________________ 342 व्याख्यात्रयोपेतप्रकाशयोयनीयुते न्यायकुसुमाञ्जलौ [ 7 कारिकाव्याख्यायो . व्याघातावधिराशङ्का तर्कः शङ्काऽवाधर्मतः // 7 // _____ कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कयेत तदाक लनश्च नानुमानमवधीर्य कस्य वित् / मुहूर्तयामा होरात्रपक्षमासर्वयनसंवत्सराऽऽदयो हि भाविनो भवन्मूहर्ताद्यनुमेया एव / अनवगतेषु स्मरणस्यायनाशङ्कनीयत्वात् / अनाकलने वा, कमाश्रित्य व्यभिचारः शङ्कयेत / तथा च सुतरामनु मानस्वीकारः। एवञ्च देशान्तरेऽपि वक्तव्यम् // __स्वोकृतमनुमानम् / सुहृद्भावेन पृच्छामः, कथमाशङ्का निवर्तनीया ? इति बोधनी। ततः शङ्काभावादेव सुतरामनुमाऽस्त्येव शङ्कानिरासप्रयासस्याप्यभावः / स्वीकृत्यैवानुमानं कथमियं व्यभिचारशङ्का निवर्तनीयेति तत्त्वबुभुत्सया पृच्छत उत्तरम्-अर्थक्रमानुरोधेन पाठक्रममनादृत्य तर्कः शङ्कावधिर्मत इति / तावदेवावकाशः शङ्कापिशाच्या यावत्तकेंण नागतं, समागतस्तु तर्कः शशाया. अवधिरन्तो मतो न्यायविदाम् / ननु तर्कोऽप्यविनाभावमूल एव प्रवर्तमानोऽन्यथासिद्धिशङ्कया तर्कान्तरमपेक्षत इति अनवस्थादौस्थ्यात् पुनरप्यनुमानं दत्तजलाञ्च लि स्यादित्यत उक्तं व्याघाताचधिराशङ्का-इति / अयमाशयः-किमियमाशङ्काऽर्थक्रियार्थिनो लौकिकस्य, हेतुफलभावं जिघांसतः परीक्षकस्य वा ? प्रथमे क्रियाव्याघातावधिराशङ्का लोकस्य न तु यथा क्रियाव्याघातादयोऽवतरन्ति तथा भवतीत्यर्थः / तथा च द्वित्रस्थानपर्यवसानान्नानुमानप्रामाण्यविघातः। द्वितीये तु शकैच न स्यात् तस्या अपि कस्यचित् फलत्वातया हेतुफलभावप्रत्यक्षे प्रामाग्यनिश्चयोऽपि न स्यात् तस्या अपि तथाभावात् , सोऽयं व्याघात इति / / ___ व्याचष्टे कालान्तरे इति। भवन्मुहूर्ता अनुमेया-इति / वर्तमानमुहूर्तादयो भविमुहूर्तादिव न्तः मुहूर्त्तत्वादतीतमुहूर्त्तवदिति / मा भूदनुमान स्मरणं तु भविष्यति कालान्तर इत्यात्राह अनवगतइति / भाविनः कालस्य प्रत्यक्षासंभवादिति सर्वथां चानाकलने निर्विषया शङ्कव न स्यादित्याह अनाकलने-इति / तर्हि ननु माभूद् व्यभिचाराशङ्कत्यत्राह तथा च-इति / तुरीयं पादं व्याचिख्यासुः शकते स्वोकृतम्-इति / सुहृद्भावेनैवोत्तरमाह न-इति / द्वयी हि शक्षा किमस्य हेतोरनेन साध्येन संवन्ध उपाधिरस्ति वा न वेत्येका, अन्या तूपाधिशक्षानिमिता हेतोः साध्यव्यभिचारशङ्का, प्रकाशः। णादित्यर्थः / वादकथामाश्रित्य शङ्कानिवत्तकमाह // व्याघातेति // शङ्काया अवधिस्तर्कः, तन्निवर्तकत्वात् / ननु तर्केऽपि व्याप्तिमूलकतया तर्कान्तरापेक्षायामनवस्थेत्यत आह // व्याघातावधिरिति // तर्कमूलव्याप्तौ स्वक्रिया याघातेन व्यभिचारशङ्खच नोदेतीति न तत्र तर्कापेक्षेत्यर्थः // पूर्वाद्धं व्याचष्टे / कालान्तरेत्यादि, तथाचेत्यन्तेन / ननु साध्याऽत्यन्ताभावसामानाधिकरण्यं साधने वर्तते न वेति शङ्का, देशकालावनन्तर्भाव्यवेति नानुमानावश्यकत्वम् / मैवम् / साध्यात्यन्ताभावसामानाधिकरण्यं तदनधिकरणाधिकरणत्वम् / तत्र प्रसिद्धधूमाधिकरणे. वह्निनिश्चयादेव न शङ्का / तदन्यच्चानुमानगम्यमेव // तथापि सामान्यलक्षणया प्रत्यासत्या प्रत्यक्षेणापि कालादेरुपस्थितेर्नानुमानादेव तदुपस्थितिः / प्रकाशिका। व्यभिचार इति भावः / वादकथामिति / तथा च कथं शवानिवृत्तिरिति जिज्ञासुं प्रत्युत्तरमेतदित्ययः। श्रार्थक्रमानुरोधेन शाब्दक्रमव्युत्क्रमेण व्यावष्टे शङ्काया अवधिरिति / ननु तऽपीति / बाधकाभावेन शङ्काया अवश्यम्भावो एतन्निवर्तनाय तर्कान्तरविक्षायामनवस्थितेरिति भावः / क्रियेति / वस्तुतः कोटिस्मरणादिविरहेणैव शङ्काविच्छेदे न तन्निवर्तकतर्कापेक्षेति न अनुवस्था इति परिभावनीयम् / सामान्यलक्षणयेति / धूमाधिकरणत्वेन सामान्यलक्षणया कालदेशयोरुपस्थितेरित्यर्थः /