________________ Pururamanararu meanInExuRMIKAmAam तृतीयस्तवके] अनुपलब्धेर्वाचकत्वनिराकरणम्। 326 श्वरस्तज्ज्ञानं वा क्वचित् सिद्धम् / अाभासप्रतिपन्न मिति चेन्न / तस्याश्रयत्वानुपपत्तेः। प्रतिषेध्यत्वानुपपत्तेश्च // 1 // व्यावाभाववत्तैव भाविकी हि विशेष्यता // - अभावविरहात्मत्वं वस्तुनः प्रतियोगिता // 2 // न चैतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधाधिकरणत्वं निध्यता वेति / कथं तर्हि शशशृङ्गस्य निषेधः / न कथञ्चित् / बोधनी। ह्यनाश्रय एव सर्वकर्तृत्वस्य विषयस्वस्य वा प्रतिषेधः संभवतीति / प्राभास इति // तेनाश्रयत्वोपपत्तिरिति / न इति / नपरमाभासप्रतिपन्नाश्रयतानुषपत्तिः / प्रतिषेधप्रतियोगित्वं च नोपपद्यत इति // 1 // उभयीमप्यनुपपत्तिमुपपादयति व्यावर्त्य-इति / व्यावय॑स्य-निषेधस्य / अभाववत्ता तत्संवन्धिता। भाविकी पारमार्थिकी। विशेष्यता नामाभावाधिकरणतेति। यावत्पारमार्थिकी चाभाववत्ता पारमार्थिकस्यैव भावस्य न चाभासप्रतिपन्नस्येति भावः / निषेध्यस्य प्रतियोगिनः परमार्थतोऽभावविरुद्धात्मत्वं हि प्रतियोगिता निषेध्यत्वमिति यावत्, न चैतदप्याभासप्रतिपन्नस्यास्तीति / यथाहुः “लब्धरूपे क्वचित्किञ्चित्ताहगेव निषिद्धयते” इति / न चैतत् इति // विशेष्यप्रतियोगिनोदशितं रूपमिति / कथं तर्हि-इति / यद्यसिद्धस्यैतन्नास्तीति / उत्तरं न कथञ्चित्-इति / शशशृङ्गप्रतियोगिको निषेधो न प्रकाशः। आभासेति / असत्स्यात्युपस्थितमित्यर्थः। यदीश्वरे कर्तृत्वनिषेधः साध्यते तदाऽऽश्रयत्वमीश्वरस्य, यदा तस्यैवाभावः, तदेश्वरस्य प्रतियोगित्वम्, उभयमपि नास्तीत्याह / तस्येति / // 1 // कुत इत्याह / व्यावय॑ति / व्यावर्त्यः = प्रतियोगी, तदभाववत्ता भाविकी पारमार्थिकी विशेष्यता आश्रयता, वस्तुनः प्रामाणिकस्य, स्वाभावविरहरूपत्वं च प्रतियोगित्वम् / असख्यातेः * कारणाभावेन निरासादित्यर्थः। ___ नन्वनुमितिरेव पक्षः। तथा हि इयमनुमितिरयथार्था, अशरीरे कर्तृत्वज्ञानत्वात् , ज्ञाने नित्यत्वज्ञानवादा। घटः कर्ता, चैत्रज्ञानं नित्यमिति बानवदित्यस्तु / न चोपजीव्यविरोधः / अनुमितिर्हि उपजीव्या, न तु तमथार्थत्वमपि / न / अप्रयोजकत्वात् / अन्यथा, पर्वते अग्न्यनुमितिरयथार्था उभयसिद्धाग्निमद्भिन्नेऽग्निमत्त्वज्ञानत्वात् , ह्रदोऽग्निमानितिवदित्यापत्तेः / अपि चानुमितेरयथार्थत्वं दोषादुत्पन्नमनेन ज्ञाप्यं, न त्यनेनोत्सायम् / तत्र चायमेव दोषो दोषान्तरं वा ? नायः, अन्योन्याश्रयात् / बान्त्यः तदभावात् / / न चेति / आभासानाभाससङ्करापत्तेरिति भावः। कथमिति / यदि नासतो निषेध्यत्वमिति शेषः / न कथञ्चिदिति / नात्रापि कस्पितस्य निषेध्यत्वं, शशेऽधिकरणे शृङ्गस्यैव निषेधा प्रकाशिका / ___ अयमेवेति। प्रवृतानुमानरूप एवेत्यर्थः। आभासेति / आभासप्रतिपन्नस्यापि वस्तुत्वे वस्त्ववस्तुनोरभेदापतिरित्यर्थः / तीत्यस्य तदेत्यर्थः। तस्य च यदीतिशब्दसापेक्षतया शेषं पूरयति / यदीति / मकरन्दः / अयमेवेति / प्रकृतानुमानमेवेत्यर्थः। आभासेति / आमासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे वस्तुत्वावस्तुत्वसकरात्तिरित्यर्थः / यदीति / यद्यपि त त्यस्य तदेत्यर्थः, तस्य च नित्यसापे. क्षतया शेषदानं विनाऽपि तदर्थलाभः, तथापि नित्यसापेक्षतया अध्याहारात् तदपेक्षया शेषस्य टिप्पणी। अप्रयोजकत्वादिति / कृति प्रति शरीरस्य कारणत्वे सिद्ध सप्रयोजकत्वं स्यात् , नित्यकृत्यभ्युपग मेन तदभावादिति भावः। श्राभासानाभाससङ्करेति / भाभासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे / 42 न्या० कु० .