________________ तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् / 315 शानासमवायिकारणसंयोगाधारत्वादित्यादेरिति चेन्न। सर्वेषामापाततः स्वरूपासिकृत्वात् / तथाहि / यदि रूपाद्युपलब्धीनां क्रियात्वेन करणतया मनोsनुमितिर्न तदा द्रव्यत्वसिद्धिः। अद्रव्यस्यापि करणत्वात् / बोधनी। च द्रव्यानारम्भकत्वमिह विवक्षितम् / आकशादय एव दृष्टान्तः / ज्ञानस्यासमवायिकारणमात्ममनसोः संयोगः, तदाश्रयत्वान्मनसो वैभवमनुमीयते। आत्मवत्सर्वत्रोपलभ्यमानकार्यत्वादात्मवदित्यादिशब्दार्थः। न इति। द्रव्यत्वासिद्धया चतुर्णा हेतूनामापाततः स्वरूपासिद्धिः, निरूपणदशायां तु धर्मिग्राहकप्रमाणबाध इति भावः। स्वरूपासिद्धिं तावदाह तथाहि इति / अद्रव्यमपि यदृष्टप्रयनसंयोगादिक्रियाकरणं दृष्टमिति / यद्यासां सुखायुपलब्धीनां साक्षात्काररूपत्वादिन्द्रियस्यैव तत्साधनत्वाच्चेन्द्रियतया मनोऽनुमीयते, तथा च द्रव्यत्वं सिध्यति द्रव्यस्यैवेन्द्रियत्वादित्युच्येत तथापि व्यापकत्वे तस्योपाध्यवच्छेदेनैवेन्द्रियत्वं प्रकाशः। धान्तः। चतुर्थहेतावात्मा दृष्टान्तः / न च महत्त्वमुपाधिः, साधनव्यापकत्वात् / न च सुखादिकं मूर्तसंयोगासमवायिकारणकगुणवृत्तिगुणत्वव्याप्यजातिमत् , नित्यवृत्त्यनित्यविशेषगुणत्वाच्छब्दवत् पागजवच्चेति प्रतिरोधः / मूर्तत्वस्याप्रयोजकत्वात् , अनात्मवृत्तित्वस्योपाधित्वाच्चेति भावः / आपातत इति / यावन्मनो न सिद्धथतीत्यर्थः / स्वरूपासिद्धिमेवाह / तथाहीति : अद्रव्यस्यापीति / लिङ्गज्ञानादेरित्यर्थः / द्रव्यत्वविनाकृतञ्च रूपादिभिर्व्यभिचारीति भावः। * प्रकाशिका। गादीति साधारणम् / साधनेति / स्वमतावष्टम्मेनेदमुक्तम् / न च सुखादिकमिति / अत्र संयोगमादाय सिद्धसाधनमिति मूर्तेति / सुखकारणचन्दनसंयोगमादाय सिद्धसाधनमिति असमवायीति। कालिकव्याप्त्या गुणत्वव्याप्यत्वं सत्ताया अपीति तामादाय सिद्धसाधनमिति गुणवृत्तीति / तथा च गुणवृत्या समवायेन गुणत्वव्याप्यत्वमर्थों लभ्यत इति न सत्तामादाय प्रसङ्गः / शब्दजशब्दे व्यभिचार इति जातिगर्भता रूपसुखान्यतरत्वमादाय सिद्धसाधनमिति जातीति। न च समवायेन गुणत्वव्याप्यत्वस्य पूर्व विवक्षितत्वानोक्तसिद्धसाधनमिति वाच्यम् / समवायेनेत्यस्य दैशिकव्याप्तिमात्रतात्पर्यात् / हेतौ जलावयविस्नेहे व्यभिचार इति नित्येति / जलपरमाणुस्नेहे व्यभिचार इत्यनित्येति / परमाणुद्वित्वे व्यभिचार इति विशेषेति / भट्टमते शब्दस्य द्रव्यतयोभयसिद्धं दृष्टान्तान्तरमाह / पाकजवञ्चेति / अनात्मवृत्तित्वस्येति / विशेषगुणत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकोऽयमुपाधिरन्यथा प्रचयजन्यपरिमाणवृत्तिजातिमादायात्मपरिमाणे साध्याव्यापकतापत्तेः। यावन्मन इति / - मकरन्दः। संयोगादीति भहमते / स्वमतावष्टम्भेनाह साधनेति। अन्यथा पक्ष एव साधनाव्यापकत्वात् / अजसंयोगेन सिद्धसाधनादाह मूर्तेति / चन्दनसंयोगेन सिद्धसाधनादाह असमवायीति / शब्दजशब्दे व्यभिचारवारणाय जातिगर्भत्वम् / तत्र च गुणपदं स्पष्टार्थम् / गुणत्वावान्तरपदं तादृशशब्दवत्तिसत्तायोगित्वेनार्थान्तरवारणाय / शब्दसुखान्यतरत्वादिकमादायार्थान्तरादाह जातिपदम् / बलावयविस्नेहे व्यभिचारादाह नित्यवृत्तीति / परमाणुस्नेहे व्यभिचारादाह अनित्येति / आत्मवृतिद्वित्वे व्यभिचारादाह विशेषेति / महमते शब्दस्य द्व्यत्वादुभयसिद्धं दृष्टान्तान्तरमाह पाकजवच्चेति / अनात्मेति / साधनावच्छिन्नसाध्यव्यापकोऽयमुपाधिः, अन्यथा प्रचयजन्यपरिमाणवृत्तिजा टिप्पणी। तिबन्धकतायामुक्तरीत्या व्यभिचारादभावस्यापि सिद्धान्तेऽतुच्छरूपत्वात् सामग्रीत्वेनैव प्रतिबन्धकत्वम्, कस्यापि कारणत्वप्रतिबन्धकत्वे क्षत्यभावाज ज्ञाने उद्भवत्वकल्पनमप्रामाणिकमित्येवास्वरसः