________________ 356 व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलो [1 कारिकाव्याख्यायां अथासामेव साक्षात्कारितयेन्द्रियत्वेन तदनुमातव्यम् ,... तथापि व्यापकस्य निरुपार्नेन्द्रियत्वमित्युपाधिर्वक्तव्यः / तत्र यदि कर्णशष्कुलीवन्नियतशरीरावयवस्योपाधित्वं, तदा तावन्मात्रे वृत्तिलाभः / तदोषे च वृत्तिनिरोधः श्रोत्रवत् प्रसज्येत / ततः शरीरमात्रमुपाधिरवसेयः। तथा च तदवच्छेदेन वृत्तिलामे शिरसि मे वेदना, पादे मे सुखमित्याद्यव्याप्यवृत्तित्वप्रतीतिविरोधः। असमवायिकारणानुरोधेन विभुकार्याणां प्रादेशिकत्वनियमात् / शरीरत बोधनी। वक्तव्यम् , न हि कर्णशष्कुल्यनुपहितमाकाशं श्रोत्रं भवतीत्याह-अथ इति / अस्तु तर्हि शरीरावयवः कश्चिदत्रोपाधिरित्यत्राह-तत्र यदि इति / दृश्यते चावयवान्तरे शरीरमात्रेऽपि मनसो वृत्तिरिति भावः / ततः किमित्यत आह-ततः इति / ततोऽपि किमित्यत आह-तथा च इति / नमुन कर्णशष्कुलीवन्नियतः शरीराक्यवः कश्चिदुपाधिः, किन्तु शरीरं तदवयवाश्चानियमेनोपाधयः सन्तु, तेन व्याप्यवृत्तिरवयवान्तरवृत्तिश्चोपपत्स्यत इत्यत्राह-शरीरतवयव इति / किंच सर्वेषामप्यवयवानामुपाधित्वे शिरसि सुखमित्ययं नियमो नोपपयेत, अवयवान्तराणामप्युपाधित्वेन तत्रापि प्रकाशः। 2. अथेति / ज्ञानकरणाजन्यः सुखायनुभव इन्द्रियजन्यः जन्यप्रत्यक्षत्वात् , रूपप्रत्यक्षवत् / सायविषयत्वेन विशेषणान्न त्वगादिना अर्थान्तरम् ! गन्धादिष्वेकैकमात्रप्रत्यक्षजनकत्वेन पृथिव्यादिभेदसिद्धौ निःस्पर्श, लाघवाच्च निरवयवमित्यर्थः। तथापीति / यथा श्रोत्रस्य विश्विन्द्रियतया कर्णशष्कुल्यवच्छिन्नस्यवेन्द्रियत्वात्तदनवच्छेदेनोत्पन्नोऽपि शब्दो न गृह्यते, तदवच्छेदेनोत्पन्नस्यापि तस्य तदुपघातान्न ग्रहः। तथा मनोऽनवच्छेदकशरीरावयवावच्छेदेनोत्पन्नं सुखाद्यपि तदवच्छेदेनोत्पन्नश्च तदुपधानान्न गृह्यतेत्यर्थः / असमवायीति / * कार्यविभुविशेषगुणे चायन्नियमोऽतो न व्याप्यवृत्तिकर्मजन्यविभुपरमाणुसंयोगेन व्यभिचारः / ननु किमसमवायिकारणं स्वावच्छिन्ने विभुकार्य जनयतीति नियमः, स्वावच्छिन्ने जनयत्येवेति वा, स्वावच्छिन्न एव जनयतीति वा ? / आये सुखादेरधिकदेशतायामापादकाभावः। द्वितीये . प्रकाशिका। द्रव्यतयेति शेषः / शानकरणेति / जन्यत्वमपि पक्षविशेषणं, तेन नेश्वरप्रत्यक्षे भागबाधः, इन्द्रियजन्यत्वं च विषयप्रत्यासन्नसंयोगिकरणसाध्यत्वमन्यथा इन्द्रियत्वस्य मनोगर्भतया साध्याप्रसिद्धः, अतएव च ज्ञातकरणाजन्यत्वादिकमंशतो बाधवारणाय पक्षविशेषणमन्यथा मनोजयित्वमादायानुमित्यादावपि साध्यसत्त्वेनांशतो बाधप्रसङ्गात, निःस्पर्शमिति / अत इति पूरणीयन्तेन च कारणसङ्गतिः मकरन्दः। तियोगिन्यात्मपरिमाणे साध्याव्यापकत्वात् / ज्ञानेति / जन्यत्वमपि पक्षविशेषणमतो नेश्वरप्रत्यक्षभागे बाधः / इन्द्रियजन्यः = विषयप्रत्यासन्नसंयोगिकरणजन्य इत्यर्थः / तेनेन्द्रियत्वस्य मनोगत्वादिदानी न साध्याप्रसिद्धिः। यथेति / यद्यप्यतिप्रसङ्गभिया श्रोत्रस्योपाधिकल्पनेऽप्यत्र तदभावान तत्क... .. टिप्पणी। सूचितस्तथा च नासङ्गतिः / आद्यन्तशब्दयोरप्युद्भवत्वकल्पनमप्रामाणिकम् / श्रोत्रप्रत्यासत्तिप्रत्यक्षकालस्थित्याद्यभावेनवाप्रत्यक्षोपपत्तेरिति / कार्यविभुविशेषगुणे चेति / मूलानुवादो न विशेषणम्, तेन विशेषगुणस्याकार्यत्वेऽपि न क्षतिः / स्वावच्छिन्न विभु काय्ये जनयताति नियम इति / अथ प्रथमपक्ष एवकारार्थाप्रत्ययात् कथं नियम इति चेन्न / न हि परिसङ्घयावन्नियमऽसीतरव्यावृत्तिमुखेनैव प्रतीतिनियमः, किन्तु प्राप्तांशपरिपूरणमुखेन पश्चात्तत्प्रतीतिरिति प्रथमपचे, पक्षप्राप्तस्वावच्छिन्नांशपूरोन तद्विशेषणदानलब्धेन ययद् विभुकायं तदसमवायिकारणावच्छिन्नं