________________ द्वितीयस्तबके ) सर्गापपादनम् / सुतरां व्यग्रत्वात् / नापि जीविका, प्रागुक्तेन न्यायेन दृष्टफलाभावात् / नापि कुहः कवञ्चना, प्रकृते तदसम्भवात् / सम्भवन्ति चैते हेतवो बौद्धाद्यागमपरिग्रहे / तथा हि / भूयस्तत्र कर्मलाघवमित्यलसाः। इतः पतितानामप्यनुप्रवेश इत्यनन्यगतिकाः / भक्षाधनियम इति रागिणः / स्वेच्छया परिग्रह इति कुतर्काऽभ्यासिनः। पित्रादिक्रमाभावात् प्रवृत्तिरिति पाषण्डसंसगिणः / "उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते” इत्यादिश्रवणादव्यग्रताऽभिमानिनः। सप्तघटिकाभोजनादिसिद्धर्जीविकेत्ययोग्याः। श्रादित्यस्तम्भनं, पाषाणपाटनं, शाखाभङ्गो, भूतावेशः, प्रतिमाजल्पनं, धातुवाद इत्यादिधन्धनात् कुहकवञ्चिताः / ततस्तान परिगृह्णन्तीति सम्भाव्यते / अतो न ते महाजनपरिगृहीता इति विभागः। __स्यादेतत् / यद्येवं सर्वकर्मणां वृत्तिनिरोधो न किञ्चिदुत्पद्यते, न किश्चिदिन. श्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः 1 / प्रकृतिपरिणते. रिति साङ्ख्यानां शोभते / ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते / वासनापरि बोधनी। इत्यनेन निरस्तत्वादित्याह-नापि इति / नापि कुहकानां वश्चकानां वञ्चना प्रवृत्तेनिमित्तं वेदागमे वञ्चनाया असंभवादित्याह-नापि इति / न ह्यत्रादित्यस्तम्भादीनामुपाया उपदिश्यन्त इति / अत्रासंभवन्तः सर्व एवैते दृष्टहेतवो बौद्धायनपरिप्रहे संभवन्तीत्याह-संभवन्ति तु इति / संभवमेव दर्शयति-यथा हि इति / बौद्धादयोऽपि बिहारकुहरकोटरेषु चतुषी निमील्य निर्व्यापारा आसत इत्यलसास्तान् बौद्धाद्यागमान् परिगृह्णन्तीति संबन्धः। इतः वैदिकात् पथः, रागिणः भोज्याद्यद्वैतरागिणः स्वेच्छया परिग्रहः पित्रादोनां नियामकानामभावात् / अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः। उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते। श्रादित्यस्तम्भनादीनामुपायस्य बौद्धायागमेषूपदिष्टत्वात् कुहकवञ्चिताः परिगृह्णन्ति / अतः यत एवं दृष्टहेतवः संभवन्तीति / ___तदेवं प्रसङ्गाद्वेदप्रामाण्यहेतोर्महाजनपरिग्रहस्य स्वरूपं दर्शयित्वाऽधिकृतयोरेव सृष्टिप्रलययो किंचनाशङ्कते-स्यादेतत् इति। विश्वोत्पत्तिनाशयोनिमित्तानां कर्मणां प्रलयावस्थायां युगपनिरुद्धवृ. त्तित्वेन कस्यचिदपि वस्तुन उत्पत्तेविनाशस्य चासंभवात् स्तिमिताकाशसदृशं जगदवतिष्ठते, तदा चागन्तोः कुतो हेतु विशेषात् पुनः सर्गः ? न हि तदा हेतुविशेषः कुतश्विदस्ति, न हि तमन्तरेणाहेतुकः सर्गः सम्भवतीति / प्रकृतेर्महदादिरूपेण परिणतेः पुनः सर्गोऽस्त्वित्यत्राह-प्रकृतिपरिणते: इति / मातुलदुहितेव दाक्षिणात्यानां न तु प्रामाणिकानाम् , प्रकृतितन्नित्यत्वयोरप्रामाणिकत्वात्तपरिण तिहेतोरागन्तुकस्याभावाच्चेति / ब्रह्मपरिणतेरिति भास्करगोत्र एव युज्यते कुलवधूरिव श्रोत्रियगोत्रे / वासना नाम = श्रालयसंततिपतितानां ज्ञानक्षणानां पूर्व पूर्व विज्ञानं, तस्य परिपाकः प्रकाशः। योगबहिर्भावादित्यर्थः / प्रागुक्तेन = विफला विश्ववृत्तिन-इत्यादिना // वौद्धाद्यागमपरिग्रहे अन्यथासिद्धिमाह-सम्भवन्तीति / उभयोरिति / "अत्यन्तमलिनः कायो देहीं चाऽत्यन्तनिर्मलः" इति पूर्वार्द्धम्। साड्यानामिति / प्रकृतिपरिणतावपि प्रयोजनाकालायाः सत्त्वात् तेषामेव शोभते, न त्वस्माकमित्यर्थः / एवमप्रेऽपि / भास्करः = त्रिदण्डिमतभाष्यकारः। ननु वर्तमानोपाध्यभावेऽभ्यतीतसूर्यस्पन्दा