________________ "340 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलो [ 7 कारिकावतरणिकायां ननु यः सर्वैः प्रमाणैः सर्वदाऽस्मदादिभिर्यद्वक्त या नोपलभ्यते नासौ तद्वान् / 'यथा बकः श्यामिकया, नोपलभ्यते च वह्नौ धूम उपाधिमत्तयेति शक्यमिति चेन्न / अस्याप्यनुमानतया तदपेक्षायामनवस्थानात् / "सर्वाहऐश्च सन्देहात् स्वादृष्टेद्यभिचारतः” सर्वदेत्यसिद्धः।। तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये / बोधनी। तीनुमानानिषेत्स्यत इत्याह-ननु इति / वह्नौ वह्निसंवन्ध इति / न इति / अस्याप्यनुमानस्योपाध्यभावनिश्चयायानुमानान्तरापेक्षायां तस्य तस्यापीत्यनवस्थेति / किं च, सर्वैः सर्वदोपाधिमत्तया धूमस्यानुपनम्भो नासर्वज्ञेन निश्चेतुं शक्यत इति संदिग्धासिद्धो हेतुरित्याह—सादृष्टेश्व इति / अस्तु तर्हि स्वेनैकेनानुपलम्भो हेतुस्तत्राह–स्वादृष्टेः इति / न ह्यकेन तद्वत्तानुपतम्भस्तदभावव्याप्त इति सबदा स्वाहाष्टरप्यसिद्धत्याह-सदा इति / आसद्धः इति / कदाचिदाप न द्रक्ष्यत इति निश्चयासंभवादिति / तदेवमेकदेशिनं निराकृत्य बौद्वमतं दूषयितुमुपन्यस्यतितादात्म्य इति / यस्य य आत्मा चा यत्कार्यं तयोस्तेनात्मना कारणेनाविनाभावः, अन्यथा तदात्मकत्वव्याघातात् कार्यकारणभावभङ्गप्रसाच्च, ततोऽविनाभागनिश्चवार्थमुसाधिविधूंननापेक्षेति / यथाहकार्यकारणभावाद्वा स्वभावाद्वा नियामकात् / अविनाभावनियमो दर्शनान्न न दर्शनात् / इति / प्रकाशः। ननु सहचारदर्शनव्यभिचारादर्शने एव व्याप्तिग्राहके। न च तयोरव्याप्तसाधारण्यम् / उपाध्यभावज्ञानस्याप्यव्याप्यसाधारणत्वात् / न च स्वरूपसन्नेव स तद्ग्राहकः व्याप्तिभ्रमानुपपत्तेः / नाीि वस्तुगत्या यत्रोपाध्यभावस्तत्र तज्ज्ञानाद्वयाप्तिप्रमाऽन्यत्र तु तद्ब्रम इति वाच्यम् / यत्र वस्तुसती व्याप्तिस्तत्र सहचारदर्शनादेरपि तत्त्वायत्तेः / अत्राहुः। व्यभिचारादर्शनस्य व्याप्तिनिश्वायकत्वे तस्मिन् सति ब्याप्तिसन्देहानुपपत्तिः / अनौपाधिकत्वनिश्चये तु न सन्देह इति तदेव व्याप्तिग्राहकम् / किञ्च, यथा व्यभिचारादर्शनाद व्यभिचारनिश्चयः। एवमयभिचारादर्शनाद् व्यभिचारनिश्चयोऽपि स्यादविशेषात् / न च भावानुपलब्धिरभावनिश्वायिका, न त्वभावानुपलब्धिर्भावनिश्वायिकेति वाच्यम् / अव्यभिचारस्यापि भावत्वात् / साधनसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यरूपत्वात् / क्षित्यादि द्विकर्तृकं कायेत्वात् पटवदित्यादैरपि गमकत्वापाताद्वा / तदपेक्षायामिति / आध्यभावापेक्षायामित्यर्थः / असिद्धेरिति / सर्वदा उपाधिमत्तयाऽनुपलम्भस्येत्यर्थः। बौद्धोक्तं तद्नाहकमाह / तादात्म्येति / विपक्षबाधकञ्च क्षणभङ्गप्रस्तावे व्याख्यातम् / प्रत्यक्षाऽनुपलम्भावन्वयव्यतिरेको / अपि चाग्नीन्धनादिसमवधानेऽप्यन्यस्य पिशाचादेः सन्निधिराशयमानो नाग्नीन्धनादिव्यभिचारिणोऽन्यत्र धूमस्यादर्शनादिति नियतस्य तस्य वाच्यः / स च नेत्याह / प्रकाशिका। तथा च शक्तिव्यभिचार एवाप्रयोजक इति भावः / स्वरूपसन्नेव स इति / उपाध्यभाव इत्यर्थः / सन्दे हानुपपत्तिरिति / भवति च सत्यपि तस्मिन् कदाचित् सन्देह इति भावः / ननु अनौपाधिकत्वस्यापि व्याप्तिव्याप्यत्वेनाऽनिश्चये सन्देहो भवत्येव / न चानौपाधिकत्वव्याप्तिपक्ष इदं, तस्य व्याप्ति प्राहकत्वेनाभिधानादित्यरुचेराह किञ्चेति / अव्यभिचारेति / व्याप्तिनिश्चयवदित्यर्थः / अत एवाग्रे तथैव वक्ष्यति साधनेत्यादि / उपाध्यभावेति उपाध्यभावज्ञानेत्यर्थः / नियतस्येति / अग्नीन्ध मकरन्दः। पाधिकत्वं व्याप्तिव्याप्यमिति व्याप्यत्वेन तदनिश्चयदशायां तत्सन्देहः स्यादेव, न चानौपाधिकत्वव्याप्तिमतेनेदं, तस्य व्याप्तिग्राहकत्वेनाभ्युपगमादित्यरुचेराह किञ्चेति / अव्यभिचारेति / व्याप्तिनिश्चय इत्यर्थः। अत एवाने तथैव वक्ष्यति / उपाध्यभावेति। उपाध्यभावनिश्चयापेक्षायामित्यर्थः / नियतस्य-अग्नीन्धनादिनियतस्य / तस्य तादात्म्यादेरित्यर्थः /