________________ तृतीयस्तवके] अनुपलब्धेर्बाधकत्वनिराकरणम् / धमित्युक्तम् / अनुपलम्भकाल अाभासोपलभ्भसामग्रया अभावात्तत्काले चानुपलम्भाभावादिति / कस्तर्हि शशशृङ्ग नास्तीत्यस्यार्थः 1 / शशे अधिकरणे विषाणाभावोऽस्तीस्ति // 3 // बोधनी। तदुत्तरत्वेन श्लोकाध विवृणोति अत एव-इति / कस्तर्हि-इति / यद्यशक्यनिषेधम् इति / सुहृद्भावेनाह शश इति / प्रमाणसिद्धमेव विषाणं निषिद्धयते न त्वाभासप्रतिपन्ने तादृशमेवेति // 3 // प्रकाशः। नन्वेवं घटादावपि दोषस्योपलम्भकारणत्वात्तदभावोऽपि न गृधेत / प्रमापकसाकल्यस्य च विवक्षितत्वे गुणस्यैव प्रमापकस्याभावात् तत्साकल्यासिद्धेः। अत्राहुः। प्रत्यक्षप्रमायामिन्द्रियार्थसनिकर्षस्य गुणत्वातस्य च तद्व्याप्यत्वादेव / तदन्यगुणस्य च तत्राकारणत्वात् / घटादौ गुणान्यप्रमाकारणत्वेन योग्यता / शशशृङ्गे च न दोषान्यज्ञानकारणत्वेन योग्यता। दोपान्यप्रमापकस्याभावादित्यन्ये। शश इति / ननु गवि शश नास्तीतिप्रतीतिबलात् प्रतियोग्यवृत्तिधर्मण शशीयत्वेनावच्छिन्नः माभावः प्रतीयते / व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयित्वात् / मैवम् / प्रतियोगितावच्छेदकधर्मविशिष्टप्रतियोगिज्ञानस्याभावधीहेतुतया तादृशप्रतीतेरसिद्धः / अन्यथा, प्रतियोगिनिर्विकल्पकादपि व्यतिरेकप्रतीत्यापत्तेः // 3 // प्रकाशिका। प्रत्यक्षप्रमायामिति / तथा च तत्, तद्व्याप्येतरयावततत्प्रमापकसाकल्ये सत्यनुपलब्धिरभावप्राहिका। गुणस्यार्थनियतत्वेन व्याप्यपदादेव व्यवच्छेदान्नासंभवः / सा च न शशशृङ्ख तत्प्रमापकासिद्धेः / न च दोषान्यज्ञापकसामग्रीसाकल्यमेव योग्यता तत्साकल्यं चात्मादिकमादाय तत्राप्यस्त्येवेति वाच्यम् / तत्तद्व्याप्येतरस्यावश्यकत्वे गौरवादित्यर्थः / प्रमापकस्येति / ज्ञापकस्येत्यर्थः। अन्य इत्यरुचौ तीजन्तु आत्मादिकमेव दोषान्यज्ञापकमस्तीति / वस्तुतोऽसत्व्यातेः कारणबाधेन निरासे प्रतियोगिज्ञानाभावारोपादेव नालीकाभावप्रतीतिरित्यत्र बाधकं स्मर्त्तव्यम् / प्रतियोगितेति / इदश्चाभावप्रत्यचे एव कारणं प्रमेयोऽभाव इति शब्देन तद् विनापि अभावप्रहात्। वस्तुतोऽभावप्रतीतौ यो धर्मःप्रतियोगिनिष्ठत्वेन भासते तत्प्रकारकप्रतियोगिज्ञानं कारणं, विशिष्टवैशिष्टयज्ञाने सामान्यत एव विशेषणतावच्छेदकप्रकारकविशेषणज्ञानस्य कारण मकरन्दः। प्रत्यक्षप्रमायामिति / तथा च प्रतियोगितद्वयाप्येतरयावत्प्रमापकसमवधाने सति अनुपलब्धिरभावाहिका, गुणस्य चार्थनियतत्वेन तद्वयाप्यपदेनैव व्यवच्छेदान्नासम्भवः। सा च न शशसाभावे, तत्प्रमापकाप्रसिद्धेः, न च दोषान्यज्ञापकसाकल्यं विवक्षितं, तच्चेन्द्रियायेव तत्रापि प्रसिमिति वाच्यम् / गौरवादित्याहुः। वस्तुतोऽसत्ख्यातेः कारणाभावेनानभ्युपगमादलीकस्य नोपलब्धत्वमपीति न तनिषेध्यमिति भावः / प्रमापकस्येति / प्रज्ञापकस्येत्यर्थः / अत्रेदमनमिमतिबीजम् / असत्ख्यातिपचे दोषान्यज्ञापकमिन्द्रियायेव, अन्यथा दोषोऽपि न तज्ज्ञापक इति दोषान्यविशेषणं व्यर्थमिति। प्रतियोगितेति / यद्यपि ताहशज्ञानं विनापि प्रमेयाभाव इति शम्दादिनाऽभावप्रान्न तस्याहेतुत्वं, तथापि प्रत्यचे तथात्वं बोध्यम् / यद्यप्याहाादिरू ताशानं प्रकृते सम्भवत्येब, तथाप्यनुमानप्रकाशे मदुक्तमनुसन्धेयम् // 3 // टिप्पणी। दोषान्यप्रमापकस्याभाधादित्यन्य इति / असत्ख्यातिपचे दोषान्यमिन्द्रियमेव ज्ञापकम् , अन्यथा दोषोऽपि शापको न स्यादिति दोषान्येति व्यर्थमित्यस्वरसः // 3 // 4 //