________________ प्रकाशः। द्वितीयस्तवके] ... प्रलयोपपादनम् / 293 पूर्व हिमानस्यः प्रजाः समभवन् , ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः, ततः कामाऽवर्जनीयसन्निधिजन्मानः, इदानी देशकालाद्यव्यवस्थया पशुधर्मादेव भूयिष्ठाः। पूर्व चरुप्रभृतिषु संस्काराः समाधायिषत, ततः क्षेत्रप्रभृतिषु, ततो गर्भादितः इदानीन्तु जातेषु लौकिकव्यवहारमाश्रित्य / _पूर्व सहस्रशाखः समस्तो वेदोऽध्यगायि, ततो व्यस्तः, ततः षडङ्ग एकः, इदानीन्तु क्वचिदेका शाखेति / पूर्वम् ऋतवृत्तयो ब्राह्मणाः प्रायोतिषत, ततोऽमृतवृत्तयः, संप्रति मृतप्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्तयो भूयांसः। पूर्व दुःखेन ब्राह्मणैरतिथयोऽलभ्यन्त, ततः क्षत्रियातिथयोऽपि संवृत्ताः, ततो वैश्यावेशिनोऽपि, संप्रति शूद्रान्नभोजिनोऽपि / पूर्वममृतभुजः, ततो विघसभुजः, ततोऽन्नभुजः, संप्रत्यघभुज एव / पूर्व चतुष्पाद् धर्म आसीत्, ततस्तनूयमाने तपसि त्रिपात्, ततो म्लायति शाने द्विपात, संप्रति जीर्यति यज्ञे दानेकपात्, सोऽपि पादो दुरागतादिविपादिकाशतदुःस्थोऽश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलभ्यते / इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते इति चेन्न / . बोधनी। अन्मनो हासं व्याचष्टे-पूर्व हि इति / पूर्व श्रुतयः स्मृतिदर्शनात्तत्स्मृतयश्च पूर्वतमविशिष्टाचारद वेदहासे दृष्टान्तार्थ जन्मादिहास उक्तः। प्रतियुगं क्रमेण ह्रासमाह / पूर्व हीति / समाधायिषत सम्यगाहिता इत्यर्थः / श्रूयमाणा अपि वेदा उच्छेत्स्यन्ति, बाक्यत्वात् , उच्छिअशाखावदिति भावः। ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम्। मृतं तु याचितं भक्ष्यं प्रमृतं कर्षणं स्मृतम् // सत्यानृतं तु वाणिज्य कुसादञ्च कलान्तरम् // पाशुपाल्यं = गोरक्षादि / श्ववृत्ति = सेवा / वैश्यावेशिनो वैश्याऽतिथयः / अमृतभुजो= यज्ञशेषभुजः / विघशभुजो=अतिथिशेषभुजः। अन्नभुजो=भृत्यशेषभुजः / अधः भुजः = स्वार्थसाधितभुजः / चतुष्पादिति / तपोज्ञानयज्ञदानानि चत्वारः पादाः। दुरागतंदुष्टादुपायाद् द्यूतादेरागतम् , तदेव विपादिका पादरोगः। / ननु न शाखोच्छेदः, किन्तु यावान् वेद इदानीमधीयते तावानेव सदाऽध्ययनविषय इति वेदहासोऽसिद्ध इत्याह / इदानोमिति / विवादपदं स्मृतिः, स्मृत्यर्थानुभावकवेदमूला .. . प्रकाशिका। - मूले पूर्व सहस्रशाखा इत्यादिना विद्याहासे कथ्यमाने शक्तिस्वाध्याययोरपि हास उक्त एवेतिन तयोरुदाहरणान्तरं पूर्वमृतवृत्त्य इत्यादि किन्तु कारिकास्थाऽऽदिपदसंग्राह्यकथनम्, पूर्व चतुष्पादित्यादिना कर्महास उक्त इति बोध्यम् / विवादपदमिति / प्रत्यक्षवेदाऽमूलाऽदृष्टाचेत्यर्थः / लोभमूलकस्मृतेस्तु स्मृतिपदेनैव वारणम् , स्मृतिपदस्य ऋषिप्रणीतवाक्यपरत्वात् / वेदमूलत्वं वेदजन्यानुभवजन्यत्वमदृष्टद्वारा वेदजन्यानुभवजन्यत्वासिद्धिशङ्कानिरासाय स्मृत्यर्थानुभावकेति साध्यविशेषणम् / मकरन्दः। विवादपदमिति / एतच्च प्रत्यक्षवेदमूलस्मृत्यंशे लोभादिमूलकस्मृत्यंशे च सिद्धसाधनबाधादि - टिप्पणी। ऋतमुञ्छशिलमिति। "उग्छः कणश आदानं कणिशायर्जनं शिलम्" कणिशं= शस्यमजरी। इति धर्मदत्तोपाध्याय ( प्रसिद्ध वच्चामा ) इतकुसुमाजलिप्रकाशद्वितीयस्तवकटिप्पणी समाप्ता //