________________ तृतीयस्तवके ] .. अनुमानाप्रामाण्याशङ्कोपपादनम्। 337 नेष्टव्यः / तथा च कथं तथाभूतार्थसिद्धिरपि अनुमानबीजप्रतिबन्धासिद्धः। तद-. भावे शब्दादेरष्यभावः / प्रामाण्यासिद्धः। सेयमुभयतःपाशा रज्जुः॥ . अत्र कश्चिदाह / मा भूदुपाधिविधूननं, चतुःपञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्धनिर्वाहात्। तस्याश्च सपक्षासपनदर्शनादर्शनमात्रप्रमाणकत्वात् / यत्र तु तद्भङ्गः,तत्र प्रमाणभङ्गोऽध्यावश्यकः। न ह्यस्ति सम्भवो दर्शनादर्शनयोरविप्लवे हेतुरुपप्लवत इति / अप्रयोजकोऽपि तहि हेतुः स्यादिति चेत् , भूयोदर्शनाविष्लवे कोऽयमप्रयोजको नाम ? / न तावत् साध्यं प्रत्यकार्यमकारणं वा। सामान्यतो दृष्टानुमानस्वीकारात् / नापि सामग्यां कारणैकदेशः / पूर्ववदभ्युपगमात् / नापि व्यभिचारी। तदनुपलम्भात् / व्यभिचारोपलम्मे वा स एव दोषः। न च शङ्कितव्यभिचारः। बोधनी। किमित्यत्राह तथा च-इति / तथाभूतस्य = यथाज्ञानमवस्थितस्य / यद्वा, अनुमित्सितस्य / यद्वा अनुमित्सितस्य जगत्कर्तुरिति / कथमसिद्धिरित्यत्राह अनुमान-इति। निरुपाधिको हि संबन्धः प्रतिवन्ध इति / अनुमानाभावे शब्दादेरपि प्रमाणस्याभाव इत्याह तदभावे-इति / प्रामाण्यप्राहिणस्तज्जातीयत्वानुमानादेरपि प्रामाण्याभावापराधेन शब्दादिप्रामाण्यासिद्धेरिति / एवं चानुपलम्भमात्रस्यानिषेधकत्वेऽनुमानायुच्छेदादीश्वरो न सिध्येत् , निषेधकत्वे तु तत एव निषिध्येतेति / सेयं शिरोद्वयेऽपि पाशवती र रित्याह सेयम्-इति / - अत्रकदेशिनः परिहारं दूषयितुमुपन्यस्यति अत्र कश्चित्-इति / किमनेनोपाधिविधूननव्यसनेन केवलान्वयिकेवलव्यतिरेकिणोश्च रूपसंपत्तिमात्रेण प्रतिबन्धसिद्धेन हि तयोविपक्षसपक्षाभावेन तव्यावृत्त्यनुवृत्ती संभवतः / अन्वयव्यतिरेकिणस्तु पञ्चरूपसंपत्तिमात्रेण तस्य सपक्षविपक्षयोर्भावेन तदनुवृत्तिव्यावृत्योः संभवादिति / न च रूपसंपत्त्यवधारणेऽप्युपाधिविधूननमुपयुज्यत इत्याह तस्याश्व-इति / कथं तत्प्रमाणकत्वं तस्या इत्यत्राह यत्र तु-इति / तयोभङ्गे प्रमाणभङ्गस्यावश्यकत्वादिति / कस्मादेवमित्यत्राह न हि-इति / हेतोश्चतुःपश्चानां रूपाणां विप्लवो हेतुचिप्लवः। प्रमाणविप्लवाविप्लवयोहिं प्रमेयविप्लवाविप्लवौ भवत इति भावः। यदि दर्शनादर्शनाभ्यामेव प्रतिवन्धसिद्धिस्तर्हि मैत्रीतनयत्वादिरपि हेतुः स्यादित्याह अप्रयोजक:-इति / तयोरविप्लवे तु नाप्रयोजको नाम कश्चिदस्तीत्याह भूयोदर्शन-इति / स एवाप्रयोजकत्वेन संभावितानाशयय निराकरोति न तावत्-इति / अनुमानसूत्रे पूर्ववच्छेषवदिति कार्थकारणानुमाने परिगृह्य सामान्यतो दृष्टमित्यकार्याकारणभूतस्य सलिलादिविषयवलाहकाद्यनुमानस्यापि स्वीकारादिति / नापि-इति / सामग्री कार्यलिङ्गं तदेकदेशोऽप्रयोजकः स्यादित्यपि न युक्तम् / पूर्व = कारणं यस्यास्ति लिङ्गत्वेन तत्पूर्ववदिति / पूर्ववतोऽपि तत्र सूत्रेऽनुमानत्वेन स्वीकारादिति / नापि व्यभिचारी-इति / न हि मैत्रीतनयत्वादेयंमिचार उपलभ्यते तदुपलम्भे वा व्यभिचार एव दोषः स्यान्नाप्रयोजकत्वमिति / न च प्रकाशः। तदभाव इति / चतुःपञ्चेति। पक्षसत्त्वसपक्षसत्त्वाबाधितत्वासत्प्रतिपक्षितत्वानि चत्वारि रूपाणि केवलान्वयिनि, सपक्षसत्त्वाभावे विपक्षासत्त्वं केवलव्यतिरेकिणि, उभयन्तु रूपमन्वयव्यतिरेकिणीति तत्र पञ्चरूपाणि / तद्भङ्ग इति / यत्र उक्तरूपसम्पत्तिभङ्गस्तत्र दर्शनादर्शना मकप्रमाणभङ्गोऽप्यावश्यकः, अन्यथा तयोनिविषयतापात इत्यर्थः / सामान्यत इति / रूपरसयोरकार्यकारणभूतयोरपि व्याप्त्यभ्युपगमादित्यर्थः / पूर्वधदिति / पूर्व कारणं तयस्यास्ति विपयतया लिङ्गज्ञानस्य, तत्तथा / 43 न्या० कु०