________________ 220 व्याख्यात्रयोपेतमकाशोधनोयुते न्यायकुसुमाञ्जलो [ 1 कारिकाव्याख्यावां भवत्येष समूहालम्बनमेकं ज्ञानमिति चेन्न / एकेन्द्रियग्राह्येष्विव नानेन्द्रियग्राह्येष्वपि प्रसङ्गात् / तेष्वपि भवत्येवेति चेन्न / व्यासङ्गकाले ज्ञानक्रमेण विवादविषये क्रमानुमानात् / बुभुत्साविशेषेण व्यासने क्रियाक्रम इति चेन्मैवम् / वोधनी। भवन्ती गीर्वाणशापेनापि नापयाति, तच्चानिष्टमिति / उक्तमर्थ यथावदजानानश्चोदयति-भवत्येव इति / इष्यत एतत्सेनावनादिष्वनेकालम्बनमेकं ज्ञानमतो नालिष्टमिति स्वाभिसन्धिमुद्घाटयन्नाह-न इति। अनेकेन्द्रियग्राथगन्धरसादिविषयकज्ञानोत्पत्तिराश्यते, तचानिष्टमिति / अत्र सांख्यः शक्ते-तेष्वपि इति / दीर्घशष्कु नी भक्षयतः पुरुषस्य तद्गतगन्धरसस्पर्शशब्दादिविषवमेकमत्तयत एव ज्ञानं ततो नेदमप्यनिष्टमिति / न तत्राप्यनेकविषयमेकं ज्ञानमुत्पयते भिन्नानां क्रमवंतामेव ज्ञानानां कालभेदः सूक्ष्मत्वान्नोपलभ्यत इत्येवाङ्गीकर्तव्यमिति। कुत इत्यत्राह-व्यासङ्ग इति / आत्मेन्द्रियविषयसमवधाने सत्यपि यदा कस्मिंश्चिदेव विषये ज्ञानमुत्पद्यते न सर्वेषु तस्मिन्व्यासनकाले ज्ञानक्रमदर्शनादन्यदापि मजसः क्रमकरणस्वभावोऽनुमीयत इति तत्रान्यथासिद्धिमाशङ्कते बुभुत्सा-इति / व्यासनकाले ज्ञानक्रमो बुभुत्सातत्क्रमप्रयुक्तो न तु मनसः क्रमकरणस्वभावप्रयुक्त इति / मैवम्-इनि / न हि बुभुत्साया एष महिमाऽस्ति यत्स्वव्यतिरेके ज्ञानव्यतिरेक इति, किन्तु प्रकाशः। स्यैव ज्ञानस्य सामग्रीसत्त्वेनोत्पत्यापत्तेर्वा / न च तत्र फलबलात्तथा / अत्र फलाभावे हेतोः कल्प्यत्वापत्तेः / अन्योन्यप्रतिबन्धस्य तत्त्वे वाऽज्ञानमेव स्यान्न त्वेकस्य ज्ञानमित्युक्तम् / वस्तुतः पञ्चसु यदेकं करणं ज्ञानं जनयति नापराणि, तत्र नियामकमास्थयम् / अन्यथा ज्ञानजनने तेषां कलहं कः समादध्यादिति भावः। आशयमविद्वानाह / भवत्येवेति / एकैकेन्द्रियेण स्वस्वविषये समूहालम्बनमेकैकं जन्यत एवेत्यर्थः / श्राशयमुद्घाटयति / एकेति / तेष्वपीति / दीर्घा शष्कुली भक्षयतो गन्धादिज्ञानमेकमनेकेन्द्रियजन्यमुत्पद्यते इत्यर्थः / व्यासङ्गति / एकेन्द्रियासक्तमनसोऽणुना मनसा युगपदनेकेन्द्रियासन्निकर्षातत्र ज्ञानक्रमस्य सर्वसिद्धत्वात् तदृष्टान्तेन तत्रापि गन्धादिज्ञानोत्सादः क्रमेण भवतीत्यनुमीयते / कालसौक्ष्म्याच क्रमो न लक्ष्यत इत्यर्थः / ननु दृष्टान्ते नानेकेन्द्रियमनःसंयोगाभावः क्रमप्रयोजकः, किन्तु बुभुत्साप्रयुक्त इत्याह / बुभुत्सेति / बुभुस्सा न रूपादिग्रहहेतुर्न प्रकाशिका। पूरणीयम् / अन्यथा कायव्यूहस्थले व्यभिचारात् / न चैकत्रेत्यधिकम् / आलोकादौ कारणे व्यभिचारवारकत्वात् / ननु रूपादिषु मध्ये रूपमात्रव्यञ्जकत्वं हेतुस्तैजसत्त्वसाधने चाक्षुष उक्त इति रूपान्यसाक्षात्कारे चक्षुःस्वरूपायोग्यं ( संयोगजन्य ) कथं तं जनयेदत आह / वस्तुत इति / नचादृष्टमेवात्र नियामक गोगोत्वोभयविषयकनिर्विकल्पकानन्तरं गोविशेष्यकज्ञान इवेति वाच्यम् / अणना मनसा दृष्टेनैवोपपत्तावदृष्टकल्पनानवकाशात् , अन्यथा मजस एवासिद्धेः। अणुना मनसेति। यद्यपि मनोऽणुत्व एव विवादः, तथापि व्यासक्तमनसो ज्ञानक्रमस्य सर्वसिद्धत्वादणुत्वं तदुपपादकतया मनसः कल्पनीयमिति भावः / ननु दृष्टान्त इति / आलोकेन्द्रियमनः संयोगस्याभावो ज्ञानजनकत्वाभावः, मकरन्दः। .. ननु रूपादिषु मध्ये रूपादिमात्रग्राहकत्वेनैव चक्षुरादिसिद्धेस्तदन्यगुणग्रहे तदसामर्थ्याच्चित्रज्ञानमसम्भवीत्यरुचेराह वस्तुत इति / ननु गोगोत्वनिचिकल्पकानन्तरमन्यतरविशेष्यकज्ञानोत्पत्ताविवादृष्टमेवात्र नियामकमस्तु, यथा च तत्र नोभयविशेष्यकसमूहालम्बनं तथाऽत्र न युगपनज्ञानमिति चेत् / न, अणुना मनसा दृष्टेनैवोपपत्तावदृष्टकल्पनाऽनवकाशात् / अन्यथा स एव न कल्प्येतेति भावः / सर्वसिद्धत्वादिति / यद्यपि युगपदनेकेन्द्रियसन्निकर्षो न सर्वसिद्धः, तथापि ज्ञानक्रमस्य तत्र सर्वसिद्धत्वात् अत्रापि क्रम इत्यत्रैव तात्पर्गम् / तटस्थः शहते नन्विति / मद्रा, गूढाभि