________________ 262 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 3 कारिकाव्याख्यायां यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः, यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः। न च कार्यस्य स्थितिनिबन्धनं नित्यमेव / नित्यस्थितिप्रसङ्गात् / न च नित्य एव हेतुः, अकादाचित्करवप्रसङ्गात् / तदतिनिस्तरङ्गमेतत् / . ईदृश्याञ्च वस्तुस्थिती भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पादुनीय इति घणुकवत् पिपीलिकाण्डादेब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसिद्धिः। तथा च ब्रह्माण्डे परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासोनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्तन्ताम् ? कुपितकपिकपोलान्तगतोदुम्बरमशकसमूहवद्, दवदहनदह्यमानदारूदरविघूर्णमानघुणसङ्घातवत्, प्रलयपवनोल्लासनीयौनिलनिपातिपोतसांयात्रिकसार्थवति // 2 // अपि चजन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः // हासदर्शनतो हासः सम्प्रदायस्य मीयताम् // 3 // बोधनी। अस्त्वेवं, तथापि कार्यस्थितिनिवन्धनमुत्पत्तिहेतुश्च किमिति सर्वदा न स्यातामित्यत्राह-न च इति / निरस्तः प्रवाहोऽनादिमानित्यत्रेति / / __ यदि कार्योत्पत्तिविनाशयोर्भोगविशेषोऽप्रयोजकः तर्हि भोगार्थः कर्मभिः सर्वेषामुत्पाद इति सिद्धान्तो व्याकुप्येतेत्यत्राह-ईदृश्याम् इति / इयं तावदस्यितिर्न च तत्र सिद्धान्तहानिः / कर्माण्येव वस्तुस्थितिमनतिक्रामन्ति तद्भोगसमर्थवस्तूत्पादनद्वारेण भोगविशेषं सम्पादयन्ति, तेन येषां वस्तूनामुच्छेदस्वभावो न तेषामनुच्छिन्नानां भोगसाधनत्वम् , अन्यथा नानापुरुषादृष्टोत्पादि. तर कस्यैव पटस्य परःसहस्रं वत्सरानवस्थितस्य क्रमेणं भोगसाधनत्वप्रसङ्ग इति भावः। तस्मायथा द्वणुकेषु भोगाभावेऽपि स्थितिनिबन्धनहेत्वोरपगमोपगमाभ्यामेव,विनाशोत्पत्ती तथैव विश्वस्यापि कार्यस्य ते भविष्यत इत्याह-इति द्वयणुकवत् इति / एवं विपक्षे बाधकसद्भावात्सृष्टिप्र. लयानुमानयोः सिद्धः प्रतिबन्ध इत्याह-इति इति / तदेवमापरमाणोर्ब्रह्माण्डस्य विनाशसिद्धौ कैव कथा तदन्तर्वर्तिनः कार्यस्येत्याह-तथा च इति। तदन्तर्वतिभिः सह विनश्यतीत्यत्र निदर्शनान्याह-क्रपिकपोल इति // 2 // न केवलमनुमानं दर्शनं च प्रलयसद्भावानुगुणमित्याह-अपि च इति / जन्मादेहासदर्शनात्स्वाध्यायाध्ययने कर्मणोऽनुष्ठाने पुरुषाणां शक्तेश्च ह्रासदर्शनात् संप्रदायस्य हासोऽवगम्यत इति। दृश्यामिति / अनित्यहेतुनिबन्धनायां कार्यस्थितौ कर्मभिः सम्पादनीयो भोग एवमेव वस्तुस्वभावानतिक्रमणेति योजना। नन्वेवमपि ब्रह्माण्डनाशसिद्धौ गिरिसागरादीनां कुतः प्रलय इत्यत आह / तथा चेति / क वर्तन्तामिति / विनश्यन्तीत्यर्थः। महाद्रव्यान्तरेण निहन्यमा. नाधारत्वाद् , महादहनदयमानाश्रयत्वाद् , महापवनक्षुभितसमुद्रविलीयमानाश्रयत्वादित्यत्र हेतुत्रये क्रमेण दृष्टान्तत्रयमाह कुपितेति / एतेनाधाराभावात् पतन्त एव सन्तीत्यपास्तम् // 2 // एवं सर्वस्य नाशे अर्थाद् वेदोऽपि नश्यतीत्युपपाय वेदह्रासदर्शनेनापि तन्नाशोऽनुमेय इत्याह / अपि चेति / प्रकाशिका। * भोगस्य कर्मसम्पादनीयत्वं मीमांसकोऽपि स्वीकरोत्येवेति तद्विधानमनर्थकमत आहकर्मभिरित्यादि // 2 // टिप्पणी। धारकालाबोधकत्वादिति / तत्तात्पर्यवत्वानिश्चयेत्यादि // 2 // प्रकाशः।