________________ तृतीयस्तवके] अनुपलब्धेधिकरवनिराकरणम्। मात्मत्वेनोपर्लक्षिता सैव वस्तुगत्या सर्वज्ञविश्वकर्तव्यक्तिः, अथ तदन्या, प्रात्मत्व. मेव वा पक्षः 1 / सर्वत्र पूर्वदोषानतिवृत्तेः। अथायमाशयः / आत्मत्वं न सर्वशसर्वकर्तृव्यक्तिसमवेतं, जातित्वात् , गोत्ववदिति / तदसत् / निषेध्यासिनिषेधस्याशक्यत्वात् / तथा चाऽप्रसिद्धविशेषणः पक्ष इत्याश्रयासिद्धिरिति स एष दोषः॥४॥ त्वदभ्युपगमैलोकप्रसिद्धया च प्रसिद्धस्यैत्रेश्वरस्थासर्वज्ञत्वमकर्तृत्वञ्च साध्यते इति चेन्न। आगमादेः प्रमाणत्वे बाधनादानिषेधनम् // आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता // 5 // बोधनी। त्वासर्वकर्तृकत्वयोः सिद्धत्वादिति / तुरीयपादव्याचिख्यासया शकते अथायम्-इति / तत्राश्रयासिद्विसिद्धसाध्यते न स्यातामिति भावः / तदसत्-इति / न हि मीमांसकस्य सर्वज्ञत्वादिकं क्वचित्सिद्धमिति / किमतोऽनुमानस्येत्यत आह तथा च-इति / साध्यविशिष्टस्य पक्षत्वाद् विशेष्याप्रसिद्धाविव विशेषगाप्रसिद्धावपि विशिष्टस्यासिद्धराश्रयस्य पक्षस्याभावेन हेतुराश्रयासिद्धो भवतीति // 4 // त्वदभ्युपगमैः-इति / नैयायिकाम्युपगमैलॊकप्रसिद्धया चाश्रयः सेत्स्यतीति / न-इति / किमाश्रयग्राहकोऽयमागमादिः प्रमाणमाभासो वा ? प्रमाणत्वे तत एव धर्मिग्राहकप्रमाणात् बाधितविषयं निषेधानुमानमात्मानमेव नासादयेत् / आभासे तु पूर्वोक्तवाश्रयासिद्धिरागमादिप्रमाणोपन्यासेन तिरोभूता तत्परित्यागे पुनरुद्भूता स्यादिति / प्रकाशः। सर्वत्रेति // आत्मत्वपक्षेऽप्यसर्वज्ञत्वे क्षित्वायकर्तृकत्वे च साध्ये सिद्धसाधनमित्यर्थः / न चात्मत्वमसर्वज्ञत्वव्याप्यं ज्ञानत्वञ्चानित्यत्वव्याप्यमिति वाच्यम् / विपक्षे बाधकाभावात् / अन्यथा, मूर्तत्वमवयवित्वव्याप्यमिति परमाणुरपि न सिद्धयेदिति भावः // तथा चेति // जिज्ञासितधर्मणो धर्मिणः पक्षवात्तदभावेनाश्रयासिद्धिरित्यर्थः // 4 // श्रागमादेरिति // न चाऽगमादेर्घम्यंशे प्रामाण्येऽपि अन्यत्र न प्रामाण्यमिति वाच्यम् / तद्रूपेणाप्यस्मदादितदन्यपक्षत्वे सिद्धयसिद्धिभ्यां व्याघातादिति भावः // 5 // प्रकाशिका। स्तुतस्त्वयापि तदुपस्थितौ तस्य सर्वज्ञत्वे बाधः, असर्वज्ञत्वे सिद्धसाधनमिति दूषणं द्रष्टव्यम् / जिलासितेति प्राचीनमतेनेदम् // 4 // तदूरूपेणापीति / सर्वज्ञत्वादिधशिप्रामाण्येऽपि धम्मिणः सर्वज्ञस्य सिद्धिरसर्वज्ञस्य वा, मकरन्दः। बाधापत्तेः, सर्वज्ञादस्य सर्वविषयकप्रत्यक्षाश्रयपरतायामेव प्रसिद्धिर्बोध्या। जिशासितेति / प्रा. चीनमतेनेदम् // 4 // तद्रूपेणेति / यद्यपि धम्मिमात्रसिद्धौ न सिद्धयसिद्धिव्याघातः, तथाप्याप्तोक्तत्वाविशेषाद्ध टिप्पणी। तद्रपेणेति। आगमसिद्धधूमिमात्ररूपेणेत्यर्थः / अभेदे तृतीया / यद्वा तद्रूपेणात्मत्वरूपेणास्मदायस्मदाद्यन्यपक्षत्व इत्यर्थः / आगमस्य प्रामाण्येऽलौकिकमिणीवालौकिकधर्मेऽपि तत्