________________ द्वितीयस्तवकै ] प्रलयोपपादनम् / मिति। अथायमाशयः। वैदिका अभ्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते, न चैते प्रागपि नानुष्ठिता एव, तदर्थस्य वेदराशेरप्रामाण्यप्रसङ्गात्, समुद्रतरणोपदेशवत् / न चैवमेवास्तु, दर्शाधुपदेशेन तुल्ययोगक्षेमत्वात् / एवं, पुनः स कश्चित् कालो भविता यत्रैते अनुष्ठास्यन्ते, तथाऽन्येऽप्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते चेति न विच्छेदः / ततस्तददागममूलतेतिचेत् / एवं तर्हि प्रवाहादो लिङ्गाभावे कर्त्तव्यत्वागमयोरननुमानादसत्यां प्रत्यक्ष. श्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः / तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचारस्य सा चेदानीं नास्तीति शास्त्रोच्छेदः / अधुनाम्यस्ति सान्यत्रेति चेदत्र कथं नास्ति 1 / किमुपाध्यायवंशानामन्यत्र बोधनी। मेयवेदवादिनामेवाशयमाशङ्कते-अथायम् इति / प्रत्यक्षवेदमूलानामपि च तावदाचरितपूर्वाणामाचाराणामुच्छेदो दृश्यते, न हि ते पूर्वमप्यनाचरिता वक्तुं युक्तं तद्विषयस्य वेदस्यानुष्ठानलक्षणा. प्रामाण्यप्रसङ्गात् / न च तस्याप्रामाण्यमेवास्त्विति युक्तम् , अनुष्ठीथमानार्थदर्शपौर्णमासादिवाक्यैरश्वमेधादिवाक्यानां प्रामाण्यहेत्वविशेषात् / पूर्वकालवदुत्तरकालमनुष्ठास्यन्ते च कदाचिंदश्वमेधादयस्तद्वदन्येऽप्यप्रत्यक्षवेदमूला आचारत्वादेवोच्छेत्स्यन्ते पुनरनुष्ठास्यन्ते चेति तेषामपि विच्छेदेन भवितव्यम् / अतोऽनादित्वाभावादाचारपरम्परामूलत्वासंभवेनाश्वमेधादीनामिवाष्टकादीनामप्या. चारस्यागमो मूलं, स चानुमेय इति भावः। विवादपदाचारा वेदमूला उच्छेदानन्तरभावित्वात् राजसूयाश्वमेधादिवदिति / एवं तर्हि इति / यद्येषामुच्छेदस्तर्हि किं मूलाः पुनः प्रवर्तन्ताम् | न तावत्कर्त्तव्यतानुमानम् अनुमेयवेदो वा मूलं संभवति, तल्लिङ्गस्याचारस्य तदानीमभावात् , न पाऽश्वमेधादिवत्प्रत्यक्षश्रुतिरस्ति तदाचारस्वरूपस्य परिप्लवः स्यात् , न केवलं वेदमूलत्वमस्येत्यु पसंहरति-तम्मात् इति / तदेवं नित्यानुमेयत्वेन शाखानामुच्छेदाभावं वदन्तो निरस्ताः। संप्रतिमतान्तरमाशङ्क्ते-अधुनापि इति।स्मृत्याचारयोर्मूलभूता श्रुतिरिदानीमपि देशान्तरेऽधीयते तेन न तच्छाखोच्छेद इति / तदपि विकल्प्य दूषयति-अत्र इति। स्वाध्याय इत्यध्ययनमुच्यते अध्येतृसमानकर्तृकत्वादिति / न मनधीयानानामनुष्ठेयज्ञानासंभवादनुष्ठानं संभवतीति / देशान्तरा प्रकाशः। स्यागममूलकत्वव्याप्तौ प्रयोजकमाह / अथेति / अप्रामाण्येति / नित्यमननुष्ठानादित्यर्थः / तददिति / विवादाभ्यासिता आचारा वेदमूलाः, उच्छेदानन्तरभाविप्रवाहवत्वाद्राजसूयवदिति न प्रत्यक्षादिना सिद्धसाधनं, नाप्यत्यन्तमुच्छेद इत्यर्थः। प्रलये स्मृत्याचारयोरच्छेदाखिशाभावे. नासत्यां प्रत्यक्षश्रुतौ अनुष्ठानमेव न स्यादित्यसिद्धो हेतुरित्याह / एवं तहीति / न च घटादिसम्प्रदायप्रवर्त्तनार्थमीश्वरस्यापि शरीरपरिग्रहात् तदाचारादेव कर्तव्यताऽनुमितिः स्यादितिवाच्यम्। बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वाल्लाघवेन वेदरूपवाक्यस्य कल्पनादिति भावः / शाखो. च्छेद इति / व्यासादीनां ससहस्रशाखवेदज्ञातणां सत्त्वेऽपि साम्प्रतं तदध्ययनाभाव एव शाखोच्छेदः। स्मृत्याचारगृलं वेद इदानीमप्यन्यत्राध्ययनगोचर इति भट्टमतं शङ्कते। अधुनाऽपीति / परिहरति / अत्रेति / भारतवर्षे तदध्ययनाभावेऽप्यन्यत्र तदध्ययनकल्पनायां गौरवमिति भावः / . प्रकाशिका। मूल एवान्याशस्य वेदस्य मूलत्वानुपपत्तेरुक्तत्वादिति भावः / असिद्धो हेतुरिति / इदमुप. मकरन्दः / लत्वानुपपत्तेरित्यभिसन्धिः। श्रसिद्ध-इत्युपलक्षणं, चैत्यवन्दनायाचारप्रवाहे लौकिकाचारप्रवाहे च