________________ द्वितीयस्तवके ] प्रकाशः। ईश्वरे समाश्वासोपसंहारः। 306 कारं कारमलौकिकाद्भुतमयं मायावशात संहरन् हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति॥ तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवं विश्वासकभुवं शिवं प्रति नमन् भूयासमन्तेष्वपि // 4 // ___इति द्वितीयः स्तबकः // 2 // बोधनी। -कारं कारम् इति / संसारिचेतनवर्गसमवेतमदृष्टं माया, तशादलौकिकमन्यत्रारष्टचरमद्भुत. मयं विचित्रं च जगस्कृत्वा कृत्वा पुनः संहृत्य संहृत्य पुनरपि कुर्वन् ऐन्द्रजालिक इवेन्द्रवालं यः कोडति तं देवं, निरवग्रहस्फुरदभिध्यानानुभावं निरवप्रहम्-अप्रतिघातं, स्फुरत् प्रकाशमानम् / अभिभ्यानं सर्वानपि विषयानदृष्टपरमारवादीनभिघ्याय व्यवस्थितं ध्यानं ज्ञानं, तदेव तस्यानुभावो = महिमा यस्य तथोक्तः / यद्वा, अनुभावः = क्रियाशक्तिः, अप्रतिहते सर्व विषये ज्ञानशक्तिक्रियाशक्ती यस्य स तथा / नित्यज्ञानत्वेन विश्वासभुवां कपिलादीनां निरस्तत्वात् तस्यैकभुवं शिवं प्रति नमन्, भूयासमन्त्येष्वपि जननेषु नीचास्वपि जातिषु वर्तमानः शिवं प्रति नमन् भ्यासमिति यावत् / यदि शिवं प्रति नमन् भवे, अन्त्येष्वपि भूयासम्, अन्यथा तूत्तमेष्वपि न भूयासमित्यर्थः॥४॥ इति श्रीमद्रामदेव मिश्रसूनोर्बरदराजस्य कृतौ न्यायकुसुमाञ्जलिटीकायां द्वितीयः परिच्छेदः॥ परिच्छेदार्थमुपसंहरन् ईश्वरस्य नतिमाह / कामिति / जगत् = कार्यद्रव्यजातं, कृत्वा कृत्वा संहरन् , हृत्वा हृत्वा सृजन् , मायावशात् सृष्टिसंहारसहकारिसम्पत्तेर्यः क्रीडतीव, तं, देवं स्तुत्यं, सत्यविश्वासककारणं, भवं = जगन्मूलकारणम्, निष्प्रतिबन्धस्फुरदिच्छाप्रभावं शिवं प्रत्यु दिश्य नमनन्तकालेष्वपि भूयासमित्याशंसा // 4 // इति श्रीमहामहोपाध्यायश्रीवर्धमानविरचिते कुसुमाञ्जलिप्रकाशे द्वितीयः स्तबकः॥ 2 // प्रकाशिका। जगतो नित्यघटितत्वात, संहरणादिकमसम्भवीति व्याचष्टे / कार्यद्रव्येति / कार्यमात्र. नहर महाप्रलय एवेति तत्र पौनःपुन्यमनुपपपन्नमत उक्तं-द्रव्येति / माया पदार्थान्तरं न्यायमते नास्त्येव, मिथ्याज्ञानात्मिकापि नेश्वर इत्यन्यथा व्याचष्टे-सृष्टीति / तथा चादृष्टमेवात्र मायापदार्थ इति भावः। फोड़नमपि वास्तवमीश्वरे बाधितमित्यत आह-इवेति / ननु दीव्यतीति देवः वेदः देवनं च क्रीड़नं तच्चेश्वरे नास्तीत्य ( त पाह) र्थान्तरमाह / तत्यमिति / अवग्रहशब्दस्यैव वृष्टिप्रतिबन्धके शक्तिर्न च तेनायेंन प्रकृते सातिरिति प्रतिबन्धमापरतया व्याचष्टे-निष्प्रतिबन्धकेति / अन्येष्वपीत्यर्थः / विशिष्टस्य भवनस्याऽऽशंसायां समानताविरोधः, बहुत्वविशिष्टस्यान्तस्य जन्मबहुत्वाधीनत्वात, न च जन्म मुमुक्षोराशंसनीयमित्याशंसाविषयं विच्छिय दर्शयति / भूयासमित्याशंसेति / तेन भूयासमित्पाशीर्लिक स्क फिलमिति न दोषः / तथा च नमनविशिष्टभवनमात्रमाशास्यमित्यर्थः // 4 // इति श्रीमहामहोपाध्यायश्रीभगीरथापरनामकमेघठकुर विरचितायां कुसुमाञ्जलिप्रकाशिकायां द्वितीयः स्तबकः। मकरन्दः। नित्यस्य संहरणादिकमसम्भवीति व्याचष्टे-कार्यद्रव्येति / कार्य्यमात्रसंहरणं महाप्रलय. एवेति तत्राभीक्ष्णत्वमनुपपन्नं तस्याप्रकृतत्वञ्चेति द्रव्यपदमुपातम् / ईश्वरस्य मायावित्वे संसारित्या पत्तिरिति व्याचष्टे सृष्टीति / वास्तवक्रीडनमपि तस्य नास्तीत्यत आह / इवेति // 4 // अनि महामहोपाध्यायदेवदत्तात्मजमहामहोपाध्यायरुचिदत्तविरचिते कुसमा. अलिप्रकाशव्याख्याने मकरन्दे द्वितीयः स्तबकः॥ टत्वादाशंसेति विफल मिति न दोषः /