________________ तृतीग्रस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् / 321 न होष बुभुत्सायामहिमा यदबुभुत्सिते विषये ज्ञानसामग्यां सत्यामपिन ज्ञानमपितु बोधनी। सामप्रीव्यतिरेकादेव ज्ञानव्यतिरेक इति / कस्तर्हि बुभुत्साया महिमेत्यत्राह-अपि तु इति / प्रकाशः। वा इतरज्ञानप्रतिवन्धिका, किं त्वन्यथा उपयुज्यते इत्याह / न हीति / .....ननु बुभुत्साया अतन्त्रत्वे कथं मनोऽणुत्वपक्षे मन्दोऽपि बुभुत्सितः शब्दो गृह्यते, नान्यः / तन्त्रत्वेऽपि कथं दशभिः पट्यमानासु गाथासु तावद्गोचरबुभुत्सायां प्रणिधाने च सर्वेषामज्ञानमेकज्ञानञ्च / न च श्रोत्रमनःसंयोगविशेषः कार्योंनेयोऽस्ति, स एव किञ्चिच्छब्दग्रहहेतुस्तदन्यग्रहप्रतिबन्धक एवेति वाच्यम् / विभुत्वेऽमीन्द्रियमनःसंयोगविशेषस्य तथात्वे व्यासशोपपत्तेः / अथ प्रत्यक्षानुकूलेन्द्रियमनःसंयोगद्वारा बुभुत्साप्रणिधानयोः प्रत्यक्षहेतुत्वमिति चाक्षुषादिबुभुत्सितग्रहे क्लृप्तत्वात्ताभ्यां श्रोत्रे बुभुत्सितशब्दावच्छेदेन मनःसंयोगः कृत इति स एव गृह्यते, नान्य इति चेन्न! युगपत्यठ्यमानासु विंशतिगाथासु तावद्गोचरवुभुत्साप्रणिधानयोः सत्त्वे तावद्गाथावच्छेदेन मनःसंयोगाद् युगपत्तासामुपलम्भप्रसङ्गात् / प्रत्येकसामग्रीसत्वात् / उच्यते / यद्यपि बुभुत्साप्रणिधाने न शब्दग्रहमात्रे सहकारिणी, न वेतरग्रहप्रतिबन्धके, तथापि नानाशब्दसमवायदशायां यः शब्दग्रहस्तत्र तयोस्तथाभावः / तथैव तेषामन्वयव्यतिरेकनियमात् / प्रकाशिका। किन्न बुभुत्साप्रयुक्त इर्थः / गूढाभिसन्धिः पृच्छति / नन्विति / अभिसन्धिमुद्घाटयति विभुत्वेऽ. पोति / तथापोति / यद्यपि नानेन्द्रियनानाविषयसन्निकर्षकालीनान्यतरबुभुत्साया रूपादिग्रा मकरन्दः। सन्धिः शङ्कते नन्विति / अत एवाभिसन्धिमुद्घाटयति विभुत्वेऽपीति / तथैव तेषामिति / टिप्पणी। दृष्टेऽनेकज्ञानकारणे सम्भृते सहसैवादृष्टविलम्बेन कारणाभावस्य वक्तुमशक्यत्वात् , कारणधर्मत्वे चास्थिते प्रामाणिकतन्निर्वाहाय, तत्कल्पनस्य सम्भवादिति भावः / प्रणिधाने चेति / संयोगविशेषानुकूलो मनःकर्मविशेषः प्रणिधानम् / श्रोत्रमनःसंयोगविशेष इति / विशेषश्च कालदेशेन्द्रियविषयादिसम्बन्धः / स एव गृह्यते नान्य इति / स एवेत्येकवचनं बुभुत्सितसाकल्यव्यवच्छेदार्थम् / तथा च बुभुत्सितेत्यजन्तरं कियदिति लभ्यते एवञ्च बुभुत्साया अनेकशब्दगोचरत्वेऽपि स्वातन्त्र्येण तस्या अहेतुत्वान्मनसोऽणुत्वाद् यद्यच्छब्दावच्छेदेन श्रोत्रमनःसंयोगस्तेषामेव ग्रहणं न बुभुत्सितानां सर्वेषां नाप्यबुभुत्सितानामिति भवति प्रकटित आशयः। एतेन तन्त्रत्वेऽपीत्यन्तेन ग्रन्थेन यः कृतो निरासः स एव न युगपदित्यादावपि प्रतीयते इति कथमथेत्यादिशोन्मेष इति निरस्तम् / कर्णशष्कुल्यवच्छिन्नमाकाशं श्रोत्रं न तत्सावयवं यत्र तत्तदवयरूपावच्छेदकभेदेन विद्यमानशब्दस्यागुमनःसंयोगं प्रत्यवच्छेदकत्वे विशेषः स्यादिति / श्रोत्रशब्देषु विद्यमानेषु तत्र च मनःसंयोगे तत्प्रत्यवच्छेदकत्वतदभावौ तेषु केषुचिद् व्यवस्थितौ न भवत एवेति न प्रसङ्गस्य वारणम् / न च कर्णशष्कुल्यवयवस्य श्रोत्रावच्छेदकत्वम् / न चाकाशे विद्यमानेषु शब्देषु तत्संबन्धानामवयवानां कस्यचिदवच्छेदकत्वं कस्यचिन्नेत्यपि वक्तुं शक्यमिति भावः // शब्दसमवायदशायामिति / ननु शब्दसमवायस्याविशेषे बुभुत्सायाश्चाविशेषे कस्यचिदेव शब्दस्य प्रहः, कस्यचिनेत्यत्रैव मानाभावात् कथमेतत्सङ्गच्छत इति चेन्न / कस्यचिदेव शब्दमहणेऽनुभवसिद्ध हि सर्वेषां प्रहणप्रसङ्गरूपो दोषः, अन्यथेष्टापत्तेः, तदर्थं कस्यचिद् विशेषोऽनुभवगोचरोऽपि शब्दे तद्वारा बुभुत्सायाश्च करप्यः, स चानेकभवीयानुस्यूतरागप्रभववासनाविशेषविषयत्वादिययप्यस्ति सम्भावितः, तथापि कार्यकारणत्वयोर्लाघवेन कार्यकारणवृत्तितद्व्यक्तित्वयोरेवावच्छेदकत्वं द्वयक्तीतरप्रतिबन्धकत्वे च कारणतावच्छेदकतव्यक्तित्वस्य चावच्छेदकत्वमिति कल्प्यते / न चैवम्मनोवैभवेऽप्येवमेवास्तु कल्प 41 न्या० कु०