________________ द्वितीयस्तषके ] प्रलयोपपादनम् / इति न घेदाप्रमाणं स्युः, तथा च वृश्चिकभिया पलायमानस्थाशीविषमुखे निपातः / एतमेव च कालक्रमभाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितमतो नोक्तदोषोऽपि, न चायमुच्छेदो शानक्रमेण येन श्लाघ्यः स्याद् , अपि तु प्रमादमदमानाऽऽलस्यनास्तिक्यपरिपाकक्रमेण, ततश्चोच्छेदानन्तरं पुनः प्रवाहा, तदनन्तरश्च पुनरुच्छेद इति सारस्वतमिव स्रोतः, अन्यथा कृतहानप्रसङ्गात् / बोधनी। कर्मेति न्यायात्प्रयोगविधयः शाखान्तरगतानप्यङ्गविधीनुपसंहृत्य कर्माणि प्रयुजते, तेन नाना शाखाविहितेतिकर्तव्यतापूरणीयेषु कर्मसु शाखोच्छेद पक्षे कयाचिदुच्छिन्नया विहितमझान्तरं किमपि कदाचित्स्यादिति शावकाशान्नैकस्मिन्नपि कर्मणि एतावदिदमित्याश्वासः स्यादिति। न इति। यदि महाजनपरिगृहीतोऽप्याचारोऽप्रमाणः स्यात् तर्हि वेदा अपि तथा भवेयुः, न हि ततोऽन्यत्ते. षामपि प्रामाण्ये कारणम् / तत्र च शाखोच्छेदलक्षणादृश्चिकभयादपसर्पन कृत्स्नवेदाप्रामाण्यरूपे आशीविषमुखे निपतितः स्यादिति / इतश्च शाखोच्छेदोऽवगम्यत इत्याह-एतमेव इति / काल. क्रमवशाद्भाविना शाखोच्छे देनानुष्ठातणां त्वदुक्तमार्गेण भाविनमनाश्वासमाशवय कल्पसूत्रका. रैर्नानाशाखागतान्यङ्गान्युपसंहृत्य स्मरद्भिरनाश्वासप्रतिविधानं कृतं शाखोच्छेदाभावे कल्पसूत्राणि निष्फलानि भवेयुरिति / ततश्च यदुक्तमेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्ग इति तदपि निरस्तमित्याह-अतः इति / अथैवमित्यारभ्य वाऽनाश्वासपरिहारतया व्याख्येयमिति। उच्छिन्नस्यैव विश्वस्य पुनरपि भविता प्रवाह इति प्रतिपादयिप्यन्पुनः प्रवृत्तिविधुरादपवर्गरूपादुच्छेदस्य भेदं तावदाह-न चायम् इति / श्रवणादिगतस्य विविक्तात्मविषयस्य ज्ञानस्य क्रमेण परिपाकविशेषेण भवन्मोक्षाख्य उच्छेदः श्लाघ्यो भवति प्रात्यन्तिकत्वात् , अयं तु प्रमादादिपरिपाकक्रमेण / अतःप्रवाहोच्छेदयोः पुनः प्रवृत्तिरिति / अस्तु वर्तमानप्रवाहस्य विच्छेदः, भाविप्रवाहस्तु कुतस्त्य इत्यत्राह-अन्यथा इति / यद्यच्छेदानन्तरं पुनः प्रवाहो न स्यात् तदा कृतस्य कर्मणः फलभोगमन्तरेणेव नाशः स्यादिति / ननु भवतु भाविनः प्रवाहस्योच्छेदः पुनः प्रवाहश्च भावी, तथापीतः पूर्वमपि प्रवाहो. वृश्चिकेति / उच्छिन्नशाखवेदाङ्गीकारेऽननुष्टानं वृश्चिकभीः, तया पलायमानस्य सर्ववेदाप्रामाण्यापाताशीविषमुखे निपात इत्यर्थः / अनेकेत्यादि दूषयति / एतमिति / तत्तत्कर्मणि नाना. शाखाबोधितेतिकर्तव्यताबोधनाय महर्षिप्रणीता महाजनपरिगृहीताश्व स्मृतयः सन्तीति नाऽनाश्वास इत्यर्थः / अन्यथैकस्य सकलानवगमाच्छाखान्तरबोधितेतिकर्तव्यताशङ्कया एकशाखातो नार्थनिधयः स्यादिति भावः / नन्वाचारस्योच्छिन्नशाखामूलकत्वे साऽपि शाखान्तरवच्छिष्य तेति नोच्छेदः। स चेननं समुद्रतरणोपदेशवच्छाखैवाप्रमाणमित्यत आह / न चेति / अप्रामाणिक धिया न तच्छाखानध्ययनमपि त्वन्यप्रयुक्तमित्यर्थः। तदेवं वेदत्वादाचारानुमितवेदवद्वेदा उच्छेत्स्य. न्तीत्युपसंहरति / ततश्चेति। दिनरात्रिहासैच न व्यभिचारस्तस्यापि पक्षत्वादिति भावः / ननु वर्तमानप्रवाहोच्छेदसिद्धावपि भाविप्रवाहोच्छेदसिद्धिः कुत इत्यत आह / अन्यथेति / प्रागुपात्तादृष्टस्य देहायभावेन भोगाजनकत्वादित्यर्थः / नन्वेवमपि प्राच्यविच्छेदासिद्धौ परतन्त्रपुरुषपूर्वकोऽ प्रकाशिका। चारमूलवेदशून्यत्वं साध्यम् / प्रतियोग्यप्रसिद्धयाऽप्रसिद्धेरिति / मैवम् / ताहशवेदसिद्धौ सत्यामेवान्यत्रेच्छेदार्थमुक्तानुमानप्रवृत्तेरिति / विवादपदेत्यादिसाध्यस्यैवाध्यत्वादिति / एतस्कालावच्छिन्नमध्ययनशून्यत्वं साध्यमतो न दृष्टान्ते साध्यवैकल्यम् / भाविप्रवाहोच्छेदेति / मकरन्दः। भाविप्रवाहेति / भाविप्रवाहतदुच्छेदयोः सिद्धिः कुत इत्यर्थः / परैः पूज्यानामप्यत्र प्रवेशा प्रकाशः।