________________ तृतीयस्तवके अनुपलब्धेर्वाधास्वनिराकरणम्। 313 त्मा / तथाहि, सुषुप्त्यवस्थायामात्मानमनुपलभमानो नास्तीत्यवधारयेत् / कस्यापराधेन पुनर्योग्योऽप्यात्मा तदानीं नोपलभ्यते ? / सामग्रीवैगुण्यात् / सानादिक्षामकविशेषगुणोपधानो यात्मा गृह्यते इत्यस्य स्वभावः / ज्ञानमेव कुतो न जायते इति बोधनी। ... जाह-तथाहि इति / जाग्रदवस्थायामुपलम्भदर्शनात्सिद्धं स्वात्मनो योग्यत्वमन्यदा नापैतीति भावः। पृच्छति-कस्य इति / स्वरूपायोग्यत्वामावेऽपि सहकारिविरहादनुपलम्भो युक्त इत्याहसामग्रीवैगुण्यात् इति / का तर्हि स्वात्मनो ग्रहणसामग्री यद्वैगुण्यात्तदानीमनुपलम्भ इत्यशाहशानादि इति / जानाम्यहमिच्छाम्यहमित्यादिरूपेणैवात्मनो ग्रहणदर्शनाद् ज्ञानादिविशेषगुणोपगृहीतत्वमात्मनो ग्रहणसामग्रीति / सुषुप्तिसमये कस्यापराधेन ज्ञानमेव च जायते, कस्यानुग्रहाद्वाऽन्यदा जायत इत्याह-ज्ञानमेव इति / मनसो बाह्येन्द्रियप्रत्यासत्तिभावाभावाभ्यां जननाजनने इत्याह . प्रकाशः। .. बन्धिः स्यात् / अथ शृङ्गं योग्यमेव नायोग्य, तंदा अतितरां न प्रतिबन्धिः / व्यापकानुपलब्धिलिङ्गकश्चानुमानमीश्वरासिद्धावाश्रयासिद्धम् , तत्सिद्धौ वा धर्मिग्राहकप्रमाणबाधितमित्यर्थः। - सामग्रीति / यथा योग्योऽपि घटादिरालोकाभावानोपलभ्यते, तथाऽऽत्मा क्षणिकज्ञानादियोग्यविशेषगुणायुपधानसहकार्यभावाद् नोपलभ्यत इत्यर्थः / यद्यप्येवमुपधायकतृतीयलिङ्गपरामर्शसत्त्मदात्मबुद्धिरेव स्यान्नानुमितिः / न चानुमितिसामग्येव प्रतिबन्धिका, कारणमेलकरूपायां सामग्यामितरकारणानां व्यभिचारात् तृतीयलिङ्गपरामर्श एव प्रतिबन्धको. वाच्यः, तस्य च योग्यविशेषगुणत्वेनारमोपलम्भकस्यातथात्वम् / तथापि रूपवत्प्रत्यक्षविशेषणगुणत्वाज्ज्ञानेऽप्युद्भवत्वजातिसत्त्वादनुद्त प्रकाशिका। पीति / व्यभिचारादिति / तेषु सत्स्वप्यात्मप्रत्यक्षोदयात् , प्रतिबन्धकतायामन्वयव्यभिचारादित्यर्थः / अतथात्वादिति / एकस्य एक प्रति कारणत्वप्रतिबन्धकत्वविरोधादित्यर्थः / इति तदर्थपरतया प्रथमं तृतीयमेव पादं व्याख्याय द्वितीयपादं व्याचष्टे अथेति। व्यभिचारादिति / तेषु सत्स्वप्यात्मप्रत्यक्षप्रतिबन्धाभावादित्यर्थः / अतथात्वमिति / एकस्य कारकत्वप्रतिबन्धकत्वविरोधादित्यर्थः। तथापीति / तथा च परामर्शेऽप्यनुद्भवान्न तथात्वमिति भावः / मनु हेत्वन्तरवत् परामर्शोऽपि व्यभिचारी, सत्यपि तस्मिन् वाधादिना अनुमितिप्रतिबन्धे परामर्शोपहितात्मप्रत्यक्षसत्त्वात् / अन्यथा वह्निव्याप्यवन्तं जानामीत्यनुव्यवसायानभ्युपगमे अनुभवविरोधात् / तस्मात् प्रत्येकमप्रतिबन्धकत्वेऽप्यनुमितिसामग्रीत्वेन तद्धेतूनां फलबलात् प्रतिबन्धकत्वम् / परामर्शस्य च रूपान्तरेण तदुपलम्भकत्वमिति नोक्तविरोधः / यदि च सकलहेत्वधिकरणक्षणः सामग्री, तदा तस्य परामर्शभिन्नत्वाद्विरोधशङ्कव नास्ति / एवञ्चोपपत्तौ न ज्ञानादावुभूतत्वं, मानाभावात् / आयशब्दाग्रहश्च श्रोत्रेणासम्बन्धात् / सम्बन्धे वा तद्ग्रहस्येष्टत्वात् / क्षणिकान्तशब्दस्य च स्वसमयवर्तितया विशिष्य हेतुत्वपक्ष एवाप्रत्यक्षत्वात् / न च कर्तृत्वादिनिर्विकल्पकापेक्षायां पक्षान्तरेऽप्यसम्भवः, टिप्पणी। - . यद्यप्येवमुपधायकतृतीयेति / एवं-ज्ञानाद्युपधायकविशेषगुणसत्वेनैवात्मनः प्रत्यक्षत्वे / इतरकारणानां व्यभिचारादिति / असति परामर्शे परामर्शतरेषु कारणेषु सत्स्वप्यात्मप्रत्यक्षप्रतिबन्धाभावात् परामर्षतरकारणस्यान्वययभिचारात् परामर्षस्यान्वयव्यतिरेके दृष्टे सामग्रीत्वेन न प्रतिबन्धत्वं गौरवात् / न च सत्यपि परामर्षे पक्षताया बाधनिश्चयस्य वाऽभावे प्रत्यक्षप्रतिबन्धाभावात्तत्राप्यन्वयव्यभिचार इति वाच्यम् / तयोरभावत्वेन तुच्छस्वभावत्वात् तदुभयविशेषितपरामर्षस्यैव तथा" त्वौचित्यात् परामर्षे स्वरूपधटितसामानाधिकरण्येन तदुभयवैशिष्ट्यस्य निवेशयितुं शक्यत्वात् / पराम 40 न्या० कुछ मकरन्तः /