________________ द्वितीयस्तवके ] सर्गोपपादनम् / 305 तानस्येश्वनिःश्वसितस्याऽनुवृत्तेः। कियानसावित्यत्राविरोधादागमप्रसिद्धिमनतिकम्य तावन्तमेव कालमित्यनुमन्यते / ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः / तदवच्छिन्ने काले पुनः सर्गः। यथा खल्बलाबुलतायां विततानि फलानि, तथा परमेश्वरशक्तावनुस्यूतानि सहस्रशोऽण्डानोति श्रूयते / तस्मादेवं विच्छेदसम्भवे कस्य केन परिग्रहो, यतःप्रामाण्यं स्यात्। शापकश्चायमर्थो न कारकः ततः कारकाभावानिवर्तमान कार्य ज्ञापकाभिमतः कथङ्कारमास्थापयेत् / बोधनी। योजनः श्वाससंतानोऽनुवर्तते, इतरथा हि तदानी जीवनकालावच्छेदयोग्यक्रियाभावादियन्त कालमनेन जीवितमतोऽयमायुर्भागः पक्क इति तत्कमो न स्यादिति। यद्यत्र कश्चित्पूच्छेत् कियन्तं कालमसौ प्रलयोऽनुवर्तत इति, तत्रैवमुत्तरितव्यमित्याह-कियानसौ इति / प्रमाणविरोधाभावादागमप्रसि द्वयनुसारेण यावन्तं कालं सर्गानुवृत्तिस्तावन्तं कालमिति। यद्वा, यावानागमेषूपदिश्यते तावानिति / सर्वथा ब्राह्मण मानेन वर्षशतमिति / उपाध्यन्तरमाह-ब्रह्माण्डान्तर इति / यदेकस्मिन् ब्रह्माण्डे विनष्टे ब्रह्माण्डान्तरमुत्पद्यते तद्व्यवहारो वा तत्समये भाविनो ब्रह्माण्डान्तरस्यानुवृत्तिकालं यावदन्यस्य प्रलय इत्यर्थः / सन्ति च बहूनि ब्रह्माण्डानीत्याह-यथा खल्विति। श्रुतिरेवान प्रमाण. मित्यर्थः / परमप्रकृतमुपसंहरति-तस्मादिति / उक्तैहै तुभिरेव सर्वेषां विच्छेदे परिग्राह्यपरिप्रहीतृपरिग्रहाणामभावान्न तवारेण प्रामाण्यं शक्याभ्युपगममिति / परिग्रहमङ्गीकृत्याप्याह-शापक. श्चेति / महाजनपरिप्रहः खलु प्रामाण्यस्य ज्ञापकः। ननु ज्ञापकानि च कारकोत्पादितानीति केवलं ज्ञापयन्ति, शब्दानां च मूलप्रमाणवत्ता प्रामाण्यकारणं, न हि सा नित्यस्य संभवति. स्वतः प्रामाण्यमित्युक्तं, ततः कारकाभावानिवर्तमान प्रामाण्यं ज्ञापकाभिमतः परिग्रहः सन्नपि कथं व्यवस्थापयेत् / न हि सहस्रचक्षुषाऽपि नभसि नभस्वति वा रूपं शक्यसंपादमिति / प्रकाशः। कियानिति / ब्रह्मवर्षशतमेव कालोपाधिरित्यागमप्रसिद्धरास्थीयते इत्यर्थः। यद्वा, प्रकृतब्रह्माण्डान्यब्रह्माण्डवृत्तिः कालोपाधिरित्याह / ब्रह्माण्डेति। पूर्व शब्दनित्यत्वस्य प्रवाहाविच्छेदसस्य नित्यत्वस्य चासिद्धिरुक्ता। इदानीमस्मदभिमतस्यापि महाजनपरिप्रहस्य सर्गादावसम्भपादसिद्धिमाह / एवभिति / किश्च महाजनपरिप्रहः प्रामाण्यज्ञापको, न तूत्पादकः, यस्तूत्पादको गुणस्तदभावे ग्राह्यस्य प्रामाण्यस्याभावात् किन्तेन प्राह्यमित्याह / शापकश्चेति / अयमों = महामनपरिप्रहरूपः। ___ द्वितीयामन्यथासिद्धिं दूषयितुमुपन्यस्यति प्रकाशिका। भाविप्रवाहोच्छेदयोः सिद्धिः कुत इत्यर्थः / षष्टीसमासेऽन्यथेत्यादेरसङ्गतः। यद्यपि भाविप्रवाहसिद्ध्यैव दृष्टान्तसिद्धिः, तथापि तदुच्छेदासिद्धौ उत्पन्न ब्रह्माण्डादेरविनाशित्वे इदानीन्तनब्रह्माण्डस्याप्यनाशप्रसङ्ग इत्याशयेनोच्छेदोऽप्युक्तः / “परैः पूज्यमानानामप्यत्र प्रवेशा'"दिति मलं पूज्यत्वमत्र सद्दर्शनं प्रविशन्त्विति श्लाघाविषयत्वं तथा च नान्यत्रानधिकारेणात्र प्रवेश इत्यर्थः। क्वचि. दप्रवेशादिति पाठः तत्र तन्मतपूज्यानामपि चेदत्रानधिकारस्तर्हि तन्मतानधिकृतानामत्र प्रवेशा मकरन्दः / दिति मूलम्। पाषण्डैः स्वमतप्रवेशार्थ पूज्यमानानामप्यत्र प्रवेशदर्शनादनन्यगतिकतया नात्र प्रवेश इत्यर्थः / वस्तुतोऽप्रवेशादिति पाठः। अत एव बौद्धाधिकारेऽपि तथैव पाठः / तत्र तन्मतप्रवि. पानां पृज्यानामेव नात्र प्रवेशाधिकारः, तत्राप्यनधिकृतानामत्र प्रवेशस्त्वसम्भावित एवेत्यर्थः / ३६.या००