________________ 306 व्याख्यात्रयोपेतप्रकाराबोधनीयुते न्यायकुसुमाजलौ [ 3 कारिकाव्याख्यायां स्यादेतत् सन्तु कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धास्त एव संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुप्रहोष्यन्ति, कृतं परमेश्वरेणानपेक्षितकीटादिसंख्यापरिक्षानवतेति चेन्न / तदन्यस्मिबनाचासात् / तथा यतोन्द्रियार्थदर्शनोपायो भावनेत्यभ्युपगमेऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति, यतः समाश्वसिमः। प्रमाणान्तरसंवादादिति चेन्न / अहिसादि हितसाधनमित्यत्र तदभावात् / श्रागमोऽस्तीतिचेन्न / भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् / एकदेशसंवादेनापि प्रवृत्तिरिति चेन्न, स्वप्नाख्यान. वदन्यथापि सम्भवात् / न चानुपलब्धे भावनाऽपि / चौरसादयो उपलब्धा एव भीरुभिर्भाव्यन्ते / न च कर्मयोगयोहितसाधनत्वं कुर्ताश्चदुपलब्धम् / बोधनी। ततोऽन्यस्मिन्ननाश्वासादित्येतदवतारयितुं शङ्कते-स्यादेतत् इति / नित्यनैमित्तिकेन कर्मणा चित्तप्रवृत्तिनिरोधात्मकेन योगेन सिद्धास्तजनितधर्मसहकृतेन मनसाऽतीन्द्रियार्थदर्शनसमर्थास्तत एव साक्षात्कृतधर्माधर्माः कपिलहिरण्यगर्भादय एव सन्त्युपदेष्टारस्तेषामेव कारुण्यनिष्ठानां संसारिचेतनानुप्रहार्थमुपदेशसंभवात् / एतावानेव हि तेभ्यो भवदभिमतस्येश्वरस्य विरोषः, यत्कृमिकोटसंख्यादिसर्व विषयं ज्ञानं नाम, तच्चानपेक्षितं धर्माधर्मोपदेशस्येति / तदुत्तरत्वेन संमहमुपादत्ते यतः इति / अनाश्वासमेवोपपादयति-तथा हि इति / न तावद् दर्शनोपायो भावनेति वक्ष्यामः, यद्यपि स्यात्तथापीति / नन्वहिसादिषु संवादाभावेऽपि दृष्टार्थेषु प्रमाणान्तरसंवाददर्शनादहार्यस्यापि तत्साधात्समाश्वास इत्याह-एकदेश इति / स्वप्ने श्रुतस्याख्यानस्य / यद्वा स्वप्नस्येदमिति / स्वप्नफलप्रतिपादकस्यैकदेशसंवादेऽपि न प्रामाण्यं, तद्वदपि संभवेदिति / एवं भाव नामभ्युपगम्योक्तं सापि नास्तीत्याह-न च इति / स्मृतिहेतुः संस्कारो वासना, सा कथमननुभूत पूर्वे भवेदिति / किंच, कर्मयोगयोरनुष्ठानेन हि कपिलादयः सिध्यन्ति, तदनुष्टानं च तयोहितसा. धनत्वज्ञानात् , तज्ज्ञानोपायच तदानीं नास्तीत्याह-न च कर्मयोगयोः इति / हितसाधनत्वा. प्रकाशः। - स्यादेतदिति / भावनायाः संस्काररूपाया, विषयविशेषे मनोधारणाहेतुप्रयत्नरूपाया वाऽs त्मसाक्षात्कारजनकत्वेऽपि तृणादौ कामिन्यादिसाक्षात्कारभ्रमजनकत्वान्न समाश्वासकत्वमित्याह / तथाहाति / हरे संवादेऽप्यतीन्द्रियार्थे तदभावादित्याह / अहिंसांदोति / यद्यपि “न हिंस्यात् सर्वा भूतानी" त्यनेन हिंसाया अनिष्टसाधनत्वं बोध्यते. न तु तदभावस्य हितसाधनत्वम्, तथाप्यतद्गुणसंविधानबहुब्रीहिणा यागायेवोक्तमित्याहुः। भावनामात्रेति / ईश्वरमूलकत्वे त्वविवाद इति भावः / भागमैकदेशे संवादेन प्रामाण्यं निश्चित्यान्यत्रापि वेदत्वेन तदनुमेयमित्याह / एकदे. शेति / एकदेशसंवादोऽप्रमाणसाधारण इति न तद्गमक इत्याह / स्वप्नेति / ननु महाजनपरि. प्रहाद् भावनामलकेऽप्यागमे समाश्वासः स्यादित्यत आह / न चेति / सर्वत्र भावना साक्षात्का. रणनिकाऽपि न सम्भवति / अनुभूयमानमात्रविषयत्वात् तस्या इत्यर्थः / कर्म = यागादि / योगः = चित्तात्तिनिरोधः / न चेति / हितसाधनज्ञानमुपयोगि न वस्तुत्वेन ज्ञानमतिप्रसङ्गादित्यर्थः। भाषनासाध्यो वेत्यत्रोपलम्भ इत्यनुषञ्जनीयम / न चान्यत्रेवान साधनत्वनिक्षया प्रकाशिका। शव नेत्यर्थः / अस्मदभिमतस्यापीति / प्रामाण्यप्राहकत्वेनास्मदभिमतस्यापि सर्गादिकालेऽ. मकरन्दः। अस्मदभिमतस्यापीति / प्रामाण्यप्राहकत्वेनास्मदमिमतस्यापि सर्गादिकालेऽसम्भवादसिद्धिरिः