________________ द्वतीयस्तवके ] कपिलादीनामनाश्वरसोपपादनम् / न चैतयोः स्वरूपेणोपलम्भः क्वचिदुपयुज्यते, भावनासाध्यो वा / न चास्मिन्नन्वयव्यतिरेको सम्भवतः। देहान्तरभोग्यत्वात् फलस्याप्रतीततयातदनुष्ठानेतदभावाच / न चोकभोक्तरूपोभयदेहप्रतिसन्धानादेव तदुपपद्यते। तदभावात् / न होतस्य पूर्वकर्मणः फलमिदमनुभवामीति कश्चित् प्रतिसन्धत्ते / केचित्तथा भविष्यन्तीति सम्भावनामात्रेभ्यनाश्वासात् / विनिगमनायां प्रमाणाभावात् / प्रतिपनिशीथनिद्राणप्रातः प्रतिबुद्धसमस्तोपाध्यायवदन्योन्यसंवादात् कपिलादिषु समाश्वास इति चेन्न / एकजन्मप्रतिसन्धानबजन्मान्तरप्रतिसन्धाने प्रमाणाभावात् / तथापि च अधिकारि बोधनी। भावेऽपि कर्मयोगयोः स्वरूपोपलम्भमात्रेण तदनुष्टानं भवेदित्यत्राह-न चैतयोः इति। भावनासाध्यो वेति। न हि स्वरूपोपलम्भो भावनासांध्यो वा भवति प्रत्यक्षत्वात्स्वरूपस्य / यद्वा, कर्मयोगयोहिंतसाधनत्वोपलम्भो भावनासाध्यो वा नोपयुज्यतेऽनाश्वासादिभिः / न चास्मिन् इति / कर्मयोगयोरतीन्द्रियार्थप्रदर्शनसाधनत्व इति / किंच, तयोस्तत्साधनत्वमवगम्यानुतिष्टतः फलसाधनादन्वयव्यतिरेको स्थातां, तत्साधनस्वाप्रतीतौ कथमनुष्टानं कथं च फलदर्शनं कथमन्वयव्यति. रेकावित्षाह-अप्रतीतया इति / तदसंभवात्फलस्यान्वयव्यतिरेकयोऽसंभवादिति / ननु मा भूतामेकस्मिन् देहे, तथापि योऽहं देहान्तरमविष्टाय कर्माकरवं सोऽहं देहमधिष्ठाय तस्य कर्मणः फलमनुभवामीति कर्तृभोक्तदेहयोरात्मनः प्रतिसंधानादन्वयव्यतिरेको स्यातामित्यत्राह-नच इति / मा नामार्वाचीनः प्रतिसंधत्तां, विशिष्टाः केचित्प्रतिसंधास्यन्तीत्यत्राह-केचित् इति / कुतो वा नाश्वास इत्याइ-विनिगमनायामिति / अनुमवत्येवेत्यवधारणायामिति / प्रतिपत् इति / यथा ह्यनध्यायकाले वर्जिताध्ययनानां पुनरध्यायकाले स्मरणम् , उपाध्यायानामन्योन्यसंवादेन पूर्वा धीतस्वाध्यायप्रतिसंधानं निश्चीयते, तथा कपिलादीनामन्योन्यसंवादात् सर्गादौ प्रतिसंधानावधारणेति / न इति / कथं हि संस्कारोच्छेदकैमरणजननक्लेशैः काल विप्रकर्षण चान्तरितं जन्मान्तरा. नुभूतं प्रतिसंधीयत इति / जन्मान्तरानुभूतं प्रतिसंदधद्भिरपि कपिलादिभिः सर्गादिभुवां ब्राह्मणत्वादिवर्णविशेषस्याज्ञानादधिकारिविशेषेण धर्मविशेषेणानुष्टानं न संभवति / न हि तदानीं ब्राह्मणेन ब्राह्मण्यामुत्पत्तिरस्ति, न च पूर्वजन्मनि ब्राह्मणमातापितृजन्यत्वेन जन्मान्तरे ब्राह्मणत्वं भवति यत. स्तरप्रतिसंधानेनैतन्निश्चीयेतेत्याह-तथा च इति / यद्वा, तथा चेति जन्मान्तरीयप्रतिसंधानाभाव इत्यर्थः, “न हि पूर्वजन्मनी"ति तदभ्युपगमेनोक्तमिति / नन्वीश्वरवद्वर्णविशेष कपिलादयोऽपि प्रकाशः। सम्भवतीत्याह / न चास्मिन्निति / अस्मिन् = कर्मयोगसाधनत्वे / ननु प्रवृत्तौ सत्यां कर्मयोगाऽन्वये फलस्यान्वयज्ञानात् साधनत्वनिश्चयः स्यादित्यत आह / अप्रतीततयेति / हितसाधनत्वेनेति शेषः / हितसाधनत्वनिश्चयात् प्रवृत्तिस्तस्यां च तन्निश्चय इत्यन्योन्याश्रय इत्यर्थः / ननु योऽहं विहितनिषिद्धकर्म कृतवान् सोऽहं तत्फलमनुभवामीति प्रत्यभिज्ञानात्तद्ग्रहः स्यादित्यत आह / न चेति। एकति। यथैकत्रि जन्मनि कार्यभेदे प्रत्यभिज्ञानं प्रत्यक्षसिद्धं,न तथा जन्मभेदे इत्यर्थः / अस्तु वा संवादात् समाश्वासः, तथाप्यधिकारिविशेषेण स्वीयब्राह्मणवायप्रतिसन्धानेऽ धिकृतवेदाध्ययनायनुष्टानं तेषां न स्यादित्याह। तथापि चेति।न चेदानीमिव तदाऽपि तनिश्चयः प्रकाशिका। सम्भवादसिद्धिरित्यर्थः / यथैकत्रेति / प्रतिसर्ग तेषामन्यान्यत्वादन्योन्यसंवादस्तदा स्यायदि ज न्मभेदेऽपि प्रतिसन्धानं स्यानत्वेवमित्यर्थः / अधिकृतेति। ज्ञाताधिकारेत्यर्थः। लोकान्तरसञ्चारस्य पुराणादिसिद्धत्वमित्यरुच्या मूलं कुतस्तराश्चेति // 3 // मकरन्दः / . त्ययः। यथैकत्रेति / प्रतिसगं तेषामन्यान्यत्वमन्योन्यसंवादप्रहस्तदा त्यायदि जन्ममेदप्रतिस