________________ 218 व्याख्यानयोपेतप्रकाशयोधनीयुते न्यायकुसुमाखलौ [ 3 कारिकाव्याख्यायो मूलान्तरानपेक्षणात् / तत्कर्त्तव्यतायास्तु प्रत्यक्षाभावादप्रमिततया च शब्दानुमानानवकाशात् प्रत्यक्षश्रुतेरसम्भवाच्छिष्टाचारत्वेनैव कर्त्तव्यतामनुमाय तया मूलशब्दानुमानस् , तथा च किन्तेन ? तदर्थस्य प्रागेव सिद्धः। तथाप्यागममूलत्वेनैव तस्य ब्याप्तेरिति चेत् / अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् / आदिमतस्तत्त्वं स्यादयं वनादिरितिचेत् / श्राचारोऽपितर्हि प्रथमतस्तथा स्यादयं त्वनादिविनाऽप्यागमं भविष्यति / प्राचारकर्त्तव्यतानुमानयोरेवमनादित्वमस्तु किन्नश्छिनमिति चेत् / प्रथमं तावन्नित्यानुमेयो वेद इति, द्वितीयं च देशनैव धर्म प्रमाण बोधनी। प्राचारकर्तव्यताया हि मूलान्तरापेक्षेति / तर्हि तयैव वेदोऽनुमास्यत इत्यत्राह-तत्कर्तव्य. तायास्तु इति / ततः किमित्यत्राह-अमिततया इति / मा भूच्छन्दानुमानं प्रत्यक्षवेदेनैव तु कर्तव्यताप्रतीतिरस्त्वित्यत्राह-प्रत्यक्ष इति / श्राचारमूलस्य नित्यानुमेयत्वाभ्युपगमादिति / तस्माच्छिष्टाचारत्वेन कर्तव्यतामनुमाय वेदोऽनुमातव्यः। सा चेदनुमिता किं तेनानुमितेन वेदेन, तत्प्रमेयस्य कर्तव्यताया अनुमानादेव सिद्धेरिति / नन्वनुमानादेवाचारकर्तव्यतावगमेऽपि वेदमूलतैव तस्या अनुमीयते / कर्तव्यताया वेदमूलत्वेन ज्योतिष्टोमादौ व्याप्तयवधारणादित्याह -तथापिइति। यदि व्याप्तिबलादा गमो मूलमनुमीयते तीत एवानुमीयमानस्य वेदस्य प्रत्यक्षानुमानयोरन्यतरमूलत्वमनुमीयताम् , आगमत्वस्य तन्मूलत्वेन लोके व्याप्त्यवधारणादित्याह-त एव इति / एतच्च प्रकृतानुपयोगेऽपि परेषामनिष्टमित्येतावता प्रसजितमिति / श्रादिमत इति / आगमस्य प्रत्यक्षानुमानमूलत्वं दृष्टम् , अयं त्वनुमीयमानो वेदागमोऽनादिरतः कथमस्य तन्मूलतेति। तदे. तदाचारेऽपि वक्तुं शक्यत इत्याह-आचारोऽपि इति / य आचार आचरित्रा स्वयमेब मूलभूतमागममुपलभ्य प्रवर्तितः तस्यैवेदं प्रथमस्य ज्योतिष्टोमादेरागममूलत्वमुपलब्धम् / अयं त्वष्ट. कायाचारः पूर्वपूर्वाचारपरम्परोपलम्भमात्रेणानुष्टीयमानोऽनादिरतोऽयमागमनिरपेक्षो भविष्य. तीति / ननु मा भूदागमो मूलमाचारस्य शिष्टाचारत्वेन कर्तव्यतानुमानमेव. मूलं भविष्यति, शिष्टानामपि पूर्वानाचरतो दृष्ट्वा कर्तव्यतामनुमायाचारस्तेषामपि पूर्वतरानाचरतो दृष्ट्वा इत्याचारात् कर्तव्यतानुमानं, तदनुमानाच्चाचार इति अनन्ताभ्युपगमान्नेतरेतराश्रयत्वादिदोषप्रसक्तिरित्याह प्राचार इति / किनश्छिन्नम् इति / स्मृत्याचारयोर्मूलभूतो वेदोनत्यानुमेयः, चौदनैव धर्म प्रसाणमिति राधान्तद्वयमपि छियते, अनुमानस्यैव धर्ममूलत्वाभ्युपगमादिति। पुनरपि नित्यानु प्रकाशः। / तदिति / तृतीयं शङ्कते / तथापीति / दर्शादिव्यवहारस्य वेदपूर्वकत्वसहचारदर्शनादित्यर्थः / न हि सहचारमात्राद् व्याप्तिः। पौरुषेयवाक्यस्येव वैदिकवाक्यस्यापि प्रत्यक्षानुमानविवक्षापूर्वकत्वप्रसङ्गादिति परिहरति / अत एवेति / अत्रोपाधिमाह / श्रादिमत इति / आगमस्येत्यर्थः। श्राचारस्याप्यागमपूर्वकत्वे साध्ये स एवोपाधिरित्यनादिः स तन्निरपेक्षोऽपि स्यादित्याह / प्राचारोऽपीति / द्वितीयमिति / अनुमानस्यापि धर्मे प्रमाणत्वाभ्युपगमादित्यर्थः। आचार प्रकाशिका। लिङ्गस्य न मूलत्वमेवं तादृशवेदस्यापीति भावः। श्राचारोऽपीतीति / सायाचारोऽपि प्रत्यक्षवे' मकरन्दः। इति। तथा च यथा न नित्यानुमेयलिङ्गमूलत्वं तथान नित्यानुमेयवेदमूलत्वमपीति निगः। श्राचारोऽपोतीति। तथा च व्याप्तिबलादपिप्रत्यक्षश्रुतिमूलत्वमेव सिद्धथति,अन्यादृशश्रुतेरुक्तयुक्तथा मू