________________ तृतीयस्तवके ] अनुपालन्धेोधकत्वनिराकरणम् / 317 दवयवादिप्रमाणुपर्यन्तोपाधिकल्पनायां कल्पनागौरवप्रसङ्गो नियमानुपपत्तिश्चेति ततोऽन्यदेवकं सूक्ष्ममुपाथित्वेनातीन्द्रियं कल्पनीयम् / तथा च तस्यैवेन्द्रियत्वे स्वाभाविकेऽधिककल्पनायां प्रमाणाभावाद्धर्मिग्राहकप्रमाणबाथः / अथ ज्ञानक्रमेणे बोधनी। सुखायुत्पत्त्युपलम्भयोः प्रसङ्गादित्याह-नियमानुपपत्तिश्च इति / यतो नियतस्य शरीरावयवस्योपाधित्वे सुखादीनामपि नियतत्वप्रतीतिविरोधः, शरीरमात्रस्योपाधित्वे च व्याप्यवृत्तित्वप्रतीतिविरोधः, शरीरतदययवानामनियमेनोपाधित्वे कल्पनागौरवप्रसङ्गो नियमानुपपत्तिश्चेत्येते दोषाः प्रादुष्युः तस्मादेवमङ्गीकार्यमित्याह-ततोऽन्यत् इति / आशुतरसंचारीत्युपसंख्यानं कार्य, तेल शिरःपादयोर्युगपदुपलम्भाभिमानः सिध्यतीति / अस्तु तादृश उपाधिः, ततः किमित्यत आह-तथा च इति / तस्यैवोपाधित्वेनाङ्गीकृतस्य शरीरसंयुक्तत्वे सति साक्षात्प्रतिसाधनत्वेनेन्द्रियलक्षणलक्षितत्वादिन्द्रियत्वे स्वभावतः सिद्धे तर्देवास्तु मन इति / तथा चाणुत्वेनैव मनःसिद्धर्धर्मिग्राहकप्रमाणबाधो वैभवहेतूनामिति / तदेवं सुखादिसाक्षात्कारसाधनत्वेन मन इन्द्रियकल्पनायां धर्मिग्राहकप्रमाणबाध उक्तः / यदा बाह्येन्द्रियेषु युगपद्विषयः संयुक्तेष्वपि यत्संनिधानक्रमाज ज्ञानोत्पत्तिक्रमः प्रक्रमते, तेनेन्द्रियसहकारिणा केनचिद्भवितव्यमिति युगपज्ज्ञानानुत्पत्तिलिङ्गेन मनोऽनुमीयते, तदा स्फुट एव धर्मिग्राहकप्रमाणबाध इत्याह-अथ इति / व्यापकत्वे हि तस्य युगपत्सर्वेन्द्रियैः युगपज्ञानोदयप्रसङ्गात् , प्रकाशः। चाणुमनः संयोगोऽपि स्वावच्छिन्नेऽधिकदेशे च जनयेत् , नियामकाभावात् / अन्त्ये तवापि सुखादेरणुदेशतापत्तिः, मनोवैभवेऽपि तदविरोधश्च / अथ निमित्तचन्दनायनुरोधेन सुखादौ न्यूनाधिकदेशता निमित्तवायुसंयोगादिव शब्दे; न त्वसमवाय्यनुरोधात् / तर्हि मनोवैभवेऽपि तथाऽस्तु / न च विभुकार्यासमवायिकारणं स्वावच्छिन्ने करोत्येव, भेर्याकाशसंयोग इव शब्दमिति चन्दनायनवच्छिनेऽपि सुखादि स्यादिति वाच्यम् / तद्देशावच्छिन्नचन्दनसुखे हि तद्देशचन्दनसापेक्षोऽसमवायीति कथं तन्निरपेक्षस्तत् कुर्यात् / तथा च शरीरमात्रस्योपाधित्वेऽपि निमित्तवशात् सुखादेर्नियतदेशत्वं स्यात् / ___ अत्राहुः। विभुकार्यविशेषगुणस्य न स्वासमवायिकारणन्यूनदेशत्वमिति नियमः / मनोवैभवे च शरीरंव्याप्यैव मनःसंयोगोऽसमवायीति तदवच्छेदं व्याप्यैव सुखादेरुत्पत्त्यापत्तिः। ततः पादावच्छिन्न सुखं यदि शरीरावच्छिन्नासमवायिकारणकं स्यात् , शरीरव्यापकं स्यात् / निमित्तकारणस्य चाधिकदेशत्वमात्रप्रयोजकत्वात् / अत एव निदाघतप्तस्य अम्भसि मनस्य सर्वाङ्गीणसुखधीरुपपन्नेति भावः / नियमेति / सर्वेषामेव शरीरादीनामुपाधित्वे कुतो नियतदेशसुखाद्युत्पत्तिरित्यर्थः / धर्मिग्राहकेति। टिप्पणी। ...... भवत्येवेति कार्य्यस्य स्वानवच्छिन्नता व्यावृत्तिः। द्वितीये स्वव्याप्ययत्किञ्चिद्देशासम्बन्धव्यावृत्या स्वावच्छिन्नसकलदेशसम्बन्धः, तृतीये चातिरिक्तदेशावच्छिन्नव्यावृत्तिः प्रतीयते, एवञ्च नियमस्थाने यावता विना नियमस्यानुपपत्तिर्भवेत् , लावदेव कल्पितं भवति, तेनैव चान्यप्रसक्तयप्रसक्ती व्यवस्थाप्यते / तथा च सति प्रथमे पक्षे हस्तादिशरीरावयवावच्छिन्नकार्य्यस्य शरीरानवच्छिन्नत्वविरहेण नियमस्य सकलशरीरावयवावच्छिन्नत्वं विनानुपपत्तेरभावात् , तथोषपादकस्याकल्पनाद् हस्तावच्छिन्नस्य पादायधिकदेशावच्छिन्नत्वे को ममापि पक्षे प्रसञ्जक इति पूर्वपक्षिणोऽभिप्रायः / द्वितीये च यथा मम पक्षे हस्तावच्छिन्नस्य पादानवच्छिन्नत्वे नियमभङ्गः स्यादित्युपपादकमहिम्ना सकलावयवावच्छिन्नत्वेऽधिकदेशतात्तिस्तथा तवापि मतेऽणुरूपमनोदेशाधिकहस्तादिदेशावच्छिन्नत्वस्यापि नियमानुपपत्यभावमात्रादेव स्वीकरणीयतया तस्य हस्तायधिकपादादिदेशावच्छिन्नत्वेऽपि नियमानुपपत्तरभावात् ' तदपि स्यात् , अणुदेशाधिकहस्तावच्छिन्नत्वस्वीका अधिकदेशताविघटकनियामकस्य वक्तुमशक्यत्वादित्यभिप्रायः। अन्त्ये स्पष्टः। तचापितवैवेत्यर्थः / यद्वा हस्तायवच्छिन्नस्यापि