________________ द्वितीयस्तबके ] प्रलयोपपादनम् / 297 लत्वाभ्युपगमात् / तदसम्भवेऽप्यनुमानसम्भवात् / नित्यमझायमानत्वात्तदप्रत्यायक, कथमनुमानं, कथञ्च मुलमिति चेत् / वेदः किमशायमानः प्रत्यायकोऽप्रत्यायक एव वा मूलं, येन जडतम ! तमाद्रियसे / अनुमितत्वाशायमान एव इति चेत् / लिङ्गमप्येवमेवास्तु / अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता, कारणत्वात्, न तु पश्चात्तनीति चेत् / शब्दप्रतीतिरष्येवमेव / आचारस्वरूपेण शब्दमूलत्वमनुमीयते, तेन तु शब्देन कर्त्तव्यता प्रतीयते इति चेन्न / श्राचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन बोधनी। स्येष्टसाधनत्वे प्रत्यक्षमूलत्वासम्भवाद्वेद एव मूलं भविष्यतीत्यत्राह-तदसंभवेऽपि इति / तत्रापि शिष्टाचारत्वानुमानस्य मूलत्वासम्भवात्सिद्धसाधनतैवेति / अथवा धर्मादीनां कस्यचिल्लोकोत्तरस्य प्रत्यक्षत्वाभ्युपगमात् न वेदमूलत्वसिद्धिः, अर्वाचीनानां च मन्वादीनां प्रत्यक्षत्वासम्भवे शिष्टाचा. रानुमानमूलत्वासम्भवात्सिद्धसाधनतेति / नित्यम् इति / न तावदाचाराणां श्रेयासाधनस्वेन व्याप्तं किमपि लिजमिदं नामेति विशेषतो मन्वादिभिरुपगतम् / यथा हि वयं शिष्टानाचरतो दृष्टा कर्तव्यताज्ञानमन्तरेण तदसंभवात्तस्य च ज्ञानस्य प्रत्यक्षमूलत्वासम्भवात् किमप्येषामनुमान मूल. मिति सामान्यतोऽनुमिमीमहे, तथा मन्वादयोऽपि विशिष्टानामाचारमूलं किमप्यस्त्यनुमानमिति सामान्यतोऽनुमिन्वते, न तु लिङ्गविशेषम् / नित्यं च विशेषतोऽज्ञायमानं लिङ्ग कयं प्रत्यायक भवेत् , अप्रत्यायकं च कथमनुमानं कथं वाऽनुष्टातृणां कर्तव्यज्ञानस्य मूलं, ततो वेदत्वस्यैव सिद्धेः कथमनुमानेन सिद्धसाधनतेति भावः / वेदः इति / नित्यानुमेयत्वपक्षे विशेषरूपेणाज्ञातो वेदः कथं प्रत्यायको भवेत् कथं च वा मूलमिति / अनुमितत्वात् इति / अभियुक्ततराचरितत्वेनाष्टकादेरिष्टसाधनत्वकर्तव्यत्वे तावदभ्युपगम्य तत्प्रतिपादक एव वेदविशेषोऽनुमीयते, तेन विशेषतो विज्ञात एवेति / लिङ्गमपि इति / शिष्टाचारात्तन्मूलत्वेनानुमीयमानं लिजमपि विशिष्टमेवेति / अनुमेय इति / अत्र ह्याचारस्य हितसाधनत्वकर्तव्यतयोरनुमापकं लिङ्गम् अनुमेयं, तच्च यदि ताम्यामेवानुमीयते न ततोऽनुभयप्रतीतेलिङ्गप्रतीतिरिति स्यात् , तच्चायुक्तमिति / तदेतद्वेदानुमानेऽप्यविशिष्टमित्याह-शब्द इति / आचाराद्धि कर्तव्यतां ज्ञात्वा तजज्ञानमूलं वेदोऽस्माभिरनुमीयते यथा, तथा मन्वादिभिरपि प्रमेयभूतकर्तव्यतावगतेः पचात्तनिर्णायकप्रमाणभूतवेदावगतिरिति / ननु स्यादेवं यदि कर्तव्यतया वेदोऽनुमीयते न त्वेवमित्याह-श्राचार इति। न इति / प्रकाशः। स्याह / तदिति। विशिष्य लिङ्गाज्ञानान्न तद् गमकमतो न मूलमित्याह / नित्यमिति / नित्यानु. मेयो वेदोऽपि विशेषाकारेणानिश्चितत्वान्न तद्बोधकः स्यादित्याह / वेद इति / विशेषत इति शेषः / सामान्यतस्तज्ज्ञानं वेद इवानुमानेऽपि तुल्यमित्याह / अनुभितत्वादिति / आचारकर्तव्यताऽनुमानमूलेत्यनुमेयंपूर्वमाचारकर्त्तव्यतासिद्धौ स्यात् / सा च कर्तव्यताबोधकलिङ्गप्रतीतेः प्रागेव सिद्धति नानुमानमित्याह / अनुमेयेति / एवं शब्दप्रतीति विनाऽपि कर्त्तव्यताबुद्धेः सिद्धत्वाद् व्यर्थ शब्दानुमान मति तुल्यमित्याह / शब्देति / विशिष्टशिष्टाचारेण वेदमूलत्वमनुमीयते, अतो न प्रत्यक्षादिना सिद्धसाधनमित्याह / आचारेति / श्राचारस्वरूपसिध्यर्थ वेदानुमानं, तत्कर्त्तव्यताबोधार्थ, व्याप्तिमात्रेण वा ? नायः / तत्र प्रत्यक्षस्यैव मूलत्वादित्याह / प्रत्यक्षेति / न द्वितीयः / कर्तव्यतायामज्ञातायां वेदाननुमानात् तज्ज्ञाने च तदनुमानवैयर्थ्यादित्याह / प्रकाशिका। प्रमाणत्वमपि तस्य ज्ञातमित्यज्ञायमानत्वमसम्भवीत्यत आह विशिष्येति / वेदस्यापि प्रमाणत्वेन रूपेण ज्ञायमानत्वमस्त्वेवेत्यतः पूरयति-विशेषत इतीति / तथा च यथा विशिष्याशातस्य मकरन्दः। स्वेनानुमितत्वादज्ञायमानत्वमसम्भवीत्यत आह / विशिष्येति। उक्ताभिप्रायेणाह विशेषत 38 न्या० कुछ