________________ 326 . व्याख्यात्रयोपेतप्रकाशयोधनीयुते न्यायकुसुमाञ्जलो [1 कारिकाव्याख्यायां शशङ्गादायनुपलब्धिर्न बाधिका स्यादिति / ततः किं तत् सिद्धयेदिति चेत् / एच मस्तु यदि प्रमाणमस्ति / पशुत्वादिकमिति चेत् / परसाधने प्रतिबन्धिस्तर्हि न तद्बाधने। तत्रैव भविष्यतीति चेत् / तत् किं तत्र प्रतिबन्धिरेव दूषणम् / अथ कथश्चित्तल्यन्यायतया योग्या एव परात्मबुद्ध्यादयस्ते च बाधिता एवेत्यपहृतविषयत्वम् ? / न प्रथमः / अव्याप्तेः। न हि पशुत्वादेः शशशृङ्गसाधकत्वेन कार्यत्वादेः कर्तृमत्त्वादिसाधकत्वं व्याप्तं, येन तस्मिन्नसति तत्प्रतिषिद्ध्येत / न द्वितीयः / मिथोऽनुपलभ्यमानत्वस्य धादिप्रतिवादिस्वीकारात् / तथापि पशुत्वादौ को दोष इति चेत् / न जानीमस्तावत्तद्विचारावसरे चिन्तयिष्यामः / बोधनी। मात्रात् किं तच्छृङ्ग सिध्यति / अयमत्राभिसन्धिः-अयोग्यानुपलब्धिप्रतिपादनेन बाधकामावमीश्वरस्य सिध्यति न तु सद्भाव इति / केचित्तु व्याचक्षते यदि शशशृङ्गमप्ययोग्यं तदा तस्यानुपलब्धिर्न बाधिका स्यादिति ! उत्तरं ततः किम् इति / बाधकाभावात्किमायातं शशस्येति शचितुर्भावाविष्करणं तत्सियेदिति / बाधकामावादीश्वरवन्न शशशृङ्गं सिध्धेदिति / निराकरोतिएवमस्तु इति / स्यादेवं यदि शशङ्गस्यास्तित्वे प्रमाणं स्यात् , तत्तु नास्ति / न हि बयं बाधकाभावमात्रेणेश्वरमभ्युपगच्छामः किन्तु साधकसद्भावादेवेति भावः / शृङ्गेऽपि प्रमाणमाशङ्कते-पशुत्यादिकम् इति / शशः शृङ्गवान् पशुत्वात् गवादिवदिति। हन्तवमश्वारूढोऽश्वस्यैबास्माषर्षीरित्याहपरसाधने इति / प्रथममीश्वरस्यानुपलब्ध्या वाधकमभिधाय तदबाघे शृङ्गस्याप्यवाधः तद्वाधे तस्यापि बाध इति बाघने प्रतिबन्धिमुद्भावयितुमुपक्रान्तः संप्रति परसाधने प्रतिबन्धिमुद्भावयसि परेण हीश्वरसाधने कार्यत्वादिति हेतौ प्रयुक्ते शशोऽपि झवान् पशुत्वादित्यादि वक्त संगच्छत इति / तर्हि / परसाधन एतत्प्रतिबन्धिर्मविष्यतीत्यत्राह-तत्र इति / तदेतद्विकल्प्य निराकरोति-किं तत्र इति / यदि कार्यत्वं कर्तारं साधयेत् पशुत्वमपि शृङ्गं साघवेदिति किं प्रतिबन्धिरेवं दूषणं किं वा योग्यानुपलब्ध्या पशुत्वस्व कार्यत्वादेर बाधितविषयत्वमिति / तस्मिन् व्यापके पशुत्वादेः शृङ्गादिसाधनत्वेऽसति तत्कार्यत्वादेः कर्तृत्वसाधनं व्याप्यभूतं प्रतिषिध्येतेति / मिथोऽनुपलभ्य इति / यदि परात्मादेर्योग्यानुपलब्धिर्वाधिका स्यात् तदा परस्परमनुपलभ्यमानयोरेव वादिप्रतिवादिनोः परस्पराङ्गीकारो न स्यादिति / ननु मा भूदिदं परसाधने दूषणं, तथा।ि शृङ्गसाधनतया प्रयुक्त पशुत्वादी को दोष इत्याह-तथापि इति / पृच्छतोऽयमांशयः-य एवात्र दोषः स एवेश्वरानुमाने भविष्यतीति / अनवसरत्वान्नेदमिह वक्तव्यमित्याह-न जानीमस्तावत् इति / तदेवं प्रत्यक्षस्य बाधकत्वं निराकृतम् , इदानीं तु व्यापकानुपलब्धिलक्षणमनुमानमस्कुरादिषु प्रकाशः। दूष्यत इत्यर्थान्तरं निग्रहस्थानमित्याह / तत इवि / आशयमविद्वानाह / तदिति / तत्सिद्धावति न प्रकृते दूषणमित्याह / एवमिति / मानमाह। पशुत्वादिकमिति / पक्षसमत्वादेव नावादी व्यभिचार इति भावः। श्राशयं स्फुटयति / परेति / यदीश्वरः सिद्धयेत् , तदा शशश्नमपि सिद्धथेदितीश्वरसाधने प्रतिबन्धिस्तथा चार्थान्तरमित्युक्तम् / नन्वनुपलब्धिमात्रेण यथा शशे शृङ्गाभावस्तथा क्षित्यादौ कर्तुरप्यभाव इति बाधनेऽपि प्रतिबन्धिः स्यात् , इष्टापत्तेरभावादित्याह / तत्रैवेति / मिथ इति / परात्मादेः परायोग्यत्वस्योभयवादिस्वीकारात् प्रत्यक्षेणानुपलम्भमात्र, नायोग्ये बाधकमित्यर्थः / अर्थान्तरं हि पुरुषदोषो, न तु साधनदोष इत्याशयेन पृच्छति / तथापीति / शशे शङ्गस्यात्यन्तमभाव इति सर्वेषामबाधितप्रत्यक्षबाधः /