________________ द्वितीयस्लनके ] . प्रलयोपपादनम् / . 286 प्रकाशः। बाच्यम् / एतदन्यगुणवत्वस्योपाधित्वात्। नाप्यारम्भककालान्यवृत्तिध्वंसाप्रतियोगिवृत्तिकार्यद्रव्यत्वं, स्वाधिकरणानधिकरणवृत्तिध्वंसप्रतियोगिति, कार्यमात्रवृत्तिधर्मत्वात् , एतत्प्रदीपत्ववदिति वाच्यम्। स्वपदेन पक्षभिन्नाभिधानेऽनन्बयात् / पक्षाभिधाने त्वप्रसिद्धिः। __अत्राहुः। विश्वसन्तानपदेन कार्यमात्रवृत्त्यनेकवृत्तिर्द्धमः कार्यदव्यत्वं पक्षः। तथा हि, समयसम प्रकाशिका। तत इत्यनेन परामृध्यते मूर्चत्वस्यावच्छिन्नपरिमाणवत्वार्थकत्वे अवच्छिन्नपदवैयर्थ्यादिति कश्चित् / एतदन्येति / पक्षेतरत्वनिरासाय तदन्यत्वं विहाय एतवृत्तिगुणान्यगुणवत्त्वपर्यन्तानुधावनम् / यद्यप्ययमपि पर्वतेतरद्रव्यत्ववन्नोपाधिः साध्यब्यापकताग्राहकसत्त्वे तु वह्नीतरत्ववदेतदन्यत्वमुपाधिः सम्भवस्येव, तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् / नाप्यारम्भकेति / आकाशवृत्तिध्वंसप्रतियोगिवृत्तित्वमादायार्थान्तरमिति वृत्यन्तं पक्षविशेषणम् / तस्यापि तादृशध्वंसप्रतियोग्यवृत्ती. त्यर्थोऽन्यथो तार्थान्तरतादवस्स्यात् / इयञ्च कालाघटितसाध्यपक्षे व्याख्या। यदा तु कालघटितं साध्यंतदोक्तार्थान्तरशङ्काविरहादुपरञ्जकमेव तद्विशेषणम् / स्वपदेनेति / पक्षभिन्नस्य दृष्टान्तीकृतसत्प्रदीपत्वादेरभिधाने अनन्वयः, उद्देश्यप्रलयासाधकत्वात् / पक्षाभिधाने तु तादृशकालाप्रसिद्धरित्यर्थः / इदज कालघटितसाध्यपक्षे व्याख्यानम् / तदघटितसाध्यपक्षे तु पक्षभिन्नयावदभिधाने तदधिकरणानधिकरणधर्मिणोऽभावात् साध्यस्य क्वचिदप्यसत्वादनन्वयः / पक्षाभिधाने त्वप्रसिद्धिः, दृष्टान्ते साध्यासिद्धिरिति व्याख्याता उक्तदोषनिरासाय स्वपदकालपदाघटितं साध्य मादाय सिद्धान्तयति-तथा हीति। श्राकाशादिवृत्तिध्वंसप्रतियोगिवृत्तित्वमादायार्थान्तरशता मा भूदिति बाधस्फोरणाय समयेत्यादि अवृत्तीत्यन्तं पक्षविशेषणम् / समयपदं साधारणाधिकरणपरमतो न पक्षविशेषणासिद्धिः, तादृशशब्दवृत्तित्वेनार्थान्तरमिति पक्षे द्रव्यपदं स्वरूपासिद्धिवारणाय, पक्षे कार्यपदं महाप्रलयेनार्थान्तरवारणाय, साध्ये समानकालीनान्तमनधिकरणान्तविशेषणं न तु ध्वसविशेषणमिदानीन्तनध्वंसस्यापि महाप्रलये सत्त्वादुक्तान्तरतावस्थ्यात् / ध्वंस मकरन्दः। एतदम्येति / यद्यपि पक्षेतरत्वनिरासाय गुणवत्पदमयुक्तं, साध्यव्यापकताप्राहकसत्त्वे वहीतरत्ववत्वस्याप्युपाधित्वात्, तदसत्त्वे पर्वतेतरद्रव्यत्वादिवदस्यापि पक्षेतरतुल्यत्वेनानुपाधित्वात् , तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् / अनन्वयादिति। प्रकृतानन्वयात् कार्य्यद्रव्याधिकरणकालासिद्धे. रित्यर्थः / पक्षेति / कार्यद्रव्याधिकरणद्रव्यादेः प्रसिद्धत्वेऽपि तादृशकालस्याप्रसिद्धः साध्ये कालपदान्त वादप्रसिद्धिरिति भावः / एतदनन्तर्भावेण सिद्धान्तमाह तथा हीति / समयेत्युपलक्षणं तनुपाधि-दिक्-तदुपाध्यादिकमपि बोध्यम् / एतच्च तादृशाकाशवृत्तिध्वंसप्रतियोगिवृत्तित्वेनार्थाः न्तरं मा भूदिति बाधस्फोरणाय समवायिपदं द्रव्यसमवायिपरम् / तादृशशब्दवृत्तित्वेनार्थान्तरवारणाय पक्षे द्रव्यपदम् / महाप्रलयेनार्थान्तरवारणाय कालीनान्तं ध्वंसविशेषणम् / कार्यप्रागभापपदयोरन्यतरान्तर्भावेण साध्यद्वयं बोध्यम् , अतो न व्यर्थविशेषणत्वम् / कार्यपदं भावकार्य: परम् / कार्यद्रव्यानधिकरणत्वं कार्यद्रव्याभाववत्त्वं, तच्च कपालादावपीति तद्वृत्तिध्वसमादायार्था टिप्पणी। वृत्तित्वं न तु प्रलयवृत्तित्वन्तस्यासिद्धस्तथा च बाध इति भावः। एतदन्यगुणवत्त्वस्योपाधित्वादिति / यद्यप्येतस्य पक्षेतरत्वतुल्यत्वम् / तथापि हेतोरप्रयोजकत्वे तात्पर्य्यम् / प्रारम्भककालान्येति / श्रारम्भको द्रव्यसमवायिकारणं तस्मात् कालाच यदन्यत् तद्वृत्तिध्वंसप्रतियोगिवृत्तिस्वाभावादित्यर्थः / उक्तविशेषणोपादानादाकाशवृत्तिध्वंसप्रतियोगित्वमादाय नार्थान्तरम् / कालघ. 37 न्या० कु०