________________ तृतीयस्तवके ] . अनुमानाप्रामाण्याशङ्कोपपादनम् / तदेतदपेशलम् / कथं हि विशेषाभावात् कश्चिद्यभिचरति, कश्चिञ्च नेति शक्यमवगन्तुम् / अतो निर्णायकाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति - क्वासो निर्बीजा / एवं सत्यतिप्रसक्तिरपि चार्वाकनन्दिनी नोपालम्भाय / स्व. भावादेव कश्चित् किश्चिद्यभिचरति, कश्चिच्च नेति स्वभाव एव विशेष इति चेत् केन चिड्रेन पुनरसौ निर्णेय इति निपुणेन भावनीयम् / भूयोदर्शनस्य शतशः प्रवृत्तस्थापि भङ्गदर्शनात् / यत्र भङ्गो न दृश्यते तत्र तत् तथेति चेत् / आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न द्रक्ष्यते इति को नियन्तेति / तस्मादुपाधितद्विरहावेव व्यभिचाराव्यभिचारनिबन्धनं, तवधारणञ्चाशक्यमिति // बाधना। ___ अत्र सामर्थ्य व्याप्तिस्तस्या अनुभितिज्ञानोत्पांदने लिङ्गसहकारित्गदिति तदेकदेशिमतं पूर्वपक्षी दूषयति-तदेतत् इति / किमुपाधिविधूतने न भूयःसाहचर्यदर्शने सति कोऽयमप्रयोजको नामेत्येत दशोभनं शकितव्यभिचारस्याप्रयोजकत्वादुपाविविधूजनायत्तत्वाच्च शङ्कानिरासस्येति भावः / तदेवोपपादयति-कथं हि इति / निश्चिताव्यभिवारो हि हेतुर्गमकः, अन्यथातिप्रसङ्गात् / तनिश्चयश्च न साहचर्यमात्रासिध्यति भूयःसहचरिताजामपि क्वचिद् व्यभिचारदर्शनात् , तस्माद् व्यभिचार्यव्यभिचारिणोः साहचर्ये विशेषाभावात्तन्मात्रेगाव्यभि वारनिश्चयानुपपत्तेर्व्यभिचारशङ्कानिरसनहेतुः कश्चिदन्वेष्टव्यः स चोपाविविधूननमेवेति भावः / तत्र यदुक्तं निर्बीजशङ्का न युक्तेति तदप्यत एव निरस्तमित्याह-अत इति / निर्णायकविशेषादर्शने सति साहचर्यमेव व्यभिचार्यव्यभिचारिणोः साधारणधर्मत्वात्संशयहेतुर्भवतीति / एवं च यदि भूयोदर्शने सत्यपि शङ्का स्यात् सर्वत्रापि सा स्यादित्येकदेशिना चार्वाकं प्रत्यापादिताऽतिप्रसक्तिरनुमानप्रामाण्यमनिच्छतस्तस्य वोपालम्भाय भवति प्रत्युत नन्दनायेत्याह-एवं सति इति। यद्वा, अनुमानमिच्छतः सिद्धान्तिलो लोपालम्भाय तस्योपाधिविधूननेन शङ्कानिवारणाभ्युपगमादिति / एकदेश्याह-स्वभावादेव इति। तेनाव्यभिचारः स्वभावमात्राधीनः न तु तदर्थमन्योऽन्वेष्टव्य इति / इतर आह–केन इति / सत्यमेवं, स तु स्वभावो निर्णीत एव व्यभिचारशङ्की निवर्तयतीति तन्निगेयाथेमन्योऽन्वेष्टव्य इति / तहिं भूयोदर्शनमेवास्तु निर्णायक मित्यत्राह-भूयोदर्शनस्य इति / शङ्काया एव बीजमेतदित्युक्तमिति भावः। यत्र इति / तद् = अदृष्टभङ्गम् / तथा अव्यभिचारस्वभावम्-इति / आपाततः इति / सर्वत्र सर्वदा व्यभिचारो न भूयोदर्शनमात्रात्सिध्यतीति तत एवं वक्तव्यमित्याह-तस्मात् इति / तर्खनुपलम्भे नोपाधिविरहोऽवधार्यत इत्यत्राह-तदवधारणम् इति / अनुपलम्भमात्रस्य निषेधकत्वाभ्युपगमादिति / - प्रकाशः। कथं हीति / सहचारदर्शनस्य व्यभिचार्य्यव्यभिचारिसाधारणत्वात्तदेव विशेषादर्शनसहकृतं व्यभिचारशहाबीजमित्यर्थः / एवं सतीति / "अवश्यं शक्या भाव्यं नियामकमपश्यताम"* इति चार्वाकोक्तातिप्रसक्ति!पालम्भाय, शङ्काबीजस्य सहचारदर्शनस्य सत्वादित्यर्थः / यथा किश्चित् कस्यचित् कार्य कारणं चेत्यत्र स्वभाव एव नियामकः, तथा किञ्चित् कस्यचिद्याप्यं व्यापकं चेत्यपीत्याह / स्वभावादेवेति / स स्वभावविशेष एव कुतोऽवधार्य इत्याह / केनेति / भूयोदर्शनस्येति / पार्थिवत्वलोहलेख्यत्वयोरपि व्यभिचारदर्शनादित्यर्थः / अनन्यगतिकतयोपा धिविरह एव तदुपायः / स च दुरवधारण इत्याह / तस्मादिति / प्रकाशिका / मानाभावः, तथापि गुणादिसाधारण्यार्थमवश्यकहानीयमेवात्र क्लृप्तत्वम् / सहचारदर्शनेति / मकरन्दः / सहवारदर्शनस्येति / शङ्कितव्यभिचार एवाप्रयोजक इति भावः / स उपाध्यभाव।। नन्वनौ.