________________ तृतीयस्तबके ] अनुपलब्धेर्बाधकत्वनिराकरणम् / 335 तु कुतः 1 / दर्शनदशायां भावनिश्चयात् , अदर्शनदशायामभावावधारणात् / तथा च-गृहाद् बहिर्गतश्चार्वाको वराको न निवर्तेत / प्रत्युत, पुत्रदारधनाद्यभावावधारणात् सोरस्ताडं शोकविकलो विक्रोशेत् / स्मरणानुभवान्नैवमिति चेन्न / प्रतियोगिस्मरण एवाभावपरिच्छेदात् , परावृत्तोऽपि कथं पुनरासादयिष्यति / सत्त्वादिति चेदनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम् / तदेवोत्पन्ना इति चेन्न / अनुपलम्भन हेतूनां बाधात् / अबाधे वा स एव दोषः। अत एच प्रत्यक्षमपि न स्यात् , तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् / उपलभ्यन्त एव बोधनी। संभावना हि-इति / ततः किमित्यत आह तथा च-इति / गृहान्तत्तिनोऽपि निर्गतस्याभावावधारणात् विलीयेयुरिति भावः / स्मरण-इति / बहिर्निर्गतेनापि पुत्रादीनां स्मरणेनोपलम्भात् नोक्तः प्रसङ्ग इति / न-इति / प्रतियोगिस्मरणसहकृतस्यैवानुपलम्भस्याभावविशेषपरिच्छेदहेतुत्वान्न स्मरणोपलम्भो न केवलमभावपरिच्छेदं प्रतिबध्नाति प्रत्युतोन्मथ्नातीति यदृच्छया परावृत्तोऽपि न पुनः पुत्रादीनासादयेदित्याह परावृत्तोऽपि-इति / तेऽपि नासादयेयुरिति भावः / ननु परावृत्तिकाले तेषां सत्त्वादासादयिष्यन्तीत्याह सत्त्वात्-इति / अनुपलम्भकाल इति स्पटः परिहारः नानुपलम्भकालेऽपि सन्तः पुत्रादयः पुनरासायन्ते / किन्तु यदोपलभ्यन्ते तदैवोत्पन्ना अन्य एवेत्याह तदेव-इति / न-इति / तदुत्पत्तिहेतूनां तदानीमनुपलम्भेन बाधितत्वात्तदुत्पत्तेरसंभवादनुपलम्भेऽपि वा तेषामबाधे स एवानुपलम्भमात्रेण नाभावावधारणमिति दोषः स्यादिति संप्रहस्योत्तरमधं व्याचष्टे अत एवइति / यत एवानुपलम्भमात्रेणासत्वाङ्गीकार इति / उपलभ्यन्ते-इति / स्पष्टम् / तन्मतमङ्गीकृत्यै प्रकाशः। तथा चेति // पुत्रादिभिस्तस्यादर्शनात् स न स्यादिति गृहं न प्रत्यावर्ततेत्यर्थः // प्रत्युतेति // पुत्रादेरदर्शनादित्यर्थः // ननु नाप्रत्यक्ष प्रमाणमिति चार्वाकसिद्धान्तादनुपलब्धिः प्रत्यक्षसहकारिणी / न च गेहाद्वहिर्ग: ‘मनेऽधिकरणेन सहेन्द्रियसन्निकर्षोऽस्तीति न पुत्रायभावनिश्चयः स्यात् / सन्नि कृष्टे देशे चाभावनिश्चयेऽपि ध्वंसानिधयान्न शोकः स्यात् / अत एव, पर्वते परभागेन सह इन्द्रियाऽसन्निकर्षाद् नाग्न्यभावनिश्चय इति तत्र संशयादनुमानप्रवृत्तिः। अत्राहुः। अधिकरणज्ञानमात्रमभावधीहेतुर्न तु तदिन्द्रियसन्निकर्षोऽपि / अत एव, देवतायभावस्तदधिकरणासन्निकर्षेऽपि गृह्यते इति चार्वाकसिद्धान्तमाश्रित्योक्तम् // __ पुत्रादेः स्मरणानैवं करोतीत्याह // [स्मरणेति // स्मरणादिति वक्तव्ये अनुभवप्रहणं तत्र प्रमाणसूचनार्थम् / पुत्रादिस्मरणं तदभावग्रहेऽनुकूलमेव, प्रतियोगिज्ञानं विना तदग्रहादित्याह // प्रतियोगीति // अनुपलम्भकाल इति // तथा चानुपलब्धिमात्रमभावसंशये हेतुर्न तन्निवायकमित्यर्थः। हेतूनां पुत्रायत्पादकानामित्यर्थः // स एवेति // नानुपलब्धिमानेणाभावनिश्चय इत्यर्थः // अत पवेति // हेतूनां बाधादेवेत्यर्थः। ननु चक्षुरादीनामपि स्वोपलब्धिकाले सत्त्व प्रकाशिका। सप्तमोति / सति सप्तमीत्यर्थः / संशयादनुमानप्रवृत्तिरिति / भवतां नैयायिकानामिति टिप्पणी। पराभ्युपगतानुमानजन्यप्रवृतिः / न