________________ तृतीयस्तरके ] अनुमानप्रामाण्योपपादनम् / तत्र तादात्म्यं विपक्षे वाधकाद्भवति। तदुत्पत्तिश्च पौर्षापर्येण प्रत्यक्षानुपलम्माभ्याम् / न होवं सति शङ्कापिशाच्यबकाशमासादयति, प्राशयमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति / न। एवमष्युभयगामिनोऽव्यभिचारनिवन्धनस्यैकस्याऽविवेचनात् , प्रत्येकं चाव्यापकत्वात् / कुतश्च कार्यात्मानौ कारणमात्मानश्च न व्यभिचरत इति // अत्रोच्यतेशङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् // बोधनी। तादात्म्यतदुत्पत्योरेव निश्चयः कुतस्त्य इत्यत्राह तत्र-इति / अवृक्षे शिलादौ शिशपात्वस्यानुपलब्धिबाधितत्वाद् वृक्षः शिंशात्मेति निश्चीयते / तदुत्पत्तिस्तु पूर्वापरभावेन प्रत्यक्षानुपलम्भाभ्यां सिध्यति / "प्रत्यक्षानुपलम्भपञ्चकेन तदुत्सत्तिनिश्चयः” इति हि बौद्धाः / तत्र पौर्वापर्येण वह्निधूमयोरुपलम्भौ प्रत्यक्षद्वयं वह्नयनुपलम्भे धूमानुपलम्भः अन्यस्मिन्पूर्वभावेनोपलब्धेऽपि धूमस्या नुपलम्भ इत्यनुपलम्भत्रयमिति प्रत्यक्षानुपलम्भपञ्चकम् / अन्येषां तु वढेधूमस्य पौर्वापर्यस्य च त्रीणि प्रत्यक्षाणि वढेधूमस्य च द्वावनुपलम्भाविति / नन्वेवमप्यदृश्यभावः पिशाचादिर्धमस्य कारणं, वह्निस्तु नान्तरीयकसंनिधिर्न वेति शङ्कायां न तदुसत्तिसिद्धिरित्यत्राह न ह्येवम्-इति / पिशाचादेस्तु पौपियेंण प्रत्यक्षानुपलम्भगोचरत्वरूपस्य कारणलक्षणस्य विरोधारावेन तत्त्वस्य कारणत्वस्य निर्वाहान शङ्कावकाश इति नानेनापि प्रकारेणाविनाभावनिश्चय इत्याह नैवम्-इति / कुत इत्यत आह उभय-इति / किमत्र क्वचित्तादात्म्यमव्यभिचारनिबन्धनमन्यत्र तदुत्पत्तिरिति विषयव्यवस्थयोच्यते किं वा स्वतन्त्रमुभयं तादात्म्यं तदुत्पत्तिर्वेति / नायः, अनुवृत्तस्याव्यभिचारनिबन्धनस्यावचनात् , तदवचने च तस्यात्नक्षितत्वात् / नाप्युत्तरः, तादात्म्यस्य तदुत्पत्तावभावात् तस्याश्वेतरत्राभावादव्यापकत्वादत एव नापि संभूयेति भावः / कि च आधिविधूननापेक्ष एव ताभ्यामप्यविनाभावनिश्चय इत्याह कुतश्च इति / तदेवमनुमानस्यायभिचारनिश्चयापेक्षत्वात्तस्य चोपाधिनिषेधायत्तत्वातन्निषेधे योग्यान पलम्भाभावादनुपलम्नमात्रस्य च निषेधकत्वानङ्गीकारादनुमानेन च तन्निषेधेऽनवस्थाप्रसङ्गात् / बौद्धानामपि निषेधाच्चानुमानादिविलोपप्रसङ्ग इति / * चार्वाके प्रत्यवस्थिते परमसिद्धान्तीत्याह अत्रोच्यते-इति / उपाधिविरहस्य दुरवधारणत्बेनानुमानकुलोत्सादशास्ति चेत् तत एवानुमाऽस्त्येव तत्कालतद्देशयोः सहदृष्टस्य किं कालान्तरे देशान्तरे वाऽविनाभावो भविष्यति न वेत्येवं व्यभिचारस्य शङ्कनीयत्वात् कालान्तरभवनमसंनिहितं च देशमनाकलय्य शङ्कानुपपत्तेः तदाकलनस्य चानुमानमवधीर्याशक्यत्वादिति हृदयम् / तदनाकलने तु शङ्कव न स्यान्निराश्रयत्वादित्यभिसंधायोक्तं न चेच्छङ्का ततस्तराम्-इति / न चेच्छया, प्रकाशः। श्राशङ्कयमानेति // अग्नि विना पिशाचादेव धूमः स्यादिति पिशाचस्य कारणत्वशङ्काऽन्वयव्यतिरेकावादाय वाच्या तौ चाग्नेः प्रत्यक्षसिद्धस्येति नान्यकारणशङ्केत्यर्थः। दूषयति // नैवमपीति // तयोर्न मिलितयोर्व्याप्तिग्राहकत्वमसिद्धेरिति प्रत्येकं तत्वे व्याप्तिग्राहकतावच्छेदकानुगतरूपाभाव इत्यर्थः। ननु ज्ञापकस्याननुगमो न दोषः, एकस्याप्यनेकज्ञाप्यत्वादित्यत आह / कुतश्चेति // विपक्षबाधकतर्कस्यापि व्याप्त्यपेक्षया तत्रापि तान्तरानुसरणेऽनवस्था तर्क विनाऽपि व्याप्तिप्रहे व्यभिचारात् तोऽपि न तद्धेतुः स्यादित्यर्थः // शङ्का चेदिति // कालान्तरदेशान्तरयोर्व्यभिचारोपाध्यन्यतराशङ्का यदि, तदाऽनुमानमस्त्येव / तां विना तयोरप्रतीतेः। यदि च तयोरप्रतीतौ न शङ्का, सुतरामनुमानम्। शङ्कानिरासकस्याप्यनपेक्ष प्रकाशिका। नादिनियतस्येत्यर्थः / अनेकज्ञाप्यत्वादिति / कार्ये च ज्ञानरूपे विषय एव विशेष इति न परस्पर