SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 328 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलो [ 1 कारिकाव्याख्यायां वा स्यादेकदेशेन वा स्यात् ? / न प्रथमः / प्रत्यक्षाद्यन्यतमासद्भावेऽपि तत्प्रमेयावस्थितेः। न द्वितीयः। पुरुषनियमेन सर्वप्रमाणव्यावृत्तावपि प्रमेयावस्थितेः। श्रनियमेनासिद्धः। न हि सर्वस्य सर्वदा सर्वथाऽत्र प्रमाणं नास्तीनि निश्चयः शक्य इति। कथन्तर्हि चक्षुरादेरभावो निश्चेयः?। व्यापकानुपलब्धेः। चरमसामग्री निवेशिनो हि कार्यमेव व्यापकं, तनिवृत्तौ तथाभूतस्यापि निवृत्तिः। योग्यतामात्रस्य कदाचित् कार्य, तन्निवृत्तौ तथाभूतस्याऽपि निवृत्तिः। अन्यथा, तत्रापि सन्देहः प्रकृतेऽपि व्यापकानुपलब्ध्या तत्प्रतिषेधोऽस्तु, नाश्रयासिद्धत्वात्। न ही. वोधनी। इति / ननु यदि न प्रमेयस्य प्रमाणव्याप्तिः कथं तर्हि रूपादिज्ञानाभावात्तदेकप्रमाणकस्य चक्षुरादेरभावनिश्चय इत्याह -कथं तर्हि इति / उत्तरं-व्यापक इति / न हि तत्रापि प्रमाणाभावादनिश्चयः / किं तर्हि ? व्यापकानुपलब्धेरिति / कथं रूपादिज्ञानं चक्षुरादेर्व्यापकं, न हि कार्य कारणस्य व्यापक वैपरीत्यादित्यत्राह-चरम इति / चरमसामग्रीत्वेन निविशमानस्य हि कारणस्य कायमेव व्यापकं यथा अन्त्यतन्तुसंयोगस्य पटस्तेन तस्य व्यापकस्य कार्यस्य निवृत्ती व्याप्यभूतस्यैव कारणस्य निवृत्तिरवसीयते, न तु प्रमाणनिवृत्त्या प्रमेयनिवृत्तिरित्यर्थः / किचित्तु कारणमस्मिन्सत्येव भवति नासतीति कार्य प्रति योग्यतया निविशते यथा तन्त्वादयस्तस्यापि कदाचिद्भवत्कार्य व्यापकं न हि सर्वदा कार्यानन्वितं कारणमिति शक्यं वक्तुम् / तस्मात्तस्य कादाचित्कस्यापि कार्यस्य निवृत्तौ तथाभूतस्य योग्यतयानिष्टस्यानि निवृत्तिः / अन्यथा इति / यदि विधाद्वयमपि चक्षुरादौ नास्ति तदा रूपादिज्ञानाभावान्न तत्राप्यभावनिश्चयः किंतु संदेह एव स्यादिति / यद्वा, योग्यतामात्रस्य कदाचित् कार्य न तु व्यापकं तेन कारणस्य निवृत्ती कादाचित्कस्यापि कार्यस्य निवृत्तिस्तव्यतिरेकेणास्य निवृत्तिरन्यथा कार्यनिवृत्तौ तत्रापि कारणेऽपि संदेहो नाभावनिश्चय इति / केचित्तु न तन्निवृत्तौ तथाभूतस्यापि निवृत्तिरिति नाप्रश्लेषेण पठन्ति / तत्रायमर्थः / ननु चरमसामग्रीनिवेशिन इति विशेषणं योग्यस्पेत्येवोच्यतामित्यत्राह-योग्यतामात्रस्य इति / तस्य कार्य न व्यापकं / तस्मात्कार्यनिवृत्तौ योग्यतामात्रस्य निवृत्तिः / अन्यथा इति / चक्षुरादेश्वरमसामग्रीनिवेशाभावे तत्रापि नाभावनिश्चयः, संदेह एवेति / चक्षुरादिवत्प्रकृतेऽपीश्वरे व्यापकस्य प्रयोजनादेरनुपलब्ध्या व्याप्यस्य कत्तुः प्रतिषेधोऽस्तु न प्रमाणाभावेनेत्याह-प्रकृतेऽपि इति / न इति / प्रतिषेधाधिकरणस्य सिद्धिमेवाह-न हि इति / न प्रकाशः। प्रमेयासत्त्वं स्यादित्याह / न चेति / अनियमेनेति / सर्वपुरुषापेक्षयेत्यर्थः / व्यापकेति / तत्तयापकनिवृत्तौ तत्तद्याप्यनिवृत्तरित्यर्थः / कार्यविशेषस्य कारणविशेषव्यापकत्वमाह / चरमेति / कार्यरूपज्ञानादि / योग्यतामात्रस्येति / व्यापकमित्यनुषज्ज्यते / न च भक्षितविनष्टबीजे व्यभिचारः / सामान्यं यत्कारणतावच्छेदकं तदवश्यं तजनकवृत्तीत्यर्थात् , नित्ययोग्याभिप्रायकत्वाद्वा / अन्यथेति / कदाचित्कार्यव्यतिरेके योग्यतायामपि सन्देह इत्यर्थः / प्रकृतेऽपीति / ईश्वरो न कर्ता तद्वयापकस्वार्थादिशून्यत्वाद् व्योमवदिति ब्यापकाभापलिङ्गकमनुमानयित्यर्थः / प्रकाशिका। रूपज्ञानादीति / तथा च सामग्रथन्तरसमवधाजदशायां रूपानुपलब्ध्यैव चक्षुरभावोऽनु मीयत इत्यर्थः। यत्सामान्यमिति / कस्य चिदुद्भूतरूपस्य विषयसाक्षात्कारकारणतावच्छेदकस्य न फलोपहितवृत्तित्वमिति सामान्यपदम् / तेन तत्रादि पर रिति सामान्यपदम / तेन तत्रापि परम्परासम्बन्धेनावच्छंदकस्य सामान्यस्य तेनैव सम्बन्धेन फलोपहितवृत्तितया न व्यभिचार इति भावः // 1 //
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy