________________ 336 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 6 कारिकाव्याख्यायां गोलकादय इति चेन्न। तदुपलब्धः पूर्व तेषामनुपलम्भात् / न च योगपद्यनियमः। कार्यकारणभावादिति॥ एतेन, न परमाणवः सन्ति अनुपलब्धेः / न ते नित्या निरवयघा वा पार्थिवत्वात् घटादिवत् / न पाथसीयपरमाणुरूपादयो नित्याः, रूंपादित्वात् , दृश्यमानरूपादिवत् / न रूपत्वपार्थिवत्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् शृङ्गत्ववत् / नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः / अयोग्यानि च शशङ्गप्रतिबन्धिनिरसनीयानीत्येवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निरसनीयम्। मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति // 6 // यद्येवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधोऽपि तर्हि बोधनी। वाह न-इति / गोलकादयः स्वोपलब्धेः पूर्वमनुपलम्भेनासन्तः कथं स्वस्वविषयमुपलम्भमुत्पादयेयुरिति / तर्हि स्वोपलम्भकाल एव सन्तः स्वविषयमुपलम्भान्तरमारमेरन्नित्यत्राहे न च-इति / न हि चक्षुरादीनां स्वविषयोपलम्भस्य च कार्यकारणभावाद्योगपर्व भवतीति / एवं तावदनुपलम्भमात्रेण ईश्वरनिषेघोऽशक्य इत्युक्तम् , इदानीमनेनैव मार्गेण तेषां परमानादिनियमोऽपि न सिध्यतीत्याह एतेन-इति / एतेन निरसनीयमिति संबन्धः। तत्र परमाणनां परमेश्वरम्येव योग्यामुपलम्भाभावेन प्रत्यक्षेण बाधः, तत्सर्वज्ञत्वसर्वकर्तृत्वयोरिव तेषां नित्यत्वनिरवयवत्वयोनिषेधे धर्मिग्राहकप्रमाणबाधः / तज्ज्ञानं पक्षीकृत्य सर्वविषयत्वनिषेधवत् पाथःपरमाणुगतरूपादिविशेषगुणानां नित्यत्वनिषेधे चाश्रयासिद्धिः, आत्मत्वं पक्षयित्वा तस्य सर्वज्ञसर्वकर्तृव्यक्तिसमवायनिषेधवद्रूपत्वादेरतीन्द्रियाश्रयत्वनिषेधे चाप्रसिद्धविशेषणः पक्षः, इन्द्रियासत्त्वहेतोर्योग्यानुपलम्भस्य विशेषणासिद्धिः / यद्ययोग्यानीन्द्रियाणि सन्ति तर्हि शशशृङ्गमप्ययोग्यमस्ति चेति प्रतिवन्दिग्रहणेने मानि निरसनीयानि इत्येतदपि परमात्मयोग्यत्वप्रतिपादनेन निरसनीयम् / तथा स्वर्गादिनिराकरणमपि निरसनीयम् / स्वर्गादिनिराकरणप्रदर्शनेन मीमांसको भोषयितव्यः, तनिषेधं दर्शयित्वा च परितोषयितव्यः / यद्वा, ईश्वरनिराकरणनिषेधेन तस्य भीषगमितरनिराकरणनिषेधेन तोषणमिति // 6 // चार्वाकः सिद्धान्तिनं प्रत्याह यद्येवम्-इति / मा भूत्प्रत्यक्षानुपलभ्यपिशाचायुगधिनिषेधः, ततः प्रकाशः। मन्यदा त्वसत्त्वमिष्यत एवेत्यत आह / न चेति / उलम्भेन्द्रिययोयुगपदुत्पन्नयोः पौर्वापर्याभावादित्यर्थः / एतेनेति // अनुपलम्भमात्रस्याऽसाधकत्वेन हेत्वन्तरस्य चाश्रयासिद्धयादिनेत्यर्थः॥ मीमांसकश्चेति / अनुपलम्भमात्रस्याभावासाधकत्वादपूर्वादिसिद्धया तोषगम् / योग्यानुपलम्भस्य बाधकत्वेनाऽयोग्यपरमात्माऽबाध इति भीषणम् // 6 // ययनुपलम्भमात्रानाभावनिधयः, तदाऽतीन्द्रियोपाधिशड्या व्याप्त्यनिधयान्नानुमानमिति न तत ईश्वरपिद्धिरित्याहयद्येवमिति / अनुमालाभावे तद्ग्राह्यप्रामाण्य शब्दायपि न तत्र मानमित्याह / प्रकाशिका। शेषः / मम तु चार्वाकस्यात एव तत्र संशय इति भावः / उपलम्मेन्द्रिययोरिति / प्रत्यक्षज्ञानस्य विषयजन्यत्वात्तदन्यज्ञानस्य च त्वयानभ्युपगमादिति भावः // 6 // मकरन्दः। उपलम्भेन्द्रिययोरिति / प्रत्यक्षस्य विषयजन्यत्वनियमात्तदन्यज्ञानस्य त्वयान गमादिति भावः // 6 // टिप्पणी। अयोग्यपरात्माऽबाध इति भीषणमिति / ईश्वरसिद्धेरीश्वरानङ्गीकर्तुस्वस्थ भयम् // 6 // तनाथप्रामाण्यं शब्दायपि न तत्र मानमिति / अनुपलभ्यमानार्थे // प