________________ 296 व्याख्यात्रयोपैतप्रकाशबोधनीयुते न्यायकुसुमाखलौ [ 3 कारिकाव्याख्यायां यदि व शिष्टाचारत्वादिदं हितसाधनं कर्तव्यं वेत्यनुमितं किं वेदानुमानेन, तदर्थस्यानुमानत एव सिद्धः। न च धर्मवेदनत्वादिदमेवानुमानमनुमेयो वेदः / प्रत्यक्षसिद्धत्वात् / अशब्दत्वाच्च // . अथ शिष्टाचारस्वात् प्रमाणमूलोऽयमिति चेत् / ततः सिद्धसाधनम् / प्रत्यक्षमू बोधनी। प्रामाण्यमपि निधित्य मन्वादयः स्मरिष्यन्ति अनुष्ठास्यन्ति चेत्यत्राह-यदि हि इति / तदर्थस्यन अनुमेयवेदप्रमेयस्य शिष्टाचारत्वानुमानेनैव सिद्धेरिति / धर्माधर्मावेदकत्वं हि वेदत्वं, तच्च शिष्टाचारानुमानस्यास्तीति तदेवानुमेयो वेदो भविष्यतीत्यत्राह-न च इति / शिष्टाचारस्य प्रत्यक्ष. त्वान तावदनुमेयत्वम् अशब्दात्मकत्वादिति। - ननु यदि वयं शिष्टाचारत्वेन कर्तव्यत्वहितसाधनत्वे अनुमास्यामः, ततो वेदानुमानमनर्थक स्यात् / प्रमाणमूलमात्रमनुमीयत इत्याह-अथ इति / तत्र च पक्षधर्भताबलादिमूलत्वमेव सिध्य तोति भावः / ततः इति / प्राचारस्वरूपस्य प्रत्यक्षमूलत्वासिद्धसाधनमिति / ननु शिष्टाचार प्रकाशः। अत्राहुः / उच्छिन्नवेदादर्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः सामग्न्यन्तरकल्पने गौरवम् / अत एव च न बाधाश्रयासिद्धी / स्मृत्याचारमूलस्य वेदस्यास्माभिरभ्युपगमात् , तथा च मृत्या भारयोर्वेदजन्यानुभवमूलकत्वानुमानादेव पक्षधर्मताबलेन प्रत्यक्षवेदमूलकत्वसिद्धिः। अमनुभा. वकस्य मूलत्वानुपपत्तेः / स्तुतिनिन्दार्थवादाभ्यामपि प्रवृत्तिनिवृत्तिपराभ्यां प्रवृत्तिनिवृत्तिहेतुरर्थ एव कल्प्यते, लाघवात् / न तु विधिनिषेधवाक्यं, गौरवादुक्तदोषाच्च / यत्र चार्थवादादेव तज्ज्ञानं, तत्र "तरति मृत्यु" मित्यादौ न तत्कल्पनाऽपि / न च बहुभिर्मेधाविभिराध्यात्मिकशक्तिसम्पनैध्रियमाणायाः शाखाया न शाखान्तरवदुच्छेदसम्भव' इति वाच्यम् / एकस्य न समग्रशाखाऽध्ययने शक्तिरित्येकेनेवापरैरपि तदनध्ययने तदुच्छेदसम्भवात् / एकानधीतायास्तस्या अप. राध्ययनविषयत्वनियमे मानाभावात् / न च शाखोच्छेदे वर्गादिहानिशङ्कया प्रत्यक्षवेदादपि वाक्यार्थप्रयोगयोरनिश्चये वैदिकव्यवहारोच्छेदः, श्रूयमाणमात्रस्यैव महाजनपरिगृहीतत्वेन तत एव तन्निधयात्, तस्माद् स्मृत्याचारानुमितो वेदः प्रत्यक्षोऽध्ययनविषयश्च वेदत्वात् संमतवत् / विपक्षे च बाधकमुक्तं गौरवमिति सड्क्षेपः। दुषणान्तरमाह / यदि चेति / वेदेनापि हि प्रवृत्तिहेतुकार्यत्वज्ञानं तद्धेतुत्वज्ञानं वोत्पाय प्रवृत्तिर्जन्येत्यावश्यकत्वाल्लाघवाच तदेवानुमीयतां, किं तद्बोधकवेदेनेत्यर्थः। तदर्थस्यकार्यत्वज्ञानादेः / ननु धर्मवेदकत्वहेतुको वेदव्यवहारस्तञ्च लिङ्गेऽप्यस्तीति तदेव नित्यानुमेयवेदशब्देनोच्यते इत्यत आह / न चेति / प्रत्यक्षसिद्धत्वान्न नित्यानुमेयत्वम्, अशब्दत्वाच न वेदत्व. मित्यर्थ / - प्रमाणसामान्यानुमानेऽपि पक्षधर्मताबलात् तद्विशेषवेदसिद्धिः स्यादित्याह. अथेति। सामान्यबुद्धेरीश्वरप्रत्यक्षविषयत्वेनाप्युपपत्तेनं सा विशेषमवगमयतीत्याह / प्रत्यक्षेति / ईश्वरप्रत्यक्षानभ्युपगन्तृमतेऽपि भोजनादेरिव कर्तव्यताज्ञानेऽनुमानमेव मूलं स्यादि. प्रकाशिका। दादेवेति बलवदनिष्टाननुबन्धित्वज्ञानश्च न प्रवर्तकमिति भावः / तदेवेति / कार्यत्वं हि तहेतुकत्वं वेत्यर्थः / तदर्थस्येति / तत्प्रयोजनस्येत्यर्थः / विशेषमिति / वेदमित्यर्थः / धम्मिग्राहकेणैव मकरन्दः / तदेवेति / कार्यत्वं तद्धेतुत्वं वेत्यर्थः / तदर्थस्येति / तत्प्रयोजनस्येत्यर्थः / प्रमाण