________________ 314 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 3 कारिकाब्याख्यामा पाकादिति सौगतमतमनुधावति / कालविशेषादिति चोपाथिविशेषाभावादयुक्तम् / असताञ्चोपलतणानां न विशेषकत्वं, सर्वदा तुल्यरूपत्वात् / न च शानद्वारा। अनित्यस्य तस्य तदानीमभावात् / नित्यस्य च विषयतः स्वरूपतश्च अविशेषादिति चेन्न / शरीरसंक्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनकप्रयोजनश्वाससम्तानाऽनुवृत्तिवन्महाभूतसंप्लवसंतोभलब्धसंस्काराणां परमारणूनां मन्दतरतमाऽऽदिभावेन कालावच्छेदैकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मस. बोधनी। सहकारिलाभस्तस्मादिति सौगतमतमनुधावति वेशबनितेव धनवन्तमिति / कालविशेषावच्छिन्नया भगवतः सिसृक्षया सहकृतैर्भोक्तृकर्मभिः परमाणुषु क्रियोत्पत्तौ तेषां परस्परसंयोगाद् व्यणुकादिक. मेण पुनः सर्ग इति नैयायिकानां मतमाशङ्कयाह-कालविशेषात् इति / कालस्य स्वतो भेदाभावा. दुपाधिविशेषाद्विशेषों वक्तव्यः, प्रलये च कालावच्छेदकस्योपाधेरभावादिति न संगच्छत इति / नन्बसन्त एव तदानीमुपाधयः सर्वकालमुपलक्षयिष्यन्ति असतामेवोपलक्षणत्वाविरोधादित्यत्राहअसतां च इति / कुत इत्यत श्राह-सर्वदा इति / प्रलयारम्भात् प्रभृति सर्वोपाधीनामसत्वेना विशेषान्नवागन्तुकसर्गकालस्य विशेषकत्वमिति / ननु मा भूवन्नसन्तो विशेषकाः सर्वदा तुल्यरूपत्वात् तथापि तद्विषय विज्ञानं कदाचिदुपपद्यते, ततश्चागन्तुकज्ञानावान्तरव्यापारद्वारा तेषामेव विशेषकत्वं भविष्यतीत्याशझ्याह-न च ज्ञानद्वारा इति / तच्च ज्ञानमस्मदादीनां भवेदीश्वरस्य वा ? नाय:-तस्यानित्यत्वेन प्रलये विनाशाच्छरीरे-यादिकारणाभावेन पुनरनुत्पादाच्च / न द्वितीयःतस्य नित्यसर्व विषयस्य च स्वरूपतो विषयतश्चाविशेषकत्वात् / ततश्च सर्गादावागन्तोः कस्यचिद्धे. तोरभावादनुत्पत्तिः सर्वदा उत्पत्तिर्वा सर्वस्य स्यात् , न तु कदाचिदुत्पत्तिरिति चोयाभिप्रायः / न इति / मा भूवन्नन्ये प्रकृतिपरिणामादयः सर्गस्य निमित्तं, कालविशेषस्तु भविष्यति। अस्ति च सदानीं तस्योपाधिविशेष ईश्वरनिःश्वसितलक्षणः / कथमशरीरस्य तस्य निःश्वसितमित्यत उक्तपरमाणनां कर्मसंतानस्य इति / परमाणवो हीश्वरशरीरं साक्षात्प्रयत्नाधिष्ठेयत्वात् , तेन तदा श्रयं कर्मेश्वरनिःश्वसितं भवति / तथा च श्रुतिः-"अस्य महतो भूतस्य निःश्वसितमेतत्" इति ननु यदि परमाणुषु कर्म स्यात् तर्हि संयोगस्यावर्जनीयत्वाद् द्यणुकादिक्रमेण तदानीमेब विश्व जगदुत्पद्येत, अत उक्तं-प्रचय इति / प्रचयाख्यमेव संयोगं तदा कर्मारभते न तु कार्यारम्भक, तर्हि किमर्थ कर्मसंतानोऽनुवर्तत इत्यत उक्तं-कालावच्छेदैकप्रयोजनस्य इति / इयन्तं कालं प्रलीनं ब्रह्माण्डमिति प्रलयकालावच्छेद एव प्रयोजनं तस्य नान्यत् / सर्वस्मिन्नेव प्रलीने कुतः कमण एवोत्पत्तिरित्यत उक्त-महाभूत इति / महाभूतानां पृथिव्यप्तेजोवाय्ववयविनां संप्लवो विनाशः तदर्थ यः संक्षोभोऽभिघातस्तेन तदारम्भकेषु परमाणुषु कर्मोत्पत्तिद्वारेण वेगाख्यः संस्कार उत्प. द्यते, तेन चावयविनाशोत्तरकालमपि मन्दतरतमादिभावेन कर्मसंतानोऽनुवर्तते, कार्यान्तराभावेऽपि कालावच्छदैकप्रयोजनमीश्वरनिश्वसितमनुवर्तत इत्यत्र दृष्टान्तः-शरीर इति / यथा हि निद्राणानां प्राणिनामेतावानस्यायुषो भोग इदानी परिपक्कः इदानी स्वेतावानित्यायुःपरिपाकक्रमसंपादनकप्र. प्रकाशः। उपाधयः स्युरित्यत आह / असतामिति / तस्य =ज्ञानस्येत्यर्थः / शरीरेति / यथा सुषुप्तौ कर्मणां युगपवृत्तिनिरोघेऽपि श्वासानुवृत्तिबलात् कदाचित् प्रबोधस्तथा परमाणनां कर्मसन्तानानुवृत्तिवशात् कदाचित् सर्ग इत्यर्थः / प्रचयेति / यावत् प्रचयाख्यः संयोगोऽनुवर्तते, तावत् कर्मसन्तानाऽनुवृत्तिरित्यर्थः / प्रचयश्च ययप्यवयवमात्रवृत्तिः संयोगस्तथापि व्यणुकारम्भकसंयो. ममात्रमात्र विवक्षितम् /