________________ 314 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [1 कारिकाव्याख्यायां चिन्त्यते / पश्चादा कथमुत्पत्स्यते इति चेत् , मनसोऽनिन्द्रियप्रत्यासन्नतयाऽजननात्तत्प्रत्यासत्तौ च पश्चाजननात्। ___मनोवैभववादिनामिदमसंमतम् / तथाहि / मनो विभु, सर्वदा स्पर्शरहितद्रव्यत्वात् , सर्वदा विशेषगुणशून्यद्रव्यत्वात् , नित्यत्वे सत्यनारम्भकद्रव्यत्वात् , बोधनी। . मनसः इति / तदेतन्मनसोऽनिन्द्रियप्रत्यासन्नत्वं कौमारिला न सहन्ते विभुत्वान्मनस इत्याहमनोवैभववादिनाम् इति / तेषां मनोवैभवहेतूनपन्यस्यति-तथाहि इति / न हि द्रव्यसमकालं तत्समवेताना स्पर्शादीनाम् उत्पत्तिः कार्यकारणयोः पौर्वापर्यनियमात् , तेनानुत्पन्नस्पर्शः प्रथमक्षणावस्थितैर्घटादिद्रव्यैरनैकान्तिकत्वमाशङ्क्योक्तं सर्वदा इति / आकाशादिरत्र दृष्टान्तः / विशेषगुणशून्यद्रव्यत्वात् इति / अत्रापि सर्वदेत्यनुषज्यते / दिक्कालावत्र दृष्टान्तः / अनारम्भकद्रव्यत्वमन्त्यावयविनोऽप्यस्तीति तद्वथावृत्यर्थमुक्तं नित्यत्वे सति इति / अनारम्भकत्वमिति प्रकाशः। ज्ञानस्य नात्मोपलम्भकत्वमिति तदुपधानेऽपि नात्मप्रहः / अत एवायन्तशब्दयोरुद्भवत्वाभावान्न प्रत्यक्षत्वमित्येके / आत्ममनःसंयोगविशेषस्यात्मग्राहकत्वमनेनोक्तमित्यन्ये / मनस इति / यद्यपि सुषुप्तौ यत एव न ज्ञानं तत एवात्माऽग्रहोपपत्तौ योग्यविशेषगुणोपधानमतन्त्रं, तथापि द्रव्यसाक्षास्कारे सामान्यत एव योग्यविशेषगुणस्य प्रयोजकत्वावधारणादेतदुक्तम् / असम्मतमिति / विभुनो मनस इन्द्रियाप्रत्यासत्तेरभावादित्यर्थः। सर्वदेति / द्रव्यत्वं परमाणुभिः, स्पर्शरहितत्वं च गुणादिभिर्व्यभिचारीति विशिष्टं लिङ्गम् / तस्याप्युत्पत्तिक्षणे घटे सत्वाद् व्यभिचार इत्यत उक्तं, सर्वदेति / अनारम्भकद्रव्यत्वं = द्रव्यानारम्भकद्रव्यत्वमत्र विविक्षितम् , अतो न कर्मसंयोगाचारम्भके मनसि स्वरूपासिद्धिः / तथापि घटेऽनैकान्तिक इत्यत उक्तं, नित्यत्व इति / कालादिई प्रकाशिका। एके इत्यरुचौ। तद्बीजन्तु प्रत्येकं परामर्शोऽपि प्रतिबन्धकतायां व्यभिचायव उद्भूतपरामर्श सत्यपि बाधदशायामात्मप्रत्यक्षोदयात् / तथा च परामर्षस्यापि अनुमितिसामग्रीत्वेन प्रतिबन्धकत्वं वाच्यमेवं च रूपान्तरेण जनकत्वे रूपान्तरेण प्रतिबन्धकत्वमविरुद्धमेवेतिअनुमितिसामग्रथा एवप्रतिबन्धकत्वान्नात्मप्रत्यक्षमिति किमर्थ ज्ञानेऽप्युद्भवकल्पना। आयन्तशब्दयोरपीन्द्रियप्रत्यासत्तिविरहात् प्रत्यक्षसमये नाशाच्च न प्रत्यक्षतेति न तत्राप्युद्भवकल्पना, न च कर्णशष्कुल्यवच्छेदेनैव यत्रायशब्दोत्पत्तिः, तत्र स गृह्यतेति वाच्यम् , इष्टापत्तेः। न च तदा कत्वादिनिर्विकल्पकाभावान्नैवमिति वाच्यम् / तथा सति सुतरां नोद्भूतत्वकल्पना / आयशब्दाप्रत्यक्षत्वस्याप्रामाणिकत्वात् , स्मरणात्मकविशेषणज्ञानेन तत्सम्भवाच / केचितु स्वभिन्नज्ञानसामग्रीत्वानापन्नस्यैव ज्ञानस्यात्मोपधायकत्वम् / अत एव विशेषणज्ञानानन्तरं बाह्यविशिष्टज्ञानं पदार्थस्मृत्यनन्तरं शाब्दज्ञानं विशेषदर्शनोत्तरं पुरुषप्रत्यक्षमिति नानुमितिसामग्रीत्वापन्नपरामर्षकाले आत्मज्ञानमिति न ज्ञान उद्भूतत्वं प्रामाणिकमिति वदन्ति / अन्य इत्यरूची / तद्वीजन्तु संयोगविशेषकत्सनमप्रामाणिकमुक्तेनैवोपपत्तेरिति द्रष्टव्यम् / कर्मेति न्यायमते, संयो मकरन्दः / सुतरां तर्हि नोद्भूतत्वम् / स्मरणरूपविशेषणज्ञानमादाय तत्सम्भवाच्चेत्यनुशयमाविष्करोति इत्येके इति / उक्तेनैवोपपत्तौ मनःसंयोगविशेषत्वेन हेतुत्वे गौरवं, संयोगे विशेषश्च जातिरूपः प्रत्यक्षखण्डोकसकरापत्त्या निरस्तः, अन्यत्र दुर्वच इत्यस्वरसमाविष्करोति इत्यन्ये इति / कमैति न्यायमते / टिप्पणी। शंघटितोभयवैशिष्ठ्यस्य निवेशासम्भवात् उभयोरेकसम्बन्धाभावात् प्रत्येकवैशिष्ट्यनिवेशे सम्बन्धद्वयप्रवेशे गौरवाचं तस्यापि तदुपलम्भकारणत्वेन प्रतिबन्धकत्वासम्भवः / वस्तुतस्तु इत्येक इत्यनेन प्रत्येका