________________ 318 व्याख्यानयोपेतप्रकाराबोधनीयुते न्यायकुसुमाजलो [1 कारिकाव्याख्याया न्द्रियसहकारितया तदनुमानं, ततः सुतरां प्रागुक्तदोषः। यदि च मनसो वैभवेप्यदृष्टवशात् क्रम उपपाद्येत, तदा मनसोऽसिद्धराश्रयासिद्धिरेव वैभवहेतूनामिति / अथ यत्रादृष्टस्य दृष्टकारणोपहारेणोपयोगः, तत्र तत्पूर्णतायां कार्यमुत्पद्यत एव / अन्यथा अन्त्यतन्तुसंयोगेभ्योऽपि कदाचित् पटो न जायेत , जातोऽपि वा कदाचिन्निगुणः स्यात् , बलवता कुलालेन दृढदण्डनुन्नमपि चक्रं न भ्राम्येत / यत्र तु दृष्टानुपहारेणादृष्टव्यापारस्तत्र तदैगुण्यात् कायोनुदयः। यथा परमाणुकर्मणः / तदिहापि यदि विषयेन्द्रियात्मनां समवधानमेव ज्ञानहेतुः, तदा तत्सद्भावे सदेव कार्य स्यात् , न ह्येतदतिरिक्तमष्यदृष्टस्योपहरणीयमस्ति, न च सदैव ज्ञानोदयः, ततोऽतिरिक्तमपेक्षितव्यम् / तच्च यद्यपि सर्वाण्येवेन्द्रियाणि व्याप्नोति, तथापि बोधनी। ज्ञानकमार्थ कल्प्यमानस्याणुत्वेनैव सिद्धिरिति। न च विभुत्वेऽपि मनसोऽदृष्टस्यापि ज्ञानोत्पत्तिहेतुत्वात् तत्क्रमवशादेव ज्ञानक्रम उपपद्यत इति वाच्यम् , युगपज्ज्ञानानुत्पत्तेरन्यथासिद्धत्वेन प्रमाणाभावात् मनस एवासिद्धिप्रसङ्ग इत्याह-यदि च इति / अत्र शङ्कते-अथेत्यादिना चेदित्यन्तेन / द्वधा ह्यदृष्टस्य कारणत्वं दृष्टकारणोपहारमात्रेण, तदनपेक्षं स्वयमेव चेति / तत्र पूर्वत्र दृष्टकारणसाकल्ये कार्यमुत्पयत एव न पुनस्तस्मिन्सत्येवादृष्टवकल्यादेव कार्यानुत्पत्तिरिति / अन्यथा द्रव्यगुणकर्मणां सत्स्वेव दृष्कारणेषु कदाचिददृष्टवैकल्यादनुत्पादः स्यात् न चैतदस्ति / यत्र तु साक्षाददृष्टस्यैव कारणत्वं यथा परमाणोराद्यकर्मणि-तदुक्तम्"अग्नेरूद्धज्वलनं वायोस्तिर्यपवनमणुमनसोश्वाय कर्मेत्यदृष्टकारितानि" इति (वै. सू . 5. 2. 23 ) तत्रादृष्टवैकल्यादेव कार्यानुत्पत्तिरिति / अस्त्वेवं, प्रकृते किमायातमित्यत आत-तदिहापि इति / विषयेन्द्रियात्मनां साहित्येऽपि सुष्वापादौ ज्ञानानुदयात्तदतिरिक्तं किमप्यदृष्टोपहरणीयं दृष्टं कारणमस्ति तन्मन इति मनःसिद्धर्नाश्रयासिद्धिरिति / तथापि तस्य विभुत्वाङ्गीकारे युगपजज्ञानोत्पत्तिप्रसङ्गस्तदवस्थ इत्यत्राह—तच्च इति / विभुत्वेऽपि तस्य करणत्वेन कल्प्यमानत्वात् , प्रकाशः। सुखाद्युपलब्धीनामिन्द्रियजत्वानुमाने मनोऽणुत्वानुल्लेखेऽपि अनुपपत्तिवशादणुत्वं विषय इति धर्मिग्राहकतुल्यतया तद्बाध उक्तः / प्रागुक्तेति / धर्मिग्राहकमानबाध इत्यर्थः / युगपदनेकविषयसम्बद्धनानेन्द्रियसंयोगे सति ज्ञानक्रमानुपपत्तरणुत्वेनैव तदुपपत्तेरिति भावः / यदि चादृष्टवशानोक्तदोषावकाशस्तदा तत एव ज्ञानक्रमोऽपि स्यादिति मनःसिद्धौ न मानमस्तीत्याश्रयासिद्धा हेतव इत्याह / यदि चेति / तथापीति / एकं करणमेकत्रकदा एकावच्छेदेनकजातीयामेकामेव क्रियां प्रकाशिका। एकं करणमिति / एकेनापि कालेनानेकक्रियोत्पादात् , एकावच्छेदेनेति / करणमिति विशेषणं करणत्वञ्चासाधारणकारणत्वम् / एकत्रेत्यादीति / एकत्रकदापदयोः कुठार एव व्यभिचारवारकत्वम् / एकेनैव कुठारेण पतिधृतनानापत्रच्छिदाजननात् कालभेदेनेकत्रव नानाच्छिंदाजननाच / एकदेति पाठो यत्र नास्ति तत्रापि तत्पूरणीयम् / अन्यथोक्तव्यभिचारापत्तेः। नानारूपादिजनके - निसंयोगे व्यभिचारवारणाय एकजातीयामिति। नानादिगवच्छिन्ननानाशब्दजनके शब्दे व्यभिचारवारणाय एकावच्छेदेनेति / नचैकावच्छेदेनेति दत्त एकत्रेति व्यर्थम् / चरणावच्छेदेन शाखावृक्ष मकरन्दः। ल्पनमहं बहिरिन्द्रियत्वञ्चाप्रयोजक,तथाप्यापातत इदं,व्यासङ्गानुपपत्तावेव तात्पर्यम् / एकं करणमिति टिप्पणी। पादाद्यवच्छिन्नत्वे नियमक्षतेरभावानियामकाभावादात्तिः, तथा तवाप्यणुदेशतापत्तिरित्यपि कथंचिद् व्याख्या सम्भवतीति / धमिग्राहकतुल्यतयेति / मनोवैभवानुमानेन मनोरूपधर्मिप्रसिद्धयर्थ