________________ 332 व्याख्यात्रयोपैतप्रकाशवोधनीयुते न्यायकुसुमाअलौ [4 कारिकाव्याख्यायां / स्यादेतत् / यद्यपीश्वरो नावगतो, यद्यपि च नाभाससिद्धेन प्रमाणव्यवहारः शक्यसम्पादनः, तथाण्यात्मानः सिद्धास्तेषां सार्वघ्यं निषिद्धयते, तित्यादिकर्तृत्वश्चेति / तथाहि / मदितरे न सर्वज्ञाश्चेतनवादहमिव, न च ते क्षित्यादिकर्तारः पुरुषत्वादहमिव / एवं, वस्तुत्वादेरपीति / तदेतदपि प्रागेव परिहतम् / तथाहि इष्टसिद्धिः प्रसिद्धंऽशे हेत्वासिद्धिरगोचरे / नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा // 4 // प्रमाणेनप्रतीतानां चेतनानां पक्षीकरणे सिद्धसाधनम् / ततोऽन्येषामसिद्धौ हेतोराश्रयासिद्धत्वाम् / श्रात्मत्वमात्रेण सोऽपि सिद्ध इति चेत् / कोऽस्याऽर्थः ? / कि बोधनी। प्रकृतेऽपि प्रमाणसिद्धं निषेधाधिकरणं दर्शयन्नाह / स्यादेतत्-इति / तस्यामेव प्रतिज्ञायां धस्तुत्वद्रव्यत्वादयोऽपि हेतव इत्याह एवम्-इति / यथाहुः"प्रत्यक्षायविसंवादि प्रमेयत्वादि यस्य च / अभावकरणे शक्तं को नु तं कथयिष्यति" (श्लो० वा०, पृ०.८५)। एतदप्याश्रयासिद्धत्वादिना दत्तोत्तरमित्याह तदेतत्-इति। तदेव विकरप्योपपादयति इष्टसिद्धिः-इति / उभयवादिसिद्धेषु पक्षीकृतेषु सिद्धसाधनं तेषामसर्वज्ञत्वासर्वकर्तृकत्वयोः अस्माकमपि सिद्धत्वात् भवतामगोचरेऽीश्वरे पक्षीकृते हेतोराश्रयतोऽसिद्धिः / नन्वात्ममात्रे पक्षीकरणे सोऽपि तत्तया गृह्यत इत्यस्ति सामान्यतः सिद्धिरित्यत उक्तम् नान्या सामान्यतः सिद्धिः-इति / उभयसिद्धयनुभयसिद्धिभ्यामन्यतः सिद्धिर्नाम न काचिदस्ति / न ह्यभयीमपि विधामतिक्रम्य विधान्तरमस्ति / * आत्मत्वजातावपि पक्षीकृतायो यथेष्टसिद्धया पक्षत्वानिपातेनाश्रयासिद्धिः तथा सेवाश्रयासिद्धिः स्यात् / निषेधस्य सर्वज्ञत्वादेः कचिदप्यसिद्धेरप्रसिद्धविशेषणत्वात्पक्षस्येति व्याचष्टे प्रमाणेन-इति / तृतीयं पादं व्याचिख्यासुः शङ्कते आत्मत्वमात्रेण-इति / विकरप्य दूषयति कोऽस्यार्थः इति / भवतोऽसिद्धाप्यस्मदभिमतैव सर्वज्ञसर्वकर्तृव्यक्तिरात्मत्वेनोपलक्षिता किं पक्षीक्रियेत तस्या अप्यात्मत्वोपलक्षितत्वेन वस्तुगत्या सिद्धत्वात् / अथ तदन्या संप्रतिपन्नव व्यक्तिः, अथ वात्मत्वमात्रमेव / प्रथमे हेत्वसिद्धिरगोचर इति स्यात् / द्वितीये त्विष्टसिद्धिरिति स्यात् / तृतीयेऽपि सैव, आत्मत्वस्यासर्व प्रकाशः। न सर्वज्ञा इति। परेषां सर्वज्ञाप्रसिद्धः / अत्र किञ्चिदनभिज्ञत्वमेव साध्यम् / तत इति // सामान्यलक्षणप्रत्यासत्तेस्तैरनभ्युपगमानात्मस्वेनापि तदुपस्थितिरिति भावः // प्रकाशिका। . त्वात् / न चैवं शुद्धरूपाभावप्रतीत्यापत्तिः कारणबाधाभावादिति वाच्यम् | शुद्धरूपविशिष्टघटप्रतीत्यापतेस्त्वयापि समाधेयत्वात् / न च विशिष्टधीसामग्री शुद्धव्यक्तिविशेषणकज्ञानाजनिति तत्र समाधिरिति वाच्यम् / इहाप्यभावज्ञानसामग्री शुद्धप्रतियोगिकाभावज्ञानाजनिकेति समाधेः सत्त्वात् , / ननु तथाप्याहार्यमेव प्रतियोगितावच्छेदकविशिष्टप्रतियोगिशानं व्यधिकरणधर्मावच्छिमाभावग्रहे कारणमस्त्विति चेम / अनाहार्यस्यैव तस्य कारणत्वादित्यन्यत्र विस्तरः / वस्तुतो विरोधिशून्येऽभावसं. ज्ञायाः पारिभाषिकतापत्तिः, विरोधि च प्रकृते न शृङ्गम् , तस्य तत्समानाधिकरणत्वात् , नापि शशीयत्वविशिष्टं शृङ्गम् / तस्यालीकतया विरोधाप्रतियोगित्वादिति नैतागभावस्वीकार इति // 3 // परेषामिति / सर्वगोचरप्रत्यक्षाभाव एवात्र साध्यः, अन्यथा शब्दे सर्वगोचरज्ञानसत्वेज वाधापतेः, तथा सति प्रतियोग्यप्रसिद्धिरिति भावः / सामान्यलक्षणेति / इदमुपलक्षणम् / व परेषामिति / यद्यपि शब्दादिज्ञानमादाय तेषामपि तत्प्रसिद्धिरस्त्येव, तथापि तथा सति मकरन्दः।