________________ - तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम्। 343 चेन्न / यावदाशवं तर्कप्रवृत्तः। तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते। विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्य लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्पन्तिरिति किमनुपपन्नम् // बोधनी तत्रोभयत्रापि तर्कप्रवृतेः शानिवृत्तिरिति / कथं तर्हि ततस्तन्निवृत्तिरित्यत्राह तेन हि इति / यद्यत्रोपाधिः स्यात् तदायत्तो वा हेतोळमिचारस्तत एव स्यादिति / प्रामाणिकत्यागाप्रामाणिकस्वीकारात्मकानिष्टमुपनयता तर्केण पक्ष एव जाता विपक्षजिज्ञासात्मिकेच्छा विच्छिद्यते, तद्विच्छेदे चानुमाता निरस्तान्तरायेण भूयोदर्शनेनावधारिताव्यभिचारं लिङ्गं निःशक एवानुमितिज्ञानोत्पादे विनियुके विनियुक्ताच्च कारणलिझादनुमितिक्रियानिष्पत्तिरिति न संकटं किञ्चिदिति // . प्रकाशः। सा च प्रत्यासत्तिरनुमानप्रामाण्यवादिनाऽपि स्वीकार्या / अन्यथा, यस्य व्याप्तिग्रहः स न पक्षधर्मः, तादृशश्च न व्याप्तिग्रहगोचर इत्यनुमानविलयापत्तिः। मैवम् / इदमसाधकमनुपलभ्यमानव्यभिचारशङ्काप्रस्तत्वादित्यनुमानमपि शङ्काऽऽस्कन्दतीति जात्युत्तरत्वात् / व्याप्तिग्रहाभावव्यभिचारशकयोस्त्वयापि व्याप्तिस्वीकारात् / व्यभिचारशङ्कायामव्यभिचारकोटेरावश्यकत्वाच्च / अपि चानुमानाप्रामाण्यं नानुमानगम्यम् / तदनङ्गीकारात् / नापि प्रत्यक्षगम्यम् / तथाऽनुव्यवसायाभावात् / एतेनोत्कटकोटिक संशयरूपाऽनुमितिस्तत्करणमनुमानमित्यपास्तम् / धूमादगिं निश्विनोमीत्यनुव्यवसायेन तनिश्चयत्वस्वे प्रत्यक्षत्वात् / अन्यथा, प्रत्यक्षस्यापि निश्चयत्वे कः समाश्वासः / - यापदाशङ्कमिति // तर्कसहकृतभूयोदर्शनजसंस्कारसचिवप्रमाणेन व्याप्तियत इत्यर्थः तळव्यागरमाह // तेन हीति // इच्छा विच्छिद्यते इति // संशयजनितसाध्याभाववति जिज्ञासा निवर्त्यते इत्यर्थः / तज्जनकसंशयसहितेति शेषः / अन्यथा, जिज्ञासाविच्छेदेऽपि प्रकाशिका। ननु सामान्यलक्षणा वा स्वीक्रियतामनुमान वेत्यत्र किं विनिगमकमत आह / सा चेति / ननु सम्भावनैवानुमानप्रयोजनं प्रकृतेऽपि स्यादित्यरुचेराह / व्याप्तिग्रहेति / ननु भूयःसहचारमात्रमेव तत्रापि स्वीकरणीयमत आह / व्यभिचारशङ्कायामिति / तथानुव्यवसायाभावादिति / इदमुपलक्षणम् / प्रत्यक्षस्य तत्रासामर्थ्यादित्यपि द्रष्टव्यम् / निश्चिनोमीति निश्चयत्वं जातिरिति मतेनेदम् , वस्तुतः संशयान्यत्वमपि ज्ञाननिष्ठं योग्यमेवेति भावः / तर्कसहकृतेति / तवर्कस्य च शङ्कानिवर्तनद्वारा प्रयोजकत्वमित्यवधेयम् / आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह संस्कारेति / संशयजनितेति। यद्यपि जिज्ञासा ज्ञानेच्छा सा च ज्ञानेष्टसाधनताज्ञानादिति न संशयाद्भवितुमह ति, न वातन्निवर्तनमनिष्टप्रसञ्जनरूपात् तर्कात् , “इच्छानिवर्त्तकमनिष्टसाधनताज्ञान"मित्यत्रानिष्टं दुःखरूपं प्रकृते च प्रमाणबाधितत्वरूपमनिष्ठं प्रसञ्जनीयं यतः, तथापि संशये सति संशयजन्यदुःखा भावरूपेटसाधनताज्ञानादेव ज्ञानेच्छा सत्प्रतिपक्षस्थलेऽज्ञानजन्यदुःखाभावरूपेष्टसाधनताज्ञानादिवत् तदुच्छेदोऽपि तत्प्रयोजकीभूतसंशयजनकीभूतविरोधिप्रमाणशङ्कोच्छेदद्वारैवेति मिश्राः / केचित्तु अन्वयव्यतिरेकाभ्यां संशयस्य प्रतिपक्षोपस्थितेश्च स्वातन्त्र्येणैव जनकत्वं तर्कस्य च जिज्ञासानिवर्तक मकरन्दः। ननु व्याप्तिस्वीकारेऽपि नानुमानप्रामाण्यस्वीकारस्तयोर्मेदादित्यत आह / - अपि चेति / धूमादिति / निश्चयत्वं जातिरिति मतेनेदम् / उपनीतभानाभिप्रायेण वा। अन्यथा अनुव्यवसायविषयत्वानुपपत्तेरित्याहुः / आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह / संस्कारेति। अन्यथेति / प्रतिबन्धकतावच्छेदके ज्ञानत्वस्यैव न प्रवेशो गौरवात् , कुतो निश्चयत्वस्येति