________________ 302 म्याख्यात्रयोपेतप्रकाशबोधनायुते न्यायकुसुमाजलो [ 3 कारिकाव्याख्यायो तथा च भाविप्रवाहवद्भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते / स्मरति च भगवान् व्यासो गोतासु भगवद्वचनम् यदा यदा हि धर्मस्य ग्लानिर्भवति भारत / अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् // परित्राणाय साधूनां विनाशाय च दुष्कृताम् / / धर्मसंस्थापनार्थाय सम्भवामि युगे युगे // इति कः पुनरयं महाजनपरिग्रहः१। हेतुदर्शनशून्यैर्ग्रहणधारणार्थानुष्ठानादिः, स ह्यत्र न स्याद् ऋते निमित्तम्।। न ह्यत्रालस्यादिनिमित्तम् / दुःखमयकर्मप्रधानत्वात् / नाप्यन्यत्र सिद्धप्रामाण्येऽ. भ्युपायेऽनधिकारेणाऽस्मिन्ननन्यगतिकतयाऽनुप्रवेशः। परैः पूज्यानामप्यत्राप्रवेशात् / नापि भदयपेयाद्यद्वैतरागः, तद्विभागव्यवस्थापरत्वात् / नापि कुतर्काभ्यासाऽऽहित. व्यामोहा, आकुमारं प्रवृत्तेः। नापि सम्भवद्विप्रलम्भपाषण्डसंसर्गः, पित्रादिक्रमेण प्रवर्तनात् / नाऽपि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिा, प्राथमिकस्य कर्मकाण्डे बोधनी। च्छेदौ कथं सिध्यत इत्यत्राह-तथा च इति / वर्तमानोऽयं प्रवाहः प्रवाहोच्छेदपूर्वका प्रवाहत्वाद्भा. विप्रवाहवत् / प्रवाहविच्छेदयोः पुनः प्रवृत्तावागमसंवाद दर्शयति-स्मरति च इति / महाजनपरिप्रहाद् वेदस्य प्रामाण्यमित्युक्त, तत्र कोऽयं परिग्रहो नामेत्याह-कः पुनः इति / हेतुदर्शनशून्यैः इति / दृष्टहेतुदर्शनशून्यैरिति / वेदपरिग्रहे न कश्चिद् दृष्टो हेतुरित्याह-न ह्यत्र इति / न च सिद्धपुरुषार्थावगत्युपाय आगमान्तरेऽनधिकारिणः केचिद् गत्यन्तराभावादर्थसंदेहादेवात्र प्रवर्तन्ते / यद्ययं वेदागमः प्रमाणं स्यात् ततः पुरुषार्थसिद्धिः, नो चेत् पूर्वावस्थाया न हानिरिति / न तु प्रामाण्यनिश्चयादिति वाच्यमित्याह-नापि इति / परैर्बोद्धैः, सम्मतानामप्यत्र प्रवेशो नास्ति किमु तैरपि त्यक्तानामिति / न चागमान्तराणां भक्ष्याभक्ष्यविभागपरत्वात्सिद्धप्रामाण्यान्यपि तानि परि त्यज्य स्वैरभक्षणाद्यर्थमत्र प्रवर्तन्त इत्यत्राद-नापि इति। भक्ष्यस्य पेयस्य वा भक्ष्येण पेयेन च सह द्वैतं नास्ति किं तु सर्व भक्ष्यं च पेयं चैकत्वमेव तयोरिति कामयमाना इति / नापि कुतर्काभ्यास. वन्तस्तैः कुतरप्रमाणमेवेदं प्रमाणतया निश्चित्य प्रवर्तन्ते तदभ्यासविरहिणामेव कुमाराणां प्रवृत्ते. रित्याह-नापि इति / नापि संभवद्विप्रलम्भैः षडङ्गैः संसर्गेण तैविप्रलब्धाः प्रवन्ते, पितृपितामहा. दयोऽत्र प्रवृत्ता इत्यवगम्य प्रवृत्तेरित्याह-नापि इति / नापि योगमभ्यस्यता मया तूष्णीमास्यत इति व्यपदेशेनाव्यप्रतां निर्व्यापारतां फलत्वेनाभिसंधायात्र प्रवृत्तिरित्याह-नापि इति / कर्मकाण्डे ह्ययं प्राथमिका प्रव ते न तु ब्रह्मकाण्डे "ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” इति वचनात् तत्र चास्यानेकधाऽनुष्टानव्यग्रत्वात् / यद्वा, अन्तिममोक्षाश्रममप्राप्तः प्राथमिकस्तस्य कर्मकाण्डव्यप्रत्वादिति / नापि जीविकाऽत्र प्रवृत्तनिर्मितं, 'दृष्टलाभफला नापि' (न्या कु०१।८) प्रकाशः। नादिरेवायं सम्प्रदाय इत्यत्र न किञ्चिदनिष्टमित्यत आह / तथा चेति / प्रवाहत्वादिति शेषः / धर्मो = यागादिः, तस्य ग्लानिरुच्छेदः / अधर्मस्य = मण्डलीकरणादेः। संस्थापना = व्यवस्था। ___ ननु महाजनपरिप्रहाद्वेदस्य प्रामाण्यधीः, स एव क इत्यत आह कः पुनरिति / हेतुदर्शनेति / अनन्यथासिद्धप्रवृत्तिविषयत्वमित्यर्थः / तदेवाह / न ह्योति / निमित्तमित्यप्रे सर्वत्रानुषज्ज्यते। योगेति / योग एव कर्तव्यो, न तु चित्तविक्षेपहेतुर्यागादिरित्यभिमानेनेत्यर्थः / प्राथमिकस्येति / ब्रह्मचारिण इत्यर्थः। योगव्यग्रताभिमानेन कर्मकाण्डे प्रवृत्तिन स्यात् तस्य