________________ प्रकाशः। 264 व्याख्यात्रयोपेतप्रकाशबोधनोमुले न्यायकुसुमाञ्जलौ [ 3 कारिकाव्याख्यायां : स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् / स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात् / मत्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात्। आचारात् स्मृतिः स्मृतेश्चाचार इत्यनादिताऽभ्युपगमे अन्धपरम्पराप्रसङ्गात् / श्रासंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् / वोधनी। र्शनादिति, वीजाङ्कुरन्यायेनानादित्वेन स्मृत्याचारयोः प्रामाण्यसिद्धेः किं शब्दानुमानेनेत्याशहृयाह-प्राचारात् इति / अन्धानां मुग्धरूपस्मरणतुल्यताप्रसङ्गात् / यथा हि तद् रूपनिर्णयसा. पेक्षं तथा धर्मनिर्णये स्मृत्याचारः स्मृतेरनुभवापेक्षत्वादाचारस्य प्रमेयत्वेन प्रमाणापेक्षत्वात् , अतस्तयोरेवान्योन्यमूलत्वाभ्युपगमेऽन्धवाक्यपरम्पपरातुल्यता प्रसज्यत इति / तर्हि तयोर्वेदमेव मूलमनुमास्यामः स तु वेदो मन्वादीनो प्रत्यक्षः इदानीमुच्छिन्न इति नाभ्युपगच्छामः, किन्तु तैरपि पूर्वस्मृत्यादिना तैरपि पूर्वतमस्मृत्यादिना, ततश्च सर्वेषां नित्यानुमेयस्यैव वेदस्य मूलत्वान्न शाखो. बछेदः, नाकन्धपरम्पराप्रसक्तिरिति प्राभाकरस्तत्राह --श्रा संसारम् इति / यदि सर्वैरप्यनाम्नातः अक्लुप्तमूलान्तरत्वे सति महाजनपरिगृहीतस्मृतित्वात् , प्रत्यक्षवेदमूलस्मृतिवत् / अतो न न्यायादिमूलकस्मृतौ व्यभिचारः / तथा, मङ्गलाद्याचारो वेदबोधितः, अलौकिकविषयाविगीतशिष्टाचार स्वात् यागवदिति स्मृत्याचारमूलस्य वेदस्याप्रत्यक्षत्वात् तदुच्छेदे तद्वदधीयमानवेदस्याप्युच्छेदो भावीस्याह / स्मृतीति / ननु वेदवत् स्मृत्याचारयोरदृष्टे स्वतः प्रामाण्यमेवेति न तन्मूलकवे. दानुमानमित्यत आह / स्वातन्त्र्येणेति / वेदनरपेक्ष्येण स्मृत्यादेस्त्वयाऽपि प्रामाण्यानभ्युपगमादित्यर्थः / ननु स्मृतिकर्तारः स्वयमेवापूर्व साक्षात्कृत्य तत्साधनमुपदेश्यन्तीति न तेषां तदर्थ वेदापेक्षेत्यत आह / मन्वादोनामिति / अतीन्द्रियार्थदर्शित्वे तेषामनाश्वासादिति भावः / ननु भूयः शिष्टाचारदर्शनात् स्मृतिप्रणयनम् , ततः पुनःरिदानी शिष्टाचारपरम्परा स्यादिति किं तन्मूलवेदानुमानेनेत्यत आह / आचारादिति / उभयोरप्यनुमानमूलकत्वेनाव्यवस्थापकत्वात् तादृशस्मृत्याचारयोर्वेदमूलकत्वव्याप्तेस्तव देशनाया एव धर्म मानत्वाच तयोरमानकरवापातादित्यर्थः / मनु नित्यानुमेयो वेदस्तन्मूलं स्यादतो न शाखोच्छेद इत्यत आह / प्रासंसारमिति। अनाम्ना. प्रकाशिका। अक्लुप्तेति / न्यायमूलकत्वं सत्यन्तार्थः। लोभमूलकस्मृतौ व्यभिचार इति महाज. नपरिगृहीतेति / प्रत्यक्षभूलकवाक्ये व्यभिचार इति स्मृतीति / स्मृतित्वश्चादृष्टज्ञापकवाक्यत्वम् / अतो न ऋषिप्रणीतदृष्टान्तार्थकवाक्ये व्यभिचारः / नन्वनुमानमपि स्वतः माणमेवेति कथं तन्मूलकत्वे नाश्वास इत्यरुचेराह / तादृशस्मृत्याचारयोरिति / ननु तत्रापि व्याप्तावसम्भवन्मूलान्तरत्वमुपाधिरित्यरुचेराह-तव देशनाया इति / मीमांसक्रस्ये. मकरन्दः / वारणार्थम् / ताप्यसिद्धयेऽनुभावकान्तम् / न्यायादिमूलकस्मृतौ व्यभिचारवारणाय अक्ल. प्तेति / असम्भवन्मूलान्तरत्वे सतीत्यर्थः / ननु महाजनपरिगृहीतपदं व्यर्थमिति चेत् / सत्यम् / भ्रम एवात्र मूलमित्यसिद्धिशानिरासाय तदुपादानात् न तु हेतुविशेषणत्वे तात्पर्य्यमित्येके / लोभादिभिनन्यायादिमूलकत्वाभावमात्रे सत्यन्ततात्पर्य्यम् / एवञ्च लोभादिमूलकस्मृतावेव व्यभिचारवारणाय तदित्यन्ये। लोभस्य वस्तुगत्या मूलत्वाभावान्मूलपदस्य प्रामाणिकमूलपरत्वाद्वा सत्यन्तेन लोभमूलकस्मृतौ व्यभिचारवारणाय तदुपादानमित्याहुः। अलौकिकेति / एतच्च द्रव्यप्रकाशे व्याख्यातम् / नन्वनुमानमूलकत्वेऽपि नान्धपरम्परा न हि प्रत्यक्षमात्रं प्रमाणमित्या. शयादाह तादृशेति / नन्वत्राप्यसम्भवन्मूलान्तरत्वमन्यथा न्यायादिमूलकस्मृतावपि तथात्वा. पत्तिरित्यनुशयादाह तवेति। मीमांसकस्येत्यर्थः। तथा च तवापसिद्धान्त इति भावः।