________________ तृतीयस्तवके ] अनुपलब्धेर्वाधकरवनिराकरणम् / 327 - स्यादेतत् / यत्प्रमाणगम्यं हि यत् , तदभाव एव तस्याभावमावेदयति / यथा रूपादिप्रतिपत्तेरभावश्चक्षुरादेरभावम् / कायवाग्व्यापारकप्रमाणकश्च पराऽऽत्मा, तदभाव एव तस्याभावे प्रमाणमडरादिषु / तन्न / तदेकप्रमाणकत्वासिद्धेः। अन्यथा सुषुप्तोऽपि न स्यात् / श्वाससन्तानोऽपि तत्र प्रमाणमिति चेन्न / निरुद्धपवनोऽपि न स्यात् / कायसंस्थानविशेषोऽपि तत्र प्रमाणमिति चेन्न, विषभूच्छितोऽपि न स्यात् / शरीरोष्मापि तत्र प्रमाणमिति चेन्न। जलावसिक्तविषमूञ्छितोऽपि न स्यात्। तस्माद् यद्यत् कार्यमुपलभ्यते तत्तदनुगुणश्चेतनस्तत्र तत्र सिद्ध्यति / न च कार्यमात्रस्य क्वचिद् व्यावृत्तिरिति / न च त्वदभ्युपगतेनैव प्रमाणेन भवितव्यं नान्येनेति नियमोऽस्ति / न च प्रमेयस्य प्रमाणेन व्याप्तिः / सा हि कायन बोधनी। कर्तृबाधकमाशङ्कते–स्यादेतत् इति / तन्नेति / परमात्मन इति शेषः / कायवाग्व्यवहारकप्रमाणकत्वेऽनिष्टमाह-अन्यथा इति / न हि तस्य कायिको वाचिको वा व्यापारोऽस्तीति / निरुद्धपवनः प्राणानायम्य तूष्णीमासीनः / शेषं सुगमम् / यस्मान्न कायवाग्व्यापारकप्रमाणकः परमात्मा तस्मादेवमङ्गीकर्तव्यमित्याह-तस्मात् इति / तथापि विश्वकर्तः कथं सिद्धिरित्यत्राह-न च कार्यमात्रस्य इति / न वयं कार्यप्रमाणकत्वं चेतनस्याभ्युपगच्छाम इत्यत्राह-न च इति / किं चास्तु त्वदभ्युपगमे तदेव प्रमाणं तथापि तदभावान्नाभावश्चेतनस्वेत्याह-नच प्रमेयस्य इति / व्याप्त्यभावमेव विकस्प्याह- सा हि इति 1 प्रमेयस्य प्रमाणव्याप्तिः सर्वैः प्रमाणैरिति प्रमाणकात्स्न्येनाभ्युपगम्येत किं वा येन केनचित्प्रमाणैकदेशेन ! तत्र कृत्स्नप्रमाणव्याप्यः प्रत्यक्षायन्यतमनिवृत्तावपि प्रमेयं निवर्तेत, न चैतदस्ति / द्वितीयेऽपि यदि नियतस्यकस्य पुरुषस्य तहथैकस्य सर्वप्रमाणनिवृत्तावपि प्रमेयं निवर्तेत, अथानियमेन सर्वेषां न हि तदा सर्वपुरुषाणां यत्किञ्चिदपि प्रमाणं नास्तीति निश्चेतुं शक्यत प्रकाशः। शृङ्गत्वस्य जातेोग्यसंस्थानव्यङ्ग यत्वेनायोग्ये शङ्कितुमप्यशक्यत्वात् अन्यथा तद्व्यतिरेकाप्रसिद्धथा अनुमानानवकाशात् , अन्वयिनश्वानङ्गीकारात् / परात्मनश्वायोग्यस्याणि कर्तृत्वान्न कर्तृत्वं योग्यत्वनियतमित्याशयवत उत्तरं. नेति / . . यत्प्रमाणेति / यदेकप्रमाणगम्यमित्यर्थः / अतो न धूमाभावेऽपि अग्निसत्त्वाद् व्यभिचारः / अत एव “तदेकप्रमाणत्वासिद्धेरिति वक्ष्यति / कार्यमात्रप्रमाणोन्नेयस्तद्विशेषनिवृत्तिमात्रेण न निवतते / कार्यमात्रस्य च न व्यावृत्तिरित्युपसंहरति / तस्मादिति / तथा च, प्रमाणविशेषनिवृत्तावपि प्रमाणसामान्यसत्त्वात्तदेकप्रसाणगम्यत्वमसिद्धमित्यर्थः / न च प्रमाणप्रमेययोर्व्याप्तिर्यतःप्रमाणविशेषाभावे प्रकाशिका। ग्यशृङ्गाभावविषयकमिति कथं तेन लाभ इत्यरुचेराह शृङ्गत्वस्येति / अत्राप्रयोजकत्वमाशक्क्याह अन्यथेति / अन्वयिनश्चेति / केवलान्वयिनश्चेत्यर्थः / ननु कार्यत्वावच्छिन्नं प्रति कर्तृत्वेनेव पशुत्वेनैव शृङ्गजनकत्वमिति तुल्यमित्यत आह / परात्मनश्चेति। तथा च कर्तृत्वेनायोग्यतानियतमित्ययोग्येश्वरसिद्धौ न किञ्चिद्वाधकम् त्वं तु योग्यसंस्थाननियतमिति नायोग्यासिद्धिरिति भावः। मकरन्दः / बाध इत्याशङ्कयाह शृङ्गत्वस्येति / अप्रयोजकत्वमाशश्श्याह अन्यथेति / अन्वयिनः = केवलान्वयिनः // 1 // टिप्पणी। अन्यथा तव्यतिरेकेति / सर्वत्राप्ययोग्यस्य श्रङ्गसम्भावनया अभावस्यानिश्चयात् // 1 //