________________ 324 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलो [1 कारिकाव्याख्यायां विषयस्मरणेन स्वप्नविभ्रमाणामुत्पत्तेः। उद्बोध एव कथमिति चेत् / मन्दतरतमादिन्यायेन बाह्यानामेव शब्दादीनामुपलम्भाद् , अन्ततः 'शरीरस्यैवोष्मादेः प्रतिपत्तः, यदा च मनस्त्वचमपि परिहृत्य पुरीतति वर्तते, तदा सुषुप्तिः। स्यादेतत् / परात्मा तु कथं परस्यायोग्यः। न हि साक्षात्कारिज्ञानविषयतामेवायं न प्राप्नोति / स्वयमष्यदर्शनप्रसङ्गात् / नापि ग्रहीतुरेवायमपराधः / तस्यापि हि ज्ञानसमवायिकारणतयैव तद्योग्यता / नापि करणस्य। साधारणत्वात् / न ह्या बोधनी। व्याप्रियमाणेन्द्रियसंयोगाभावात् ज्ञानोत्पत्तिरित्याह-स्वप्न इति / तत्तद्विषयेन्द्रियव्यापाराभावेऽपि पूर्वानुभवजनितसंस्कारोबोधप्रभाविततत्तद्विषयस्मरणसहकृतं मनः स्वप्नभ्रमानुत्पादयतीत्याह-तत्तत् इति / तदानीं बाह्यविषयानुपलम्भे संस्कारोबोध एब कुत इत्याह-तदुद्बोधः इति। मन्द इति / तदापि बाह्येन्द्रियाणां मन्दतरतमादिभावेन व्यापारानुवृत्तेः शब्दायुपलम्भातदनुपलम्भेऽप्यन्ततो गत्वा शरीरोष्मादेस्त्वगिन्द्रियेणोपलम्भासंभवात् संस्कारोबोधोपपत्तिरित्याह-अन्त इति / यदा तु मनस्त्वगिन्द्रियेणाप्यसंयुक्तं पुरीतति, तदा स्वप्नस्याप्यभावात् सुषुप्तिरेव स्यादित्याह-यदा तु इति। एवं तावयोग्यस्यापि स्वात्मनोऽनुपलब्धिकारणयुक्तम् / इदानीं तु कुतस्त्वयोग्यः परमात्मेत्यत्र शकते-स्यादेतदिति / न कथञ्चिदयोग्य इत्यर्थः / न तावत्स्वरूपयोग्यता नास्तीत्याह-न हि इति / अयं परमात्मा, स्वयं स्वेन परमात्मनापीति। नच प्रमातृत्वरूपसहकारियोग्यता नास्तीत्याहनापि इति / तद्योग्यता= गृहीतत्वयोग्यतेति / न च करणरूपसहकारियोग्यताविरह इत्याहनापि इति / न चास्ति एकाकीयस्य मनसः परमात्मानं प्रत्ययोग्यत्यतेत्याशङ्कयाह-साधारणत्वात् रोबोधो न स्यादित्याह / उद्बोध एवेति / न तदेवोद्बोधक, किं त्वदृष्टादिकमपि यथासम्भवमित्याह / मन्देति / मन्दत्वं = गत्वादिय्याप्यजातिः / ऊष्मादेरिति / अनुद्भूतरूपोद्भूतस्पर्शतेजसः स्पर्शादेरित्यर्थः / स्वापमुत्वा सुषुप्तिमाह / यदा चेति / आत्मनो जिरिन्द्रियप्रदेशः = पुरीतत् / किञ्चिन्मनः कञ्चिदेवात्मानं गृह्णातीत्यपि नास्तीत्याह / नापीति / एकस्यापि मनसोऽनेकात्मप्राहकत्वादित्यर्थः / न हीति / नैयायिकमत इति शेषः। भट्टानां तु ज्ञानार्थयोरिवात्ममनसोरपि न तदेवेति। नसदृशदर्शनमेवेत्यर्थ / अदृष्टादिकमिति / आदिपदेन शब्दादिज्ञानसंग्रहः / मन्दत्वं तारधीनिरूप्यमिति कथं ताराग्रहे मन्दत्वविशिष्टग्रह इत्यत आह मन्दत्वमिति / तथाच जातेन सावधित्वमपितु तन्निष्टधर्मस्येति भावः / पद्यपि बाह्यानामेव शब्दाद्रीनामुपलम्भादिति मूलानुरोधेनादिपदग्राह्यः प्रकाशे शब्दोपलम्भ एव वाच्यः स च न मानसो बहिरर्थे मनसोऽस्वातन्त्र्यात, नापि श्रौत्रः मनसस्तदा स्वप्नवहननाडीप्रविष्टतया श्रोत्रसंयोगाभावात् / तथापि स्वप्नवहननाड्याः शरीरव्यापकतया श्रोत्रावच्छिन्नदेशेऽपि सत्वेन स्वप्नकाले श्रोत्रमनःसंयोगो न विरुद्ध इत्यत्र तात्पर्यम् / यदि च नैवं तदा तत एवास्वरसादन्ततः शारीरस्यैवोष्मादेरिति मूलं स्वप्नकाले च शरीरमनःसंयोगस्यावश्यकतया त्वङ्मक संयोगोऽपि न विरुद्ध इति तस्याशयः। ऊष्मणोऽप्रत्यक्षतया ऊष्मादेरित्यत्रातद्गुणसंविज्ञानबहुव्रीहिणा स्पर्शादिकमेवोक्तमित्याह / अनुभूतरूपेत्यादि / भट्टानामिति / तथा च मकरन्दः। न तदेवेति / न सदृशदर्शनमेवेत्यर्थः / अदृष्टादिकमपीति / अपि पदात्तद्भिभशब्दायुपलम्भपरिग्रहः / तथा च क चिददृष्टं व चिज ज्ञानान्तरमुद्बोधकमिति भावः। ननुमन्दत्वं तारत्वनिरूप्यमिति तदज्ञाने तदसम्भवीत्यत आह मन्दत्वमिति / जातिज्ञाने च नेतरज्ञानापेक्षेति भावः / ननूष्मा तेजस्तचातीन्द्रियमित्यत आह अनुद्भूतरूपेति / ऊष्मादेरित्यतद्गुणसंविज्ञानबहुब्रीह्याश्रयणादिति भावः / भट्टानामिति / तथा च तेषां तथा नियम एवेत्यर्थः / प्रकाशः। प्रकाशिका।