ्च मूलमित्यपरे / नन्वेवमपि विषयपरिशोधकस्य नोपयोगः, परामर्षेणैव विशेषदर्शनात्मकेन शङ्कानिवृत्तौ जिज्ञासाया अपि तन्मूलाया निवृत्तेरिति चेत, न / विशेषदर्शनेन स्वारसिकशङ्कानिवृत्तावपि विरोधिप्रमाणशङ्कानिबन्धनसाध्याभावशङ्काजिज्ञासयोरनुवृत्तेस्तन्निवृत्त्यर्थ तर्कोपयोगात, एवं च तक्र्केण विरोधिकोटावनिष्टमुपनयता विरोधिप्रमाणशङ्कापगमे तन्मूलकसाध्याभावसंशयापगमे तन्मूलकजिज्ञासोच्छेद इति तातार्यम् / केचित्तु पक्षे. धूमदर्शनमात्रस्य तदविरोधित्वेन साध्याभावशङ्कायां जिज्ञासापि भवत्येव, ततश्च साध्यतदभावान्यतरावधारणोपायानुसरणव्यग्रः प्रतिपत्ता स्मृतामपि व्याप्ति पक्षवृत्तिधूमे न परामृषति व्यग्रस्वादिति परामर्षसामग्यां प्रतिरुद्धायां तक्कणानिष्टप्रतिसन्धानात्मकेनापहृतायां जिज्ञासायामवधारणोपायानुसरणरूपविषयान्तरसञ्चाराभावे परामर्षोत्पादः / न चैत्रमस्य कथं विषयपरिशोधकत्वमिति वाच्यम् / न्यायस्य विषयो लिङ्गं तस्य शुद्धिः परामर्षप्रतिवन्धकजिज्ञासाया उक्तरूपोपायानुसरणपरतायाश्चाएगम इति तदुपपत्तेः। तदुक्तम्-प्रमेयतत्त्वावबोधे विरोधिनानाविषयस्य जिज्ञासा तदुपागनुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थी'ति / न चैवं तर्कस्य न्यायोत्तराङ्गत्वव्यु त्पादनविरोधः, मतभेदेन तदुपपत्तेः. अत एव तत्त्वबोघे तो न्यायस्य पूर्वाङ्गं न्यायविषयपरिशोधकत्वात, व्याप्तिग्राहकत्वाच्चेत्युक्तमिति वदन्ति / संशयसत्त्व इति। प्रतिवन्धकतायां ज्ञानत्वस्यैव मकरन्दः / , भावः / ननु संशयो न जिज्ञासाहेतुः, तस्या इच्छात्वेन ज्ञानेष्टसाधनताज्ञानसाध्यत्वात् / साध्यार्थिनश्च साध्याभावज्ञानं नेष्टसाधनमिति न तत्र जिज्ञासा / तथा च कथं तन्निवत्तकता तर्कस्येति चेत् न, अन्वयव्यतिरेकाभ्यां सत्प्रतिपक्षस्येव संशयस्यापि जिज्ञासाजनकत्वात् / ननु विरोधिविषयत्वाभावातर्कः कथं संशयजिज्ञासयोनिवर्त्तक इति चेत् , न, वैषयिकविरोधाभावेऽपि स्वरूपेणैव दाहादौ मण्यादिवत् फलवलेन तस्य विरोधित्वात् , इच्छायामनिष्टप्रतिसन्धानत्वेनापि विरोधित्वाच्च, मधुबिषसंपृक्तानबुभुक्षादौ तथा दर्शनात् / नन्वेवमपि यदि निर्वन्हिः स्यादिति विषयपरिशोधकस्य तर्कस्य कथमनुमितावुपयोगः, परामर्शादेव विशेषदर्शनत्वेन शङ्कानिवृत्तेरिति चेत् / विशेषदर्शने स्वरसवाहिशङ्काऽनुदयेऽपि अन्याहितशङ्कोदयेन बाधकप्रमाणावतारशङ्कानिबन्धनसाध्याभावशङ्कानिवर्तकत्वेन तदुपयोगादिति विपश्चितमनुमानप्रकाशे / केचित्त प्राथमिकलिङ्गदर्शनस्य तदविरोधित्वेन धूमवानयं वह्निमान्न वेति संशयः, ततो जिज्ञासा, ततश्च साध्याभावज्ञानोपायानुसन्धानपरस्य तामपि वहिव्याप्ति पक्षधर्मधूमे न परामशति व्यग्रत्वादिति प्रसिद्धायां परामर्शसामग्रयां तर्कावतारे तेनापहतायां जिज्ञासायां तदुपायानुसरणपरत्वरूपविषयान्तर सञ्चाराभावे परामर्शोत्सादः, अत एवायं न्यायविषयपरिशोधक इति गोयते, न्यायस्य परामर्शस्य विषयो लिङ्गं, तस्य परिशुद्धिः परामर्शप्रतिबन्धकसाध्याभावजिज्ञासातदुपायानुसरणपरत्वयोरपगमः / तदाह प्रभेयतत्त्वबोधे वर्द्धमानः-“एवञ्च विरोधिनानाविषयस्य जिज्ञासा तदुपायानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थी"-इति / न चैवं तर्कस्य न्यायोत्तराङ्गत्वप्रतिपादनविरोधः, परामर्शव्यापारस्तक इति मतेन तदुत्थानात् / तदाह तत्रैव वर्द्धमानः / "तों न्यायस्य पूर्वा न्यायविययारिशोधकत्वात् , व्याप्तिग्राहकत्वाच्च" इत्याहुः /