________________ श्वर व्याख्यात्रयोपेतप्रकाशबधोनीयुते न्यायकुसुमाञ्जलो [ 2 कारिकाव्याख्यायां प्रकाशः। न च परमाणवः कार्यद्रव्यसमानकालिकपरमाणुक्रियाऽतिरिक्तक्रियावन्तो मूर्तस्वात् पटवदिस्यवान्तरप्रलये, महाप्रलये च कार्यद्रव्यसमानकालिकतवृत्तिध्वंसान्यध्वंसवन्तः तत एव तद्वदिति प्रकाशिका। तिरेकनिधयात् सामान्यतोऽनुपाधितानिश्चयात, प्रलयस्वीकारे साधनाव्यापकत्वनिश्चयेऽपि साध्याव्यापकत्वनिश्चयादस्वीकारे च साध्यव्यापकत्वनिश्चयेऽपि साधनव्यापकतानिश्चयात् / न च प्रलय. स्वीकारेऽपि सावयवत्वावच्छिन्नसाध्यव्यापकोऽयमुपाधिरुपाधिन्यैविध्याभिधानस्योपलक्षणपरत्वादि. ति वाच्यम् / सावयवत्वावच्छिन्नसाधनव्यापकत्वाद् / यद्धविच्छिन्नसाध्यव्यापकस्तद्धर्मावच्छिमसाधनव्यापकस्यैवोपाधित्वात् / अन्यथा प्रसिद्धानुमाने व्यञ्जनवत्वादेरुपाधितापत्तेः / किश्चात्रानुमाने व्याप्तिदोषो नास्त्येवेति कथमुपाधिः सङ्गच्छताम् / अत एव चिन्तामणाविदमेव सिद्धान्तानुमान मुक्तमिति / अत्राहुः / प्रारम्भकत्वमात्रं हेतुर्न च द्रव्यविशेषितमेवश्च यथा निरुक्तस्य साध्यस्याका. शादावसत्वेन हेतोर्व्यभिचार इति एवं द्रव्यविशेषितहेत्वभिप्रायेण च चिन्तामणौ सिद्धान्तानुमानमिदम् / अणु भिन्नत्वावच्छिन्नसाध्यव्यापकश्चायमुपाधिः / कपालादौ 'निरुक्तसाध्यव्यापकत्वादाका. शादौ तदबच्छिन्नसाधनाव्यापकत्वाच न्यायमतेनैवायमुपाधिरतोन मात्रपदव्यवच्छेयाप्रसिद्धिः। का. लपदमपाधौ त्याज्यमेव तथा सति आकाशादेरेव मात्रपदव्यवच्छेयस्वमित्यप्याहुः / वस्तुत उपा. धिपदं प्रकृतेऽवच्छेदकपरं तेनायमर्थः, एककालीना इत्यत्र प्रलयरूपकालोपाधेरेवाच्छेदकत्वेऽ. प्रसिद्धिरिति संसाररूपकालोपाधिरेव पक्षतावच्छेदको वाच्यः / तथा सति बाधापत्तिरिति / अनयैव रीत्या कार्यद्रव्यानधिकरणेत्यपि क्वाचित्कः पाठो योजनीयः, संसारकालस्यावच्छेदकत्वे बाध इति तदन्यः कालोपाधिरवच्छेदको वाच्यः। तत्र चाप्रसिद्धिरित्येवं कृत्वा, मात्रपदं च उभयपाठप तेऽपि व्युत्क्रमेण योजनीयम् / कार्यद्रव्याधिकरणकालवृत्तित्वमात्रमिति क्रमेणेति दिक। न च परमाणव इति।व्योमादेः प्रलयेऽपि सत्वाद्बाध इति कार्येति / क्रियाकाले कार्यावश्यम्भावेन बाध इति द्रव्येति / दृष्टान्तसिद्धयर्थं परमाण्विति / पक्षधर्माताबलात् कार्यद्रष्यासमानकालीनक्रियासिद्धौ, प्रलयसिद्धिरिति भावः / योग्यतैवात्र साध्येति न निष्क्रियविनष्टे व्यभिचारः। क्रियावत्त्वमेव वा हेतुत्वेन विवक्षितमिति स्मर्त्तव्यम् / तत एवेति / ध्वंसवत्त्वादेवेत्यर्थः। न च यस्मिन् परमाणौ प्रथमत एव संयोगादिसमस्तकार्यध्वंसः, पश्चाच परमाण्वन्तरकर्मनाशेन महाप्रल. यस्तस्मिन्नंशतो बाधव्यभिचाराविति वाच्यम् / संयोगनाशाय क्रियायास्तभाशाय वा संयोगस्य स्वीकारेणादृष्टनाशादेव चरमनाशे सर्वत्र साध्यसत्त्वात् / योग्यतैवात्रापि साध्येति क्रियावत्वमेवात्रापि मकरन्दः। परमाण्विति ।मुर्तत्वादिति। क्रियावत्त्वादित्यर्थः। तेन निष्क्रिये विनष्टे न न्यभिचारः। योग्यता साध्येत्यन्ये। तत एवेति / मूर्त्तत्वादेवेत्यर्थः / अत्रापि योग्यतायाः साध्यत्वानोत्पन्नविनष्टव्यभिचारः। वस्तुतो मूर्तपदं ध्वंसवत्परमन्यथाऽवच्छिन्नपरिमाणवत्परत्वे व्यर्थविशेषणत्वापत्तरिति ध्येयम्। टिप्पणी। न्यायमतेनैवेदमुपायुद्भावनम् , तव मते इति च शेषः / यद्यपि दृष्टान्ते साध्याव्यापकत्वम् / तथापि अणुभिन्नत्वावच्छिन्नसाध्यव्यापकत्वादाकाशे तादृशसाधनाव्यापकत्वाच भवत्यपाधिः, न चाकाशे साध्यसत्त्वनिश्चयः, एतदनुमानपूर्व प्रलयस्य सन्दिग्धत्वात् . साध्यवत्तया निश्चिते यावत्युपाधिनिश्चयस्यैव दूषकत्वात् साघ्याव्यापकत्वस्य सन्दिग्धस्यापि दूष कत्वात् / मात्रपदव्यावर्त्यस्य न्यायमते प्रलयस्य सत्वान्न तद्वैयर्यशङ्का / वस्तुतस्तूपाधिपदमवच्छेदकपरम् , तथा चैककालीनता इत्यत्र पक्षतावच्छेदककालवृत्तित्वं कार्य्यद्रव्याधिकरणकाल.