________________ 308 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 3 कारिकाव्याख्यायां विशेषता बामणत्वाद्यप्रतिसन्धानेऽनुष्ठानरूपस्याश्वासस्याभावात् / न हि पूर्वजन्मनि मातापित्रोाह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमो, येन सर्गादौ वर्णादिधर्मव्यवस्था स्थाव / ईश्वरवददृष्टविशेषोपनिषद्धभूतविशेषानुपलम्भात् / अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् / - एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम् / सञ्चारशरभावात् / वर्षान्तरसञ्चरणमेव हि दुष्करं, कुतो लोकान्तरसञ्चारः, कुतस्त. राश्च ब्रह्माण्डान्तरगमनम् / अणिमादिसम्पत्तेरेवमपि स्यादितिचेन्न / अत्रापि प्रमा णाभावात् सम्भावनामात्रेण समाश्वासानुपपत्तेः। श्राद्यमहाजनपरिग्रहान्यथाऽनुपपतिरेवात्र प्रमाणमिति चेत् / न। एवम्भूतककल्पनयैवोपपत्तो भूयःकल्पनायां गौरवप्रसङ्गात्। विदेहनिर्माणशक्तरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् / अस्त्वेक एवेतिचेत्, न तहीश्वरमन्तरेणान्यत्र समाश्वास इति // 3 // बोधनी। मास्यन्तीत्यत्राह-ईश्वरवत इति / स हि तज्जातिविशेषे निमित्तमदृष्टविशेषसहकृतभूतभेदारन्ध. शरीरत्वं जानाति नित्यसर्वशत्वेनादृष्टविशेषवेदित्वात्तस्य. नैवं कपिलादयः तेषामविशेषज्ञानहे. तोंर्भावनाया निरस्तत्वादिति / तहिं ब्रह्माण्डान्तरवर्तिनो ब्राह्मणा ब्राह्मणादिवर्णान् तत्र संचार्य तत्तवर्णविशेषप्रयुक्तान् धर्मान् व्यवस्थापयन्तीत्यत्राह-एतेन इति / एतेन वक्ष्यमाणेन संचरणशक्तयभावेनेति / अणिमादि इति / अणिमा, महिमा, लघिमा, गरिमा, प्राप्तिः, प्राकाम्यमीशित्वं, वशित्वमित्येभिरश्वयः पन्नाः कपिलादयः / ततस्तेषां किनाम दुष्करमिति / न इति / अत्राणिमादिसंपत्ताविति / तत्र संभावना तावदस्तीत्यत्राह-संभावना इति / आद्य इति / अत्र कपिलादीनामैश्वर्येऽतीन्द्रियार्थदर्शित्वे च तदानीन्तनमहाजनपरिप्रहान्यथानुपपत्तिः प्रमाणमिति / न इति // विशिष्टकरूपकल्पनयापि परिग्रहस्योपपत्तौ न, भूयसां विशिष्टानां कल्पनायां प्रमाणमस्तीति। नन्वेककल्पनायामपि तस्य विदेहस्यैव निर्मातुं शक्तिरणिमायैश्वर्यसंपत्तिष कल्प्येतेति कल्पनागौरवमस्त्येवेत्यत्राह-विदेह इति / अनेककल्पनायामपि तदविशिष्टमेवेत्यर्थः / अस्तु तर्हि कपिलादीनामन्यतमः स एकः किमीश्वरेणेत्यत्राह-अस्तु इति // 3 // - यद्येक एवाङ्गीक्रियते स तह)श्वर एव स्यात् तमन्तरेणान्यत्र कपिलादावनाश्वासस्योक्तत्वादिति परिच्छेदार्थ संकलय्य दर्शयन् सर्वास्वपि जातिष्वात्मनः परमेश्वरं प्रति प्रणति प्रार्थयते - प्रकाशः। प्रत्यक्षादित्याह / न हीति / ननु यथेश्वरेणादृष्टविशेषजन्यतया शरीरे ब्राह्मण्यादि साक्षात्कृत्य सर्गादौ कपिलादयो वेदमध्याप्यन्ते, तथा कपिलादिभिरप्यध्येष्यत इत्यत आद / ईश्वरवदिति / ___अणिमादिसम्पत्तावप्यागम एव मानम् / तत्प्रामाण्यग्रह एव चानाश्वास इत्याह / अत्रापीति / हेतुदर्शनशून्यैर्ग्रहणधारणादिरूपमहाजनपरिग्रहानुपपत्तिरेवाऽणिमादिसम्पत्ती मानमित्याह / श्राधेति / तथाविधाः किं बहवः कल्पनीयाः, एक एव वा ? नाय इत्याह / एवमिति / कल्प मायां लाघवसाचिव्यादेक एव विषय इति तन्नानात्वे मानाभाव इत्यर्थः / कल्पनागौरवमाह विदेहेति / विविधो देहो विदेहः / अन्त्यमाशङ्कय ईश्वरादन्यत्रानाश्वासेन तत्रैव पर्यवसानमिति परिहरति / अस्त्वित्यादि // 3 // मकरन्दः। न्धानं न स्यात् , न त्वेवमित्यर्थः। मूलयुक्तिमाह / कल्पनायामिति // 3 //