________________ 334 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 6 कारिकाव्याख्यायो निगव्याख्यातमेतत् // 5 // चार्वाकस्त्वाह, कि योग्यताविशेषाग्रहेण ? / यन्नोपलभ्यते तन्नास्ति, विपरीतमस्ति / न चेश्वरादयस्तथा / ततो न सन्तीत्येतदेव ज्यायः। एवमनुमानादिविलोप इति चेत् / नेदमनिष्टम् / तथा च लोकव्यवहारोच्छेद इति चेन्न। सम्भावनामात्रेण तत्सि। संवादेन च प्रामाण्याभिमानादिति / अत्रोच्यतेदृष्ट्यदृष्ट्योः क सन्देहो भावाभावविनिश्चयात् // अदृष्टिबाधिते हेतो प्रत्यक्षमपि दुर्लभम् // 6 // सम्भावना हि सन्देह एव / तस्माच्च व्यवहारस्तस्मिन् सति स्यात् / स एव बोधनी / संग्रहस्याविवरणे कारणमाह-निगद-इति / निगदः पाठः, स एव व्याख्यानमस्येति // 5 // तदेवमनुपलब्धिमात्रं न बाधकं योग्यानुपलब्धिस्तु नास्तीति मीमांसके निरस्ते परमनास्तिका चार्वाका प्रत्यवतिष्ठत इत्याह-चार्वाकस्तु-इति / सिद्धान्ती शकते एवम्-इति / इतर प्राह नेदम्इति / प्रत्यक्षकप्रमाणवादिनो हि वयमिति / तथा च-इति / प्रायशो व्यवहाराणामनुमानाधीनत्वादिति / न-इति / धूमादिदर्शनेऽग्निसंभावनामात्रेण व्यवहरन्ति न तु निश्चयात् , अतो न तदर्थमनुमानप्रामाण्यमङ्गीकर्तब्यमिति / कथं तर्हि ब्यवहर्तृणां प्रमाणमूलोऽयं व्यवहार इत्यभिमान इत्यत्राह संवा. देन च-इति / संभावनामात्रेण प्रवर्त्तमाना यादृच्छिकार्थसंवादेन प्रवर्तकविज्ञानस्य प्रामाण्यमभिमन्यन्ते न तु निधायकत्वादिति / अत्रोच्यते इति / संदेहात् प्रवृत्तिरिति तावन्न संभवति, भवत्पने संदेहस्यैवासंभवात् / हौ सत्यामदृष्टौ वा सत्यां क्व कस्मिन्विषये दृष्टेऽदृष्टे वा, संदेहः स्यादुभयोरप्युभयत्रापि न संभवति / संशयस्य हेतुर्विषयश्च नास्तीत्यर्थः / कुतः भावाभावनिश्चयात् दृष्टयदृष्टयोरित्येव दर्शनदशायां भावावधारणादर्शनदशायां वाऽभावावधारणात् अतो व्यवहारार्थमनुमानादिकमेवाजीकरणीयं, तच्चानुपलम्भमात्रेणाभावनिश्चये दुर्लभम् / न केवलम् अनुमानादिकमेव, प्रत्यक्षमपि तद्धतौ चक्षुरादावनुपलब्धिमात्रेण बाधिते कारणाभावात् कार्याभाव इति न्यायेन दुर्लभमिति सर्वोपप्लव इति / ननु मा नाम भूत्यैदेहः संभावनया व्यवहारमभ्युपगच्छतः किमायातमिति शङ्कामपनुदन्व्याचष्टे प्रकाशः। सम्भावनेति // उत्कटकोटिकसंशयमात्रेणेत्यर्यः // दृष्टयदृष्टयोरिति, सप्तमीद्विवचनान्तम् / दर्शने तत्सत्त्वनिश्चयाद् अदर्शने चाभावनिश्चयान सन्देहः प्रत्यक्षहेतौ गोलकादावदृष्टया अनुपलब्ध्या, बाधिते हेत्वभावात् प्रत्यक्षमपि न स्यादित्यर्थः // प्रकाशिका। असिद्धिरेव वा, आये बाधो, द्वितीये सिद्धसानम्, तृतीय आश्रयासिद्धिरित्यर्थः / वस्तुत प्राप्तोक्तस्वादेर्वम्यंशवद् धर्माशेऽपि तस्य प्रामाण्यमिति भावः // 5 // मकरन्दः। मांशेऽपि प्रामाण्यमन्यया न धयंशेऽपीत्याश्रयासिद्धिरेवेति भावः / अस्मदादिपक्षत्वे सिद्धसाधनं बोध्यम् // 5 // टिप्पणी। स्यादिति सर्वज्ञत्वायभावसाधने व्याघातः, धयंशेऽप्रामाण्ये धर्माशे तत्स्यादिति धर्मसिद्धौ व्याघात इति भावः // 5 //