________________ द्वितीयस्तषके ] प्रलयोपपादनम् / 265 उत्पत्तितोऽभिव्यक्तितोऽभिप्रायतो वाऽनवच्छिन्नवर्णमात्रस्य निरर्थकत्वात् / बोधनी। तर्हि वेद एव स न स्यात् / वेदो नाम श्रुश्रूषाराधितगुरुमुखादिगतं द्विजातिभिरधीयमान क्रमस्वरादिविशेषोपेतं वर्णकदम्बकं न तु वर्णमात्रम् , न चैतन्नित्यमनुच्चारितस्य सम्भवति, तेन नित्यानुमेयो वेद इति परस्परपराहतं वचनमिति / इतश्च न वेदत्वं तस्येत्याह-उत्पत्तितः इति / धर्माधर्मयोरावेदनाद्वेदः, वेदत्वं चानुपूर्व्या विशिष्टानां वर्णानां न केवलानाम् , भानुपूर्वी च वर्णामामुत्पत्तितो भवति यथा नैयायिकानाम् , अभिव्यक्तितो वा यथा वैय्याकरणानाम् , अभिप्रायतो वा यथा न्यूनवाक्यप्रयोगे वक्त्रभिप्रायावच्छिन्नैर्वणैर्वाक्यपूरणेनार्थप्रतीतिः। त्रिधा चेयमानुपूर्षी नित्यमनुच्चारितानां न सम्भवतीत्यनर्थकत्वाद्वेदत्वव्याघात इति / ननु मा भूद् वेदत्वं तथापि शिष्टैराचर्यमाणत्वादष्टकादेरिष्टसाधनत्वं कर्तव्यत्वं च ज्योतिष्टोमवदनुमाय तत्र चानुमेयवेदस्य प्रकाशः। तस्य =अपठितस्य / 'उत्पत्तित इति स्वमते, अभिव्यक्तित इति परपक्षे, अभिप्रायत इति उभयत्र / यथा मौनिश्लोकोऽपठितः श्रोत्रानभिव्यक्तश्चाभिप्रायस्थस्तथा वेदोऽपीत्यपि नेत्यर्थः / तयात्वेऽनिश्चितानुपूर्वीकपदकदम्बस्वरूपत्वे नित्यानुमेयत्वव्याघात इति भावः / ___ अत्र स्मृत्याचारमूलं वेदोऽध्ययनविषयो न वा, वेदत्वमध्ययनविषयत्वव्याप्यं न वेति विप्रा तिपत्तिः, ननु स्मृत्यर्थापकत्वेन ज्ञातस्यैव वेदस्य स्मृत्यर्थानुभावकत्वम् , न हि शाब्दबोध नियः तपदानुपूर्वी हेतुः, गामानयानय गामित्यत्रः तदभावेऽपि तत्सत्त्वात् / पदस्य वर्णविशेषानुपूर्वीनियमेऽपि तत्तद्वर्णानुपूर्वीकपदविशेषो न हेतुः, घटकलशपदानां प्रत्येक व्यभिचारात् / किन्त्वभ्यभिचारितदर्थज्ञापकत्वेन ज्ञातस्य, लाघवादावश्यकत्वाच्च / अत एव, वर्ण लोपे दन्त्यादिसका. रादिसन्देहे सत्यपि वाक्यार्थधीः। न च क्रमिकपदवत्त्वं वाक्यत्वम् अनुच्चार्यमाणस्य चोच्चारणधटितक्रमासम्भव इति वाच्यम् / गौरश्व इत्यादौ तत्सम्भवेऽपि वाक्यत्वाभावात्। विशिष्टा. र्थपरशब्दत्वन्त्वत्रापि तुल्यम् / न चानुच्चार्यमाणस्य न वाक्यत्वम् / लिप्यनुमितानां मौनिश्लोकस्य च वाक्यत्वात् / किञ्च वाक्यमुच्चार्यते, न तूचारणाद्वाक्यत्वम् / वाक्यमुच्चारयेदि. त्यत्रानन्वयापत्तेः ! उच्चारणदशायां वाक्यत्वे वाक्यस्यासत्त्वापत्तेः। एकदा तावत्पदानामुचारणाभावात् / अथ तदर्थज्ञापकत्वेन ज्ञातात् पदात् पदार्थज्ञानमात्रं स्यान्न संसर्गज्ञानम् / अन्कयप्रकारकर्मत्वायुपस्थापकविभक्त्यादिसमभिव्याहाराभावात् / मैवम् / अनुमितवेदाद्वाक्यार्थानुभवे सामग्या वैलक्षण्यात् / धर्मिग्राहकमानेन तवाशरीरेश्वरकर्तृत्वस्यैव स्मृत्यर्थानुभावकत्वे. नैव तस्य सिद्धः। अन्यथाऽन्यत्र क्लुप्तहेतुं विना न सोऽनुभावक इत्यादौ तदसिद्धावाश्रयासि. द्विस्तत्सिद्धौ च बाधः / अत एव स्तुतिनिन्दार्थवादकल्पितविधिनिषेधकवेदादर्थमवगत्य प्रव. त्तिनिवृत्ती। अन्यथा विधिनिषेधकवेदानां नानाप्रकारकत्वेन विभक्त्यादिविशेषवत्पदस्यानुमा. तुमशक्यत्वान्न ततोऽर्थधीः स्यात् / एवमाचारानुमितवेदादपि प्रवर्तककर्तव्यताधीः स्मृत्याचारानुमितो वेदोऽर्थ बोधयतीति पूर्वपूर्वानुमितवेदादुत्तरोत्तरस्मृत्याचाराविति नान्धपरम्परा, स्वतन्त्रप्रमाणमूलकत्वादिति। प्रकाशिका। त्यर्थ / तथा च तवापि सिद्धान्तविरोध इति भावः / घटकलशेति / , घटपदकलसपदादीनामि. त्यर्थः / घटरूपार्थबोघे तेषां जनकत्वेनानुपूर्व्याः परस्परव्यभिचारादिति भावः / यत्र चार्थवा मकरन्दः / घटकलशेति / घटकलसपदानामित्यर्थः / शेषं शब्दप्रकाशे द्रष्टव्यम् /