________________ तृतीयस्तक्के ] अनुपलब्धेर्बाधकत्वनिराकरणम् / 325 संसारमेकमेव मनः एकमेवात्मानं गृह्णातीत्यत्र नियामकमस्ति / स्वभाव इति चेत् , तर्हि मुक्तौ निःस्वभावत्वप्रसङ्गः। तदेकार्थताया अपायादिति / न / भोजकादृष्टोपग्रहस्य नियामकत्वात् / यद्धि मनो यच्छरीरं यानीन्द्रियाणि यस्यादृष्टेनाकष्टानि तानि तस्यैवेति नियमः। तदुक्तं प्राक-प्रत्यात्मनियमानुक्तेरिति / एतेन परबुद्ध्यादयो व्याख्याताः॥ ___ तदेवं योग्यानुपलब्धिः परात्मादौ नास्ति, तदितरा तु न बाधिकेति तवापि सम्मतम् / अतः किमधिकृत्य प्रतिबन्धिः। न हि शशशृङ्गमयोग्यानुपलब्ध्या कश्चिनिषेधति / न च प्रकृते योग्यानुपलब्धि कश्चिन्मन्यते / अथायमाशयः। अयोग्य- . बोधनी। इति / सर्वेषां मनसां सर्वात्मनः प्रति साधारणत्वादिति / साधारण्यमेवाह-न हि इति / न टेकस्यात्मनः सर्वदैकमेव मन इत्यत्र नियमहेतुरस्तीति / नन्वस्ति मनःस्वभाव एव नियामक इत्याहस्वभावः इति / यदि तदेकात्मसंबन्धित्वमस्य स्वभावात्तहिं मुक्तात्मनां मनःसम्बन्धाभावात् स्वभावहानिः स्यादित्याह-मुक्तौ इति। सिद्धान्ती नियमहेतुमाह-न इति / यस्यात्मनो यद्भोजकमदृष्टमसाधारणं तेनोपनीतं मनस्तस्यैव ज्ञानहेतुर्नान्यस्य शरीरादीनामप्यसाधारणादृष्टाकृष्टत्वमेवासाधारण्ये हेतुः, व्युत्पादितं चैतदन्यत्रेति / एतेन मनसोऽसाधारण्येन परात्मवत्परदुःखादयोऽप्यप्रत्यक्षा इति व्याख्याता इत्याह-एतेन इति / तदेवं “योग्यादृष्टिः कुतोऽयोग्ये” इत्येतद् व्याख्यायोपसंहरति तदेवम् इति / द्वितीय पादं व्याचष्टे-तदितरा इति / तृतीयं व्याचष्टे न हि इति / किन्तु योग्यानुपलब्ध्येति / न च प्रकृते परमात्मनीश्वरे योग्यानुपलब्धिरस्तीत्याह-न च इति / तस्मान्न प्रतिबन्धिरिति पराशयमाशङ्कते-अथ इति / यद्ययोग्यस्य शशशृङ्गस्यानुपलब्धिर्न बाधिका स्यात् ततो बाधकामाव प्रकाशः। स्वाभाविक एव सम्बन्धो, यतो मुक्तावप्यात्मनो नित्यनिरतिशयानन्दसन्दोहाभिव्यक्तिः / एकास्ममात्रज्ञानजनकत्वं मनसः स्वभाव इत्याह / स्वभाव इतीति / एकस्यात्मन एकमेव मन इति स्वभावः, एकं मन एकमेवात्मानं गृह्णातीति वा, द्वयमपि जीवन्मुक्तौ नास्ति, तत्र कायव्यूहे बहुतरमेनःस्वीकारायोगिनामप्यात्मसाक्षात्कारजननादित्याह / मुक्ताविति / जीवन्मुक्तौ / यदीयादृष्टाकृष्टं यन्मनस्तत्तस्यैव ग्राहकं, योगिजामपि तत एव तदीयत्वं तस्य / अदृष्टस्यापि तदीयत्वं तदीयमनोनिष्पन्नत्वेन, बीजाङ्कुरवच नानवस्थादोष इत्याह / भोजकेति / यथा परात्मनि परमनसो न साक्षात्कारजनकत्वं तथा परबुद्धयादावपि, तुल्यत्वादित्याह / एतेनेति / . ___ यत्र प्रतिबन्धिः स्यात् तदुभयमपि नेष्यते इत्याह / न हीति / न हि तेन ईश्वरसाधने किश्चिद् प्रकाशिका। तेषां तथा नियम एवेति भावः / एकात्ममात्रेति / नियामकान्तराभावेऽपि स्वभाव एव नियामक इति भावः / एकस्यात्मन इति / एकमेव मन एकत्रात्मनि ज्ञानादिजनकम् , एकं मन एकात्मगोचरमेव ज्ञानं जनयतीति वा विकल्पार्थः, निर्वाणमुक्तौ ज्ञानजनकत्वमसम्भवीति व्याचष्टे / जीवन्मुक्ताविति / वस्तुतो मुक्ताविति मूलं निर्वाणाभिप्रायकमेव तथा च स्वभावो वस्तूनां यावद्दव्यभावीति एकात्मप्राहकत्वरूपस्वभावहानिर्निर्वाणदशायां स्यादिति मूलार्थ इति प्रतिभाति / तस्यैवेति / तत्रैवात्मनि ज्ञानजनकमित्यर्थः / देवदत्तमनसा समस्तात्मसाक्षात्कारविरहेण यथाश्रुतस्थासङ्गतेः / ननु प्रत्यक्षं यो मकरन्दः। एकात्ममात्रेति / तथा च नियामकान्तराभावेऽपि स्वभाव एव नियामक इति भावः / अयोग्यस्यैव