________________ तृतीयस्तवके] अनुपलब्धेोधकरवनिराकरणम् / 316 करणधर्मत्वेन क्रियाक्रमः सङ्गच्छते। अकल्पिते तु तस्मिन्नायं न्यायः। प्रतिपत्तुरकरणत्वाश्चक्षुरादीनामनेकत्वादिति चेत् / नन्वेवमपि युगपज्ज्ञानानि मा भूवन् , युगपज्ज्ञानं तु केन वार्यते / बोधनी। करणानां च क्रमेण क्रियाकरणस्वभावत्वात् ज्ञानक्रम उपपद्यत इति / ननु कल्पितेऽपि मनसि यदि करणधर्मत्वादेव ज्ञानक्रमः तर्हि क्लुप्तस्यैवात्मनो बायेन्द्रियाणां चानेन न्यायेन क्रियाक्रमोऽस्तु किं मनःकल्पनयेत्यत्राह-अकल्पिते तु इति / कुत इत्यत आह–प्रतिपत्तुः इति / करणधर्मोऽयं न तु कर्तृधर्मः कर्ता चात्मा करणत्वेऽपि चक्षुरादीनामनेकत्वादेकस्य चैकंकज्ञानोत्पादनाविरोधात् पञ्चभिरपीन्द्रिययुगपच्च शानान्युत्पायेरन् / कल्पिते तु मनसि तस्यैकत्वात्करणत्वाच्च न युगपज्ज्ञानानुत्पत्तिरुपपन्नेति निराकरोति-नन्वेवम् इति / मा नाम भूत् पश्चानां ज्ञानानां युगपदुत्पत्तिस्तथापि गन्धादिसंयुक्तघ्राणादिपञ्चेन्द्रियव्यापिना मनसा गन्धादिपञ्चकविषयकशानोत्पत्ति प्रकाशः। जनयति, न त्वनेकाम् / एकत्रेत्यादिविशेषणात् कुठाराग्निशब्देषु युगपदनेकच्छिदारूपादिनानादिगवच्छिन्नानेकशब्दजनकेषु न व्यभिचार इति करणधर्मत्वेन क्रियाक्रमः स्यादित्यर्थः / न च तथापि चक्षुराद्यवच्छेदेन शब्दवद्भिन्नदेशां परमाणाविव विजातीयामग्निसंयोगवदनेकां क्रियां कुर्यादेवेति वाच्यम् / ज्ञानकरणमेकत्रात्मनि एकदैकमेव ज्ञानं जनयति / समूहालम्बनकरणवत् / कथमन्यथा सामग्रीसत्वे समूहालम्बनमेकज्ञानम् / नन्वन्यज्ञानसामग्रीसत्त्वे कार्यावश्यम्भावः, तदसत्त्व क करणधमत्वेन / तस्य सहकायेन्तरमात्रपर्यवसायित्वात् / न / ज्ञानकरणस्यकत्रेकदेकज्ञानमात्रजनकतया तत्र नानाज्ञानकारणाभावेनैव सामग्यसत्वात् / प्रतिपत्तरिति / तस्यानेककरणोपेतस्यानेककार्यकर्तृत्वादिति भावः / चक्षुरादीनामिति / एषां योगपद्यात् पुनः स एव ज्ञानयोगपद्यप्रसङ्गः / करणधर्मत्वेनापि प्रत्येकमविशेषादिति भावः ! नन्वेवमिति / एवमप्येकदा बहूनां ज्ञानानामनुत्पत्तावप्येकदा नानेन्द्रियकरणकं रूपादिज्ञानमेकं स्यादेव, एकेन्द्रियजन्यसमूहालम्बनज्ञानवदित्यर्थः / न च चाक्षुषत्वादिजातिसंकरापत्त कं ज्ञानमिति वाच्यम् / तथा सति फलविरोधेनकस्यापि ज्ञानस्याजननापत्तेः, चित्ररूपवच्चाक्षुषादिविजातीय प्रकाशिका। संयोगजनके श्येनकमणि व्यभिचारवारकत्वात् / एकत्वं चाधिकरणस्य सर्वस्य विवक्षितमन्यथोक्तव्यभिचारावारणात् / नचावच्छेदक एव यावत्वविवक्षास्त्वीति वाच्यम् / प्रकृतव्याप्तौ वैयर्थ्याभावात् / नानेति। अत्र नानादिगवच्छिन्नेति पाठो युज्यते अन्यथानन्वयात्। ज्ञानकरणमिति / अत्राप्येकमिति मकरन्दः / प्रत्यक्षप्रकाशे द्रष्टव्यम् / नानेति / अत्र नानादिगवच्छिन्नेति पाठो युज्यते, अन्यथानन्वयात् / टिप्पणी। यदि उपलब्धिक्रियासकरणकत्वानुमानमुपजीव्यमङ्गीकरणीयं तदापि द्रव्यत्वरूपहेतुघटकसिद्धयर्थत्वेनेन्द्रियजन्यत्वानुमानमप्युपजीव्यमित्येतदप्युपजीव्यत्वेन तत्तुल्यमित्येतद्वाधोऽपि दोष इति भावः / कुठाराग्निशब्देष्विति / पतिघृतानेकपत्रेष्वेकेन कुठारेण युगपच्छिदाजननाद् व्यभिचारवारणाय एकत्रापि कालभेदेनानेकच्छिदोत्पत्या व्यभिचारवारणाय एकदेति / अमिसंयोगेनैकदैकम्मिणि विजातीयरूपरसादिजननाद् व्यभिचारवारणायैकजातीयामिति / शब्दे व्यभिचारवाणाय एकावच्छेदेनेति विवेकः / शानकरणमेकत्रेति / कायव्यूहस्थले युगपदेकत्रात्मनि नानाज्ञानकल्पनाद् व्यभिचारः स्यादित्येकमिति पूरणीयम् / ज्ञानकारणस्यानेकस्यानेकात्मन्येकदानेकज्ञानजनकत्वाद् व्यभिचारवारणायकत्रेति / धानक म्यकत्रकदेति / अदृष्टस्य दृष्टमात्रोपहारकत्वाद्