________________ 322 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [1 कारिकाव्याख्यायां न सत्र संस्कारातिशयाधायकः प्रत्ययः स्यात्। यदि त्वबुभुत्सिते विषये सामग्रीमेव सा निरुन्ध्यात्, घटायोन्मीलितं चतुः पटं नैव दर्शयेत् तस्माद् बुभुत्सापीन्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपज्ज्ञानानुत्पत्ताबुपयुज्यते, न तु स्वरूपतः। विभुनोऽपि मनसो,व्यापारक्रमात् क्रम इति चेन्न। बोधनी। स्वसामग्रथा जायमानः प्रत्ययो बुभुत्सया दृढ़तरसंस्काराधानसमर्थो भवतीति / ज्ञानमात्रोत्पत्तावपि बुभुत्सोपयोगेऽनिष्टमाह-यदि तु इति / यदि बुभुत्सा न कारणं तहिं बुभुत्सिताबुभुत्सितयोरविशेषेण ज्ञानं जायेत / न च मधुरतरसङ्गीतमादरेणाकर्णयतः सन्निहितेष्वपि विषयान्तरेषु युगपदेव ज्ञानोत्पत्तिदृश्यत इत्याशङ्कयाह-तस्मात् इति / यतो ज्ञानोत्पत्तौ बुभुत्सायाः साक्षादनुपयोगस्तस्मात्तत्रापि मनःसंयोगक्रमादेव ज्ञानक्रमस्तत्संयोगक्रम एव बुभुत्साया उपयोग इत्यर्थः / पुनरपि ज्ञानकमवादी शङ्कते-विभुनोऽपि इति / न इति / तस्य व्यापारस्य संयोगरूपत्वे तावन्न क्रमः संभवति विभुत्वान्मनसः, तदतिरेकेण तु कस्प्यमानस्य कर्मत्वेऽपि विभुत्वव्याघातः, गुणत्वेऽपि प्रकाशः। न चाणावपि मनसि रसनसंयुक्त त्वक्संयोगस्यापि सत्त्वाद् रसगुडद्रव्यज्ञानयोगपद्यापत्तिः / रसनसंयोगकाले मनसस्त्वक्संयोगे मानाभावात् / तस्माचाक्षुपज्ञानवतो मैत्रस्य स्वविषयसंबद्धानि त्वगादीनि स्वविषयसाक्षात्कारहेतुसंयोगशून्यानि, तदा स्वविषयसाक्षात्काराजनकत्वात् पटवत् , अन्यथा सामग्रीसत्त्वे युगपज्ज्ञानोत्पादप्रसङ्गः। प्रकाशिका। हकत्वमिति समः समाधिः। तथाप्यणुनैव मनसोपपत्तो नैवं हेतुता गौरवादित्यभिसन्धिः / मिश्रास्तु तादृशबुभुत्सापि न प्रयोजिका, असत्यामपि तस्यामुत्कटसूचीसदिवेधव्यथानुभवेन व्यभिचारादित्याहुः। तच्चिन्त्यम् / शब्देऽपि, सत्यामपि तादृशबुभुत्सायां निकटं आहन्यमानढकादिशब्दस्य तारतम्यस्या बुभुत्सितस्यापि ग्रहेण तस्या व्यभिचारात् / वस्तुतो विभुत्वे मनस आत्मसंयोग एव कारणाभावान स्यादित्येव बाधकम् / न च नित्य एव स संयोगः। संयोगत्वस्यैव लाघवेन द्रव्यजन्यतावच्छेदकत्वादिति दिक् / रसनसंयोगेति / न च त्वङ्मनस्संयोगस्य ज्ञानमात्रजनकत्वादिदमयुक्तमिति वाच्यम् / त्वचस्तथात्वेऽपि त्वङ्मनःसंयोगस्य तथात्वे मानाभावात् / न च सुषुप्त्यनु पपत्तिरेव मानम् / शरीरमनःसंयोगेनैव तदुपपत्तेः / न चैवं “मनसोऽनिन्द्रियप्रत्यासन्नतये"त्यादि मूलविरोध इति वाच्यम् / इन्द्रियपदस्पेन्द्रियाश्रयपरत्वात् / चाक्षुषेति / सामान्यतः साक्षात्कारजनकत्वं स्वरूपासिद्धमत उक्त चाक्षुषज्ञानवत इति। तेन तदानीमित्यनेन चाक्षुषज्ञानकालपरामर्षान्नासिद्धिरिति भावः / विषय सम्बन्धव्यतिरेकमादायार्थान्तरमिति सम्बद्धानीत्यन्तं पक्षविशेषणम् / साध्ये संयोगेति पक्षधर्म मकरन्दः। नन्वेवं वैभवेऽपि रूपादिसकलगोचरबुभुत्साया अहेतुत्वेऽपि तदन्यतमबुभुत्सा तग्राहिका अन्यग्रहप्रतिबन्धिका चास्तामिति तुल्यः समाधिः। न च ताशबुभुत्सायामपि सूचीस दिवेधानुभवेन तादृश्या अपि व्यभिचारानैवमिति बाच्यम् / शब्देऽपि तादृशबुमुत्सायां निकटाहन्यमानढक्काशब्दानुभवेन तुल्यत्वात् / अत्रापि यदि विशेषकल्पनं, तदा तदपि तुल्यमिति / मैवम् / अणना मनसैवोपपत्तौ ताशबुभुत्साहेतुत्वादिकल्पनायामेव गौरवात् / रसनसंयोगकाल इति / न च त्वमनोयोगस्य ज्ञानमात्रहेतुत्वेतदावश्यकमिति वाच्यम् / त्वचस्तथात्वमतेऽपि तत्तन्मनोयोगस्य तथा स्वे मानाभावात् / न च सुषुप्तौ ज्ञानानुत्तत्तिरेव मानं, शरीरमनःसंयोगाभावात्तदुपपत्तेः / चाक्षुषेति। टिप्पणी। नेति वाच्यम् / अणुत्वपक्षेऽल्पतरप्रतिबन्धकत्वस्य कल्पनीयत्वात् / इन्द्रियान्तरजन्यानन्त. ज्ञानस्य मनःसम्बन्धाभावेनैवोपपत्तेः, वैभवे चानन्तप्रतिबन्धकत्वस्यैव कल्पनीयत्वादिति भावः //