________________ द्वितीयस्तवके] प्रलयोपपादनम् / 207 प्रकाशः। तेनैव ब्वभिचारात् / एकदाऽऽरम्भहेतुसाकल्ये सतोति विशेषणासिद्धः / साध्यमपि कार्यद्रव्यशून्यसमवाय्यारभ्यत्वं कार्यमात्रशून्यसमवाय्यारभ्यत्वं वा / पाहे सिद्धसाधनमन्त्ये पाधः, भारम्भकसंयोगादेः सत्त्वात् / अथैककालीनाः सर्वे परमाणवः कदाचित् समप्रोपादेय. प्रबन्धशून्याः, प्रारम्भकत्वान्नष्टपवनारम्भकपरमाणुवत् / सर्वत्र पक्षतावच्छेदकावच्छिन्नसाध्यं प्रतीयते इत्येककाले शून्यता लभ्यते / न च पवनपरमाणनामपि पक्षत्वेनांशतः सिद्धसाधनम् / पक्षधर्मताबललभ्यसाध्याप्रतीतेः / अभेदानुमानवज पक्षस्यापि दृष्टान्तत्वाविरोधः / म / कार्यद्रव्याधिकरणकालमात्रवृत्तित्वस्योपाधित्वात् / / प्रकाशिका। दिति" कारिकायामुद्भिच्छब्देन तण्डुलीयकशाकविशेषो दृष्टान्त इत्यर्थः / तेनैवेति / धूमारब्धद हनादिन वेत्यर्थः / समग्रोपादेयप्रबन्धशून्यत्वं सामान्याभावः स च बाधितः। इदानीं प्रतिबन्धसत्त्वादिति कदा चिदिति विशेषणम् / उपादेयपदं = स्वोपादेयद्रव्यपरमतः खण्डप्रलयेऽपि कर्मादिसत्त्वान्न बाधः / श्रारम्भकत्त्वादिति / द्रव्यसमवायिकारणत्वादित्यर्थः / तेन ना काशादौ व्यभिचारः / नष्टेति / न च तेजोवद्वायोरपि संसर्गिद्रव्यतया तेनापि द्रव्यान्तरजनने दृष्टान्तस्य साध्यवैकल्यमिति वाच्यम् / पूर्वद्रव्यनाशकालीनस्य परमाणोः साध्यवत्वानिश्चयात् / कार्यद्रव्येति / ननूपाधिदातुर्मते मात्रपदव्यवच्छेद्याऽप्रसिद्धिः / न च न्यायमतेनैवायमुपाधिः स्यादिति ग्रन्थयोजना दृष्टान्तीकृतपरमाणोरेव साध्याव्यापकत्वात् / न च प्रलयासिद्धौ साध्यव्यापकतासन्देहोऽस्त्येवेति वाच्यम् / प्रलयम्य सिद्धावसिद्धौ चोपाधिताप्रयोजकान्यतररूपव्य. 'मकरन्दः। उद्वित्पदेन शाकविशेष एव दृष्टान्ततयोक्त इति भावः। तेनैवेति। क्रमारब्धदहनपवनादिनेत्यर्थः। तस्यैकदाऽऽरन्धत्वाभावादिति भावः / संप्रति तद्वाधितमित्यत आह कदा चिदिति / उपादेयपदं स्वोपादेयद्रव्यपरं, तेन खण्डप्रलयसाधने न बाधः / कार्यद्रव्येति। ननु मात्र. पदोपादाने दृष्टान्तितपवनपरमाणावेव साध्याव्याप्तिः, तस्य प्रलयेऽपि वृत्त्या तादृशकालमाप्रवृत्तित्वाभावात् / तदनुपादाने साधनव्यापकत्वम् / उपाधिदातुर्मते मात्रपदव्यवच्छेयकार्यद्रघ्या. नधिकरणकालाप्रसिद्धिश्च / अत एवेदमेवानुमानं सिद्धान्तितं शब्दखण्डे, अन्यथा सोपाधित्वे तद. नुपपत्ता, तस्मादयमनुषाधिरेव / प्रलयसन्देहदशायामुपाधित्वेनास्य सन्देहो दूषक इत्याशयेनास्यो. 'पाधिस्वेनोद्भावनम् / न च मात्रपदव्यवच्छेयासिद्धरस्यैवाप्रसिद्धतया कथं तथात्वमपीति वाच्यम् / न्यायमतेन तथात्वसम्भवादिति वदन्ति / वयन्तु ब्रूमः / न्यायमतेनैवास्योपाधित्वम् / एवञ्चोपा. धित्वादित्यस्य पूर्व त्वन्मत इति पुरणीयम् / तथा च नाप्रसिद्धिर्न बा साधनव्यापकत्वम् / साध्याव्यापकत्वन्त्ववशिष्यते, तदपि न, सावयवत्वाणुभिन्नत्वायवच्छिन्नसाध्यव्य पकतया पर्यवसितसाध्यव्यापकत्वात् / न चैवं स्वीकृतत्रिविधोपाधिबहिर्भावेऽपसिद्धान्तः, तस्योपलक्षणपरत्वात् / अत एव वायुः प्रत्यक्षः प्रमेयत्वादित्यादौ रूपवत्वावच्छिन्नसाध्यव्यापकमुद्भूतत्वमुपाधिः सर्वसिद्धः। न च न्यायमतेन सिद्धान्तितत्वादव्यभिचरिते प्रकृतहेतौ नोपाधिरिति वाच्यं, शून्यपदस्य ध्वंस. परतया कादाचित्काभावपरतया वा यथाश्रुते हेतोमनःप्रभृतौ व्यभिचारेणास्य सातत्वात् / अत एवारम्भकत्वादिति हेतुरुक्तः, अन्यथा मेयत्वादिकमेब समर्थं स्यात् / द्रव्यसमवायिकारण. त्वविवनया च सिद्धान्तत्वमिति न विरोधगन्धोऽपीति तत्त्वम् / कालमात्रपदयोरन्यतरान्तर्भावेण तन्मतेऽपि सन्दिग्धोपाधिपरत्वमित्याहुः / न चेति / व्योमादिसमानकालीनतया तदतिरिक्तत्वमसम्भवीत्यताह कार्यति / बाधवारणाय द्रव्येति / दृष्टान्तसिद्धयर्थमाह टिप्पणी। त्वात् नित्यत्वे च तत्राप्यस्त्येवोपाधिरिति नासङ्गतिः / कार्यद्रव्याधिकरणकालमात्रेति /