________________ 33 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाललौ [7 कारिकावतरणिकायां निर्बीजशङ्कायाः सर्वत्र सुलभत्वात् / नापि व्याप्यान्तरसहवृत्तिः। एकत्रापि साध्येऽनेकसावनोपगमात् / नाप्यल्पविषयः, धूमादेस्तथाभावेऽपि हेतुत्वात्। ननु धूमो वह्निमात्रे अप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तः। श्रार्दैन्धनवन्तं वह्निविशेष प्रति तु प्रयोजकः, तनिवृत्तौ तस्यैव निवृत्तरित्येतदप्ययुक्तम् / सामान्याप्रयोजक तायां विशेषसाधकत्वायोगात्तदसिद्धौ तस्यासिद्धिनियमात् / सिद्धौ वा सामान्यविशेषभावानुपपत्तेः / नापि क्लप्तसामर्थ्येऽन्यस्मिन् कल्पनीयसामोऽप्रयोजकः, नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति // बोधनी। इति / तथा च सर्वोऽपि हेतुरप्रयोजकः स्यादिति / नापि व्याप्यान्तर-इति / स्पष्टम् / नायल्पविषय-इति / न हि धूमादिः सपक्षव्यापक इति / स एव तत्र किञ्चिदाशक्य निराकरोति ननु-इति / न हि धूमः स्वनिवृत्तावप्यनिवर्तमाने वह्नौ प्रयोजको नामेति / कुत्र तर्हि प्रयोजक इत्यत्राह आन्धनवन्तम् इति / तस्यैव वह्निविशेषस्यैवेति / कुतो युक्तमित्यत्राह सामान्यइति / न हि संभवति वह्निविशेष साधयति न तु सामान्यमिति सामान्यासिद्धौ विशेषस्यासिद्धेर्नियतस्वात् / यदि वा तदापि विशेषः सिध्येन्न तर्हि सामान्यविशेषभावः स्यात् , न हि तस्मिन्नसिद्धेऽपि सिध्यतस्तद्विशेषकत्वमिति / सकलसपक्षवर्तिनि हेत्वन्तरे सत्येकदेशवृत्तिरप्रयोजको यथा निषिद्धत्वे सति हिंसात्वम् / निषिद्धत्वं हि सकलजभक्षणादेरप्यधर्मत्वसिद्धयर्थ वलृप्तसाममिति / तदेव सर्वत्राधर्मत्वे प्रयोजक हिंसात्वं च नैवंविधमप्रयोजकमित्याशङ्कयाह नापि क्लुप्त-इति / प्रकाशः। कारणकदेशस्यापि तदितराशेषकारणव्याप्यस्यान्त्यतन्तुसंयोगादेः पटादौ लिङ्गत्वाङ्गीकारादित्यर्थः / निर्बोजेति / साध्याभावसहचारदर्शनस्य शङ्काबीजस्याभावात् , भावे वा व्यभिचार एव स्फुटो दोष इत्युक्तमित्यर्थः / अल्पविषय इति / व्यापकंवन्निष्टात्यन्ताभावप्रतियोगीत्यर्थः। तन्निवृत्ता. विति / धूमनिवृत्तावपि वह्नयनिवृत्तरित्यर्थः। तस्यैवेति / आईन्धनप्रभववढेरित्यर्थः / सामान्येति / वह्निसामान्याव्याप्यत्वे तद्विशेषव्याप्यतैव न स्यात् , सामान्यस्य विशेषव्यापकत्वादित्यर्थः / तथा च, विशेषव्याप्यत्वे सामान्यत्र्या'यत्वं ध्रुवमिति भावः / नाश इति / गुणादिनाशे भावकार्यत्वस्य प्रयोजकत्वे क्लृप्तेऽपि द्रव्यनाशे तयाप्यसावयवत्वस्यापि तत्वाङ्गीकारादित्यर्थः / प्रकाशिका। ननु कारणं व्यापकं तत्कथं व्याप्' लिङ्गमत आह / कारणैकदेशस्यापीति। साध्याभावसहचारदर्शनस्येति / यद्यपि साव्याभावसहचारो व्यभिचार एवेति तद्दर्शनं न तत्तच्छक्काबीजम् / तथाप्युपाधिशङ्काबीजं तत् , उपाधेाप्त्यभावात्मकत्वादिति मन्तव्यम् / ध्वंसेऽतिप्रसक्तंकार्यत्वमिति भावपदेन पूरयित्वा व्याचष्टे / भावकार्यत्वस्येति / यद्यपि कल्पनायां पौर्वापर्यनियमे मकरन्दः। ध्वंसे व्यभिचारेण भावपदमन्तर्भावयति / भावकार्यत्वस्येति / यद्यप्यत्र पौर्वापर्य्यनियमे मानाभावः, तथापि सामान्यविशेषयोः प्रथममुत्सर्गतः सामान्यस्योपस्थितिरित्याशयेन तथोक्तम् / टिप्पणी। साध्याभावसहचारदर्शनस्थ शङ्काबीजस्येति।हेतुतावच्छेदकाश्रये यत्किञ्चिद्धम्मिणि साध्याभावसहचारप्रहस्य व्यभिचारशङ्काप्रयोजककोटिद्वयसहचरितहेतुतावच्छेदकरूपसाधारणधर्मदर्शनसम्पादकतया पक्षदृष्टहेतौ व्यभिचारशाप्रयोजकत्वमिति भावः॥भावेवाव्यभिचार पवेति। पक्षधमेंहेत्वसाधारणधर्मेण हेतुत्वस्य सहचारप्रहाभावेनासम्भवात् सामान्यधर्मेणैव हेतुत्वमभ्युपेयं तत्र व्यभि गाशकाा